निधि

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधिः, पुं, (निधीयतेऽत्रेति । नि + धा + किः ।) नलिकानामगन्धद्रव्यम् । समुद्रः । इति राज- निर्घण्टः ॥ (यथा, देवीभागवते । ३ । २२ । १० । “कन्यां सुकेशीं निधिकन्यकासमां मेने तदात्मानमनुत्तमञ्च ॥”) जीवकौषधिः । इति शब्दचन्द्रिका ॥ आधारः । यथा । गुणनिधिः । जलनिधिः । इत्यादयः ॥ चिरप्रनष्टस्वामिकभूजातधनविशेषः । इति प्राञ्चः ॥ अज्ञातस्वामिकचिरनिखातस्वर्णादि । यथा । अधुना भूमौ चिरनिखातस्य सुवर्णा- देर्निधिशब्दवाच्यस्याधिगमे विधिमाह । “राजा लब्ध्वा निधिं दद्यात् द्बिजेभ्योऽर्द्धं द्बिजः पुनः । विद्वानशेषमादद्यात् सर्व्वस्यासौ प्रभुर्यतः ॥ इतरेण निधौ लब्धे राजा षष्टांशमाहरेत् । अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥” “उक्तलक्षणं निधिं राजा लब्धार्द्धं ब्राह्मणेभ्यो दत्त्वा शेषं कोषे निवेशयेत् । ब्राह्मणस्तु विद्बान् श्रुताध्ययनसम्पन्नः सदाचारो यदि निधिं लभेत तदा सर्व्वमेव गृह्णीयात् । यस्मादसौ सर्व्वस्य जगतः प्रभुः । इतरेण तु राजविद्बद्ब्राह्मण- व्यतिरिक्तेनाविद्वद्ब्राह्मणक्षत्त्रियादिना निधौ लब्धे राजा षष्ठांशमधिगन्त्रे दत्त्वा शेषं निधिं स्वयमाहरेत् । यथाह वशिष्ठः । अप्रज्ञायमानं वित्तं योऽधिगच्छेत् राजा तद्धरेदधिगन्त्रे षष्ठ- मांशं प्रदद्यात् इति । गौतमोऽपि निध्यधिगमो राजधनं न ब्राह्मणस्याभिरुपस्याब्रह्मणोऽप्या- ख्याता षष्ठं अंशं लभेतेत्येक इति । अनिवेदित इति कर्त्तरि निष्ठा । अनिवेदितश्चासौ विज्ञा- तश्च राजा इत्यनिवेदितविज्ञातः । यः कश्चि- न्निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च राजा स सर्व्वं निधिं दाप्यो रण्ड्यश्च शक्त्यपेक्षया । अथ निधेरपि स्वाम्यागत्यरूपसङ्ख्यादिभिः स्वत्वं भावयति तदा तस्मै राजा निधिं दत्त्वा षष्ठं द्वादशं वांशं स्वयमाहरेत् । यथाह मनुः । “ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वेति ॥ अंशविकल्पस्तु वर्णकालाद्यपेक्षया वेदितव्यः ।” इति मिताक्षरायां व्यवहाराध्यायः ॥ कुवेरस्य नवधा रत्नविशेषः । तत्पर्य्यायः । शेवधिः २ । इत्यमरः । १ । १ । ७४ ॥ सेवधिः ३ । इति भरतः ॥ तद्भेदा यथा, -- “पद्मोऽस्त्रियां महापद्मः शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च वर्च्चोऽपि निधयो नव ॥” इति हारावली ॥ महादेवः । यथा, महाभारते । १३ । १७ । ४३ । “श्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधि पुं।

सामान्यनिधिः

समानार्थक:निधि,शेवधि,शङ्ख

1।1।71।2।1

स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः। निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव॥

सम्बन्धि1 : कुबेरः

 : विशेषनिधिः

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधि¦ पु॰ नि + धा--आधारे कि।

१ वस्तुन आषारे
“निधिःश्रुतीनां धनसम्पदामिव” माघः
“तदित्थमेतस्य निधेःकलानाम्” नैष॰। जलनिधिः गुणनिधिरित्यादि

२ नलिकानामगन्धद्रव्ये

३ समुद्रे राजनि॰

४ विष्णौ परेश्वरेतस्य सर्वाधारत्वात् तथात्वम्।
“सर्वः शर्वः शिबःस्थाणुर्भूतादिर्निधिरव्ययः” विष्णुस॰
“प्रलवेऽस्मिन् सर्वंनिधीयते इति निधिः” भा॰।

