निद्रालु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रालुः, त्रि, (निद्रातीति । नि + द्रा + “स्पृहि- गृहीति ।” ३ । २ । १५८ । इति आलुच् ।) निद्राशीलः । निद्रा विद्यते अस्य गोतृणेत्या- दिना आलुः । इत्यमरटीकायां भरतः ॥ तत्- पर्य्यायः । स्वप्नक् २ शयालुः ३ । इत्यमरः । ३ । १ । ३३ ॥ तन्द्रालुः ४ । इति जटाधरः ॥ (यथा, पञ्चतन्त्रे । ५ । ४१ । “काशी विवर्ज्जयेच्चौर्य्यं निद्रालुश्चर्म्मचौरिकाम् । जिह्वालौल्यञ्च रोगाढ्यो जीवितं योऽत्र वाञ्छति ॥”)

निद्रालुः, स्त्री, (निद्रा देयत्वेनास्त्यस्या इति । निद्रा + बाहुलकात् आलुः ।) वार्त्ताकी । वन- वर्व्वरिका । इति राजनिर्घण्टः ॥ नलीनाम- गन्धद्रव्यम् । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रालु वि।

निद्राशीलः

समानार्थक:स्वप्नज्,शयालु,निद्रालु

3।1।33।1।3

स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ। पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः॥

वैशिष्ट्यवत् : निद्रा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रालु¦ त्रि॰ नि + द्रा--शीलार्थे आलु। निद्राशीले अमरः।
“अङ्गानि निद्रालुसविभ्रमाणि” ऋतुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रालु¦ mfn. (-लुः-लुः-लु) Sleeping, sleepy, drowsy, slothful. m. (-लुः) A name of Vishn4u. f. (-लुः) A sort of perfume, commonly नीली। E. निद्रा, and शीलार्थे आलु aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रालु [nidrālu], a. Sleeping, asleep. -लुः An epithet of Visnu; निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः Bhāg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निद्रालु/ नि- mfn. sleeping , sleepy , drowsy Ya1jn5. MBh. Sus3r. etc.

निद्रालु/ नि- m. N. of विष्णुL.

निद्रालु/ नि- f. Solanum Melongena L.

निद्रालु/ नि- f. = वन-बर्बरिकाL.

निद्रालु/ नि- f. a kind of perfume L.

"https://sa.wiktionary.org/w/index.php?title=निद्रालु&oldid=500646" इत्यस्माद् प्रतिप्राप्तम्