निधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधनम्, क्ली, (नि + धा + “कॄपॄवृजिमन्दिनि धाञः क्युः ।” उणां । २ । ८१ । इति क्युः ।) नाशः । तत् तु अदर्शनं मरणञ्च । (यथा, विष्णु- पुराणे । १ । १३ । ७३ । “एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ! । बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥”) कुलम् । तत्तु कुलस्थानं कुलमुख्यश्च । इत्यमर- भरतौ ॥

निधनम्, पुं क्ली, (नि + धा + क्युः ।) मरणम् । इत्यमरः । २ । ८ । १६ ॥ वधतारा । सा तु जन्मनक्षत्रत्वात् सप्तमी तारा । यथा, जन्म सम्पद्विपत् क्षेमः प्रत्यरिः साधको वष इत्यादि । प्रत्यरौ लवणं दद्यान्निधने तिलकाञ्चनम् । इति ज्योतिस्तत्त्वस् ॥ (निवृत्तं धनं यस्य ।) धन- हीने, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन पुं-नपुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।17।3।4

धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः। स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृट्विधिः। नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः। सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

निधन पुं-नपुं।

मरणम्

समानार्थक:पञ्चता,कालधर्म,दिष्टान्त,प्रलय,अत्यय,अन्त,नाश,मृत्यु,मरण,निधन

2।8।116।2।5

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः। अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

निधन नपुं।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

3।3।123।1।2

प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः। क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

निधन नपुं।

नाशः

समानार्थक:निष्ठा,निधन

3।3।123।1।2

प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः। क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन¦ पु॰ न॰। निधीयतेऽत्र नि + धा--क्यु।

१ मरणेअमरः लग्नतः

२ अष्टमस्थाने तत्र मरणस्य चिन्त्यत्वा-त्तस्य तथात्वम्।

३ स्वजन्मनक्षत्रावधिकेषु सप्तमषोडशत्र-योविंशेषु नक्षत्रेषु
“निधने तिलकाञ्चनम्” ज्यो॰ त॰।
“क गन्तासि भ्रातः। कृतवसतयो यत्र धनिनः। किमर्थं[Page4067-a+ 38] प्राणानां स्थितिमनुविधातुं कथमपि। धनैर्याच्ञालभ्यै-र्ननु परिभवोऽभ्यर्थनफलम् निकारोऽग्रे पश्चाद्धनम-हह भोस्तद्धि निधनमिति” शान्तिश॰। पञ्चावयवस्यसप्तावयवस्य वा साम्नोऽन्तिमे

४ अवयवे च तच्च यस्यकस्यचित्साम्नः अन्तिमभागरूपम् उद्गातृप्रस्तोतृप्रति-हर्त्तृभिः मिलितैर्युगपद्गेयम्।
“ऋतुषु पञ्चविधं सामो-पासीत वसन्तो हिङ्कारः ग्रीष्मः प्रस्तावः वर्षा उद्गीथःशरत् प्रतिहारो हेमन्तो निधनम्”
“बाचि सप्तबिधंसामोपासीत यत्किञ्चित् वाचो हुमिति स हिङ्कारःयत्प्रेति स प्रस्तावो यदेति स आदिः यदुदिति स उ-द्गीथः यत्प्रतीति स प्रतिहारः यदुपेति स उपद्रवःयन्नीति तन्निधनम्” छा॰ उ॰। निवृत्तं धनं यस्यात्।

५ द-रिद्रे त्रि॰
“निधनता सर्वापदामास्पदम्” मृच्छकटिकम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन¦ mfn. (-नः-ना-नं) Poor. mn. (-नः-नं)
1. Race, family.
2. Loss, dis- appearance, annihilation,
3. Death, dying.
4. The seventh asterism of the lunar mansions, reckoning from that under which a person is born. m. (-नः) The head of a family. E. नि before धा to cherish, affix अच्, or नि neg. धन wealth, or नि + धा + क्यु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन [nidhana], a. [निवृत्तं धनं यस्मात्; Uṇ.2.81] Poor, indigent; अहो निधनता सर्वापदामास्पदम् Mk.1.14.

नः, नम् Destruction, annihilation, death, loss; स्वधर्मे निधनं श्रेयः Bg.3.35; म्लेच्छनिवहनिधने कलयसि करवालम् Gīt.1; कल्पान्ते- ष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम् Bh.2.16; Pt.1.21; 5.95.

The concluding passage at the end of a Sāman sung in chorus, the fifth of the five parts of Sāman; लोकेषु पञ्चविधं सामोपासीत ...... द्यौर्निधनम् Ch. Up.2. 2.1.

The finale (in music).

N. of the eighth lunar mansion.

Conclusion, end, termination; अस्य वाक्यस्य निधने प्रादुरासीच्छिवो$निलः Mb.6.119.38.

Ved. Residence; receptacle. -नः The head of a family. -नम् Family, race. -Comp. -कारिन् a. fatal, destructive.-क्रिया a funeral ceremony.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन/ नि-धन mfn. (for 2. See. col. 3) having no property , poor L.

निधन/ नि- (for 1. See. col. 2) n. ( m. only Hariv. 4846 ; g. अर्धर्चा-दि)settling down , residence or place of -rresidence , domicile , receptacle AV. Sus3r. BhP.

निधन/ नि- n. conclusion , end , death , destruction , loss , annihilation Mn. Var. MBh. etc.

निधन/ नि- n. (in music) the concluding passage of a सामन्which is sung in chorus

निधन/ नि- n. any finale AV. TS. Br. etc.

निधन/ नि- n. N. of the 8th mansion Var.

निधन/ नि- n. race , family L.

निधन/ नि- m. the head of a family W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन न.
1. घास के गट्ठरों का ढेर, आप.श्रौ.सू. 1.4.3; चि.भा.से. मुष्टियों की राशियों (मुष्टीनां राशयः) की निश्चित संख्या से युक्त घास का गट्ठर; 2. तीन गायनकर्ताओं द्वारा सौत्रामणी में किये गये गायन का एक प्रकार (तीन गायकः प्रस्तोता, निग्राभ्या निधन 268 उद्गाता,एवं प्रतिहर्ता) वे चार हैं ः संश्रवसे, विश्रवसे, सत्यश्रवसे एवं ‘श्रवसे’ यदि यजमान ब्राह्मण हो, श्रौ.को. (अं.) 1.936. इनका गायन ‘वसाहोम’ के समय किया जाता है; 3. अन्तिम (चरम), साम का पाँचवाँ एवं अन्तिम भाग, आप.श्रौ.सू. 13.2०.4. भाष्य. इसमें उद्गारबोधक समाहित हैं, उदा. सात्, साम्, सुवाः इडा,वाक् एवं ‘आ’ 9 बहिष्पवमान ऋचाओं केलिए; 4. अन्तिम, भा.श्रौ.सू. 1.4.1०.

"https://sa.wiktionary.org/w/index.php?title=निधन&oldid=500647" इत्यस्माद् प्रतिप्राप्तम्