५ भूखाताज्ञातस्वामिकध-नादौ मिताक्ष॰ निधिविषये विधिभेदस्तत्रोक्तो यथा[Page4067-b+ 38]
“अधुना मूमौ चिरनिखातस्य मुवर्णादेर्निधिशब्दवाच्य-स्याधिगमे विधिमाह
“राजा लब्ध्वा निधिं दद्यात् द्विजे-भ्योऽर्द्धं द्विजः पुनः। विद्वानशेषमादद्यात् सर्वस्यासौप्रभुर्यतः। इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत्। अनिवेदितविज्ञातोदाप्यस्तं दण्डमेव च” याज्ञ॰। उक्तंलक्षणं निधिं राजा लब्ध्वार्द्धं ब्राह्मणेभ्यो दत्त्वा शेषंकोषे निवेशयेत्। ब्राह्मणस्तु विद्वान् श्रुताध्ययनसम्पन्नःसदाचारो यदि निधिं लभेत तदा सर्वमेव गृह्णीयात्। यस्मादसौ सर्वस्य जगतः प्रभुः। इतरेण तु राजविद्वद्-ब्राह्मणव्यतिरिक्तेनाविद्वद्ब्राह्मणक्षत्रियादिना निधौलब्ध्वेराजा षष्ठांशमधिगन्त्रे दत्त्वा शेषं निधिं स्वयमा-हरेत्” यथाह वशिष्ठः
“अप्रज्ञायमानं वित्तं योऽधि-गच्छेत् राजा तद्धरेदधिगन्त्रे षष्ठमंशं प्रदद्यात्” इति। गौतमोऽपि
“निध्यधिगमो राजधनं न ब्राह्मणस्याभि-रूपस्याब्राह्मणोऽप्याख्याता षष्ठमंशं लभेतेत्येके” इति। अनिवेदित इति कर्त्तरि निष्ठा। अनिवेदितश्चासौ वि-ज्ञातश्च राज्ञा” इत्यनिवेदितविज्ञातः। यः कश्चिन्निधिंलब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च राज्ञा, स सर्वंनिधिं दाप्योदण्ड्यश्च शक्त्यपेक्षया। अथ निधेरपि स्वा-म्यागत्य रूपसङ्ख्यादिभिः स्वत्वं भावयति तदा तस्मै राजानिधिं दत्त्वा षष्ठं द्वादशं वांशं स्वयमाहरेत्” यथाहमनुः
“ममायमिति यो ब्रूयान्निधिं सत्येन मानवः। तस्याददीत षड्भागं राजा द्वादशमेव वेति”। अशवि-कल्पस्तु वर्णकालाद्यपेक्षया वेदितव्यः”।

३ महापद्मादि-रत्नविशेषे सेवधौ स च नवविधः
“महापद्मश्च पद्मश्चशङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्व खर्वश्च नि-धयो नव” इति शब्दार्णवः खर्वभिन्नानामष्टानामेवनिधित्वं तल्लक्षणञ्च मार्कण्डेयपु॰

६० अ॰ उक्तं यथा(
“मार्कण्डेय उवाच। षष्मिनी नाम या विद्यालक्ष्मीस्तस्याश्च देवता। तदाधाराश्च निधयस्तान् मेनिगदतः शृणु। तत्र पद्ममहापद्मौ तथा मकरकच्छपौ। मुकुन्दकुन्दौ नीलश्च शङ्खश्चैवाष्टमो निधिः। सत्यांवृद्धौ भवन्त्येते सद्भिः सह भवन्त्यमी। एते ह्यष्टौसमाख्याता निधयस्तव क्रोष्टुके! एभिरालोकितं चित्तंमानुषस्य महामुने!। यादृक् स्वरूपं भवति तन्मेनिगदतः शृणु। पद्मो नाम निधिः पूर्वः स यस्य भवतिद्विज!। स तस्य तत्सुतानां च तत्पुत्राणां ध नान्यनः। दाक्षिण्यसारः पुरुषस्तेन चाधिष्ठितो भवेत्। सत्वाचारो[Page4068-a+ 38] महाभागोयतोऽसौ सात्विको निधिः। सुवर्णरूप्यता-म्रादिध तूनां च परिग्रहम्। करोत्यतितरां सोऽपितेषां च क्रयविक्रयम्। करोति च तथा यज्ञान् दक्षि-णाश्च प्रयच्छति। सम्पादयति कामांश्च सर्वानेव यथा-क्रमम्। सभादेवनिकेतांश्च स कारयति तन्मनाः

