निन्दित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दितः, त्रि, (निन्दास्य जातेति । निन्दा + “तदस्य सञ्जातं तारकादिभ्य इतच् ।” ५ । २ । ६ । इति इतच् ।) निन्दायुक्तः । तत्पर्य्यायः । धिक्कृतः २ अपध्वस्तः ३ निर्भर्त्सितः ४ । इति जटाधरः ॥ (यथा, देवीभागवते । ४ । ७ । ४९ । “मधु पश्यति मूढात्मा प्रपातं नैव पश्यति । करोति निन्दितं कर्म्म नरकान्न बिभेति च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दित¦ त्रि॰ निन्द--क्त।

१ गर्हिते

२ धिक्कृते जटा॰
“विहि-तस्याननुष्ठानात् निन्दितस्य च सेवनात्” याज्ञ॰। निन्दि-तञ्च शास्त्रलोकयोर्गर्हितम्। तत्र शास्त्रे निन्दितं शूद्र-प्रतिग्रहादि लोकगर्हितमतिभोजनादि।
“अस्वर्ग्यं लोकबिद्विष्टं तस्मात् तत् परिवर्जयेत्” मनुः
“यद्यपि शिष्टं लोकविरुद्धं नाचरणीयं नाचरणीयमिति” मिताक्षराधृतवचनम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दित¦ mfn. (-तः-ता-तं)
1. Abused, reviled, reproved,
2. Low, despi- cable, worthy of being reviled.
3. Prohibited, forbidden. E. णिद् to abuse, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दित [nindita], p. p. [निन्द्-क्त] Blamed, censured, abused, defamed &c.

Low, despicable.

Prohibited, forbidden.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्दित mfn. blamed , censured , abused , defamed , low , despicable , prohibited , forbidden RV. Br. etc.

"https://sa.wiktionary.org/w/index.php?title=निन्दित&oldid=359816" इत्यस्माद् प्रतिप्राप्तम्