१ । सत्वाधारो निधिश्चान्यो महापद्म इति स्मृतः। सत्व-प्रधानो भवति तेन चाधिष्ठितो नरः। करोति पद्म-रागादि रत्नानाञ्च परिग्रहम्। स मौक्तिकप्रवालानांतेषां च क्रयविक्रयम्। ददाति योगशीलेभ्यस्तेषामा-वसथांस्तथा। स करोति च तच्छीलः स्वयमेव च जा-यते। तत्प्रसूतास्तथाशीलाः पुत्रपौत्रक्रमेण च। पर्वर्द्विमात्रः सप्तासौ पुरुषांश्च न मुञ्चति। महापद्मस्तुविप्राणां यज्ञार्थमुपजायते

२ । तामसो मकरो नामनिधिस्तेनावलोकितः। पुरुषोऽथ तमःप्रायः सुशी-लोऽपि हि जायते। वाणखड्गर्ष्टिधनुषां चर्मणाञ्चपरिग्रहम्। दंशनानाञ्च कुरुते याति मैत्रीञ्च राजभिः। ददाति शौर्य्यवृत्तीनां भूभुजां ये च तत्प्रियाः। क्रय-विक्रयशस्त्राणां नान्यत्र प्रीतिमेति च। एकस्यैव भव-त्येष नरस्य न सुतानुगः। द्रव्यार्थं दस्युतो नाशंसंग्रामे वापि स व्रजेत्

३ । कच्छपाख्यो निधिर्योऽन्योनरस्तेनाभिवीक्षितः। तमःप्रधानो भवति यतोऽसौतामसो निधिः। व्यवहारान् न शिष्टैश्च पण्यजातंकरोति च। क्रियाः स्वा निखिलाश्चैव न विश्वसितिकस्यचित्। समस्तानि यथाङ्गानि निगृह्यास्ते हि क-च्छपः। तथावष्टभ्य वित्तानि तिष्ठत्याकुलमानसः। नददाति न वा भुङ्क्ते तद्विनाशभयाकुलः। निधानमुर्व्यांकुरुते निधिः सोऽप्येकपुरुषः

४ । रजोगुणमयश्चान्योमुकुन्दो नाम यो निधिः। नरोऽबलोकितस्तेन तद्गुणोभवति द्विज!। वीणावेणुमृदङ्गादिगीतवाद्यपरिग्रहम्। करोति गायतां वित्तं नृत्यतां च प्रयच्छति। वन्दिमा-गधसूतानां विटानां लास्यपाठिनाम्। ददात्यहर्निशंभोगान् भुङ्क्ते तैस्तु समं द्विज!। कुलटासु रतिश्चास्यभवत्यन्यैश्च तद्विधैः। प्रयाति सङ्गमेकं च स निधिर्भजतेनरम्

५ । रजःसत्वमयश्चात्यः कुन्दोनाम महानिधिः। उपैति स्तम्भमधिकं नरस्तेनावलोकितः। समस्तधातु-रत्नानां पण्यधान्यादिकस्य च। परिग्रहं करोत्येष तथैवक्रयविक्रथम्। आधारः स्वजनानां चाप्यागताभ्यागतस्यच। सहते नापमानोक्तिं स्वल्पामपि महामुने!। [Page4068-b+ 38] स्तूयमानश्च महतीं प्रीतिं बध्नाति यच्छति। यं यमि-च्छति वै कामं मृदुत्वमुपयाति च। बह्व्यो मार्य्या भव-न्त्यस्य सूतिमत्योऽतिशोभनाः। तदन्वये सप्त नरान् निधिःकुन्दोऽनुवर्त्तते। प्रवर्द्धमानोऽनुनरमष्टभागेन सत्तम!। दीर्घायुश्चैव सर्वेषां पुरुषाणां प्रयच्छति। बन्धूनामेवभरणं ये च दूरादुपागताः। तेषां करोति वै वुन्दः पर-लोकेन चादृतः। भवत्यस्य न च स्नेहः सहवासिषुजायते। पूर्वमित्रैश्च शैथिल्यं प्रीतिमन्यैः करोति च

६ । तथैव सत्वतमसी यो बिभर्त्ति महानिधिः। निधिः सनीलस्तत्सङ्गी नरस्तच्छीलभाम्भवेत्। वस्त्रकर्पासधान्यादिफलपुष्पपरिग्रहम्। मुक्ताविद्रुमशङ्खानां शुक्त्यादीनांतथा मुने!। काष्ठादीनां करोत्येष यच्चान्थज्जलसम्भवम्। क्रयविक्रयमप्येषां नान्यत्र रमते मनः। तडागान् पुष्करिण्यादीन् तथारामान् करोति च। बन्धञ्च सरितां वृक्षांस्तथारोपयते नरः। अनुलेपनपुष्पादिभोगभोक्ताऽपि जायते। त्रिपूरषश्चापि निधि-र्नीलो नामेह जायते

७ । रजस्तमोमयश्चान्यः शङ्खसंज्ञो हि यो निधिः। तेनापि नीयते विप्र! सद्गुणित्वंनिधीश्वरः। एकस्यैव भवत्येष नरं नान्यमुपैति च। यस्य शङ्खो निधिस्तस्य स्वरूपं क्रोष्टुके! शृणु। एकएवात्मना मिष्टमन्नं भुङक्ते तथाऽम्बरम्। कदन्नभुक्परि-जनो न च शोभनवस्त्रधृक्। न ददाति सुहृद्भार्य्यासुतपुत्रस्नुषादिषु। स्वपोषणपरः शङ्खी नरो भवतिसर्वदा

८ । इत्येते निधयः ख्याता नराणामर्थदेवताः। मिश्रावलोलिता मिश्रस्वभावफलदायिनः। यथाख्यातस्वभावस्तु भवत्येकविलोकनात्। सर्वेषामाधिपत्ये चश्रीरेषा द्विज! पद्मिनी”। ऋषीणाभृणभूतपाठयुते

३ वेदे च। निधिगोपशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधि¦ m. (-धिः)
1. One of KUVE4RA'S Nid'his or divine treasures, nine of which are enumerated: viz. The Padma, Maha4padma, Sankha, Makara, Kachchapa, Mukunda, Kunda, Nila, and K'harba: their nature is not exactly defined, though some of them appears to be precious gems; according to the Ta4ntrika system, they are per- sonified and worshipped as demi-gods, attendant either upon KUVE4RA or upon LAKSHMI4, the goddess of prosperity.
2. A recep- tacle, a place of asylum or accumulation, as a treasury, a granary, a nest, &c.; also figuratively, as गुणनिधिः a man who contains or is endowed with all good qualities.
3. A treasure, any sum or quan- tity of wealth or valuables.
4. A medicinal plant and perfume, commonly Jivaka.
5. The ocean.
6. An epithet of Vishn4u E. नि in, धा to have, affix. आधारे कि |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधिः [nidhiḥ], [नि-धा-आधारे कि]

Abode, receptacle, reservoir; जल˚, तोय˚, तपोनिधि &c.

A store-house, treasury.

A treasure, store, hoard (for the nine treasures of Kubera, see नवनिधि).

The ocean.

An epithet of Viṣṇu.

A man endowed with many good qualities.

the science of chronology; Ch. Up.7.2.1. -Comp. -ईशः, नाथः an epithet of Kubera; Bhāg.1.5.56. -वादः the art of finding treasure. -वासः the town of Newāsā on the Pravarā river in the Ahmednagar District; Cf. निधिवासकर-परमा- नन्द-प्रकाशितायां... संहितायां ......। Colophon of Śiva. B.2.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधि/ नि- m. setting down or serving up (food , etc. ) RV. i.183 , 4etc.

निधि/ नि- m. the bottom of the उखाS3Br.

निधि/ नि- m. a place for deposits or storing up , a receptacle ( esp. अपां निधि, र्of waters , the ocean , sea , also N. of a सामन्; कलानां न्, the full moon) MBh. Ka1v. etc.

निधि/ नि- m. a store , hoard , treasure RV. etc. etc. (in later language esp. the divine treasures belonging to कुबेर, nine of which are enumerated , viz. पद्म, महापद्म, शङ्ख, मकर, कच्छप, मुकुन्द, नन्द, नीलand खर्व, they are also personified as attendants either of कुबेरor of लक्ष्मी; See. निधि-दत्तand -पालितbelow)

निधि/ नि- m. the sea L.

निधि/ नि- m. (with दैव)the science of chronology ChUp. vii , 1 , 2 ( S3am2k. )

निधि/ नि- m. N. of a partic. medic. plant(= जीविका) L.

निधि/ नि- m. a kind of perfume(= नलिका) L.

निधि/ नि-धि See. under नि-धा.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Sukha God. Br. IV. 1. १८.
(II)--the Goddess enshrined at वैश्रवनालय. M. १३. ५१.
(III)--one of the seven रत्नस् of the king. वा. ५७. ६८.
(IV)--a mukhya गण. वा. १००. १८.
(V)--wealth; eight kinds of; wealth of Kubera; Padma, Mahapadma, Makara, Kacchapa, Kumuda, शन्ख, Nila and Nandana. वा. ४१. १०-11.
(VI)--jewels; तातण्क, फलकम्:F1:  Br. II. २९. ७५; IV. ३३. ७६.फलकम्:/F कण्ठसूत्र, Keyura, and नूपुर. फलकम्:F2:  Ib. IV. १५. २१; III. २७. 6.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=निधि&oldid=500648" इत्यस्माद् पुनः प्राप्तिः