निपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपातः, पुं, (नितरां पतनमिति । नि + पत + घञ् ।) मृत्युः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ५ । १२२ । ९ । “सङ्गरेषु निपातेषु तथापद्व्यसनेषु च ॥”) पतनम् । यथा, आनन्दलहर्य्याम् । ५७ । “वने वा हर्म्म्ये बा समकरनिपातो हिमकरः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपात¦ पु॰ नि + पत--भावे घञ्।

१ पतने

२ मृतौ त्रिका॰

३ अधःपतने च
“पयोधरोत्सेधनिपातचूर्णिताः” कुमा॰
“क्व च निशितनिपाता वज्रसाराः शरास्ते” शकु॰। निपतन्ति अवयववर्णविनाशादिना अन्यथा निष्पद्यन्तेनि + पत--कर्त्तरि ज्वला॰ ण। वर्णागमादिना अन्यथोत्प-द्यमाने सूत्रानिष्पाद्ये

४ शब्दभेदे। वर्णागमादिप्रकारश्चस्मर्य्यते
“वर्णागमो वर्णविपर्य्यश्च द्वौ चापरौ वर्णवि-कारनाशौ। धातोस्तदर्थादिशयेन योगस्तदुच्यते पञ्च-विघं निरुक्तम्”।
“भवेद्वर्णागमात् हंसः सिंहो वर्णविपर्य्ययात्। गूढोत्मा वर्णविकृते र्वर्णलोपे पृषोदरम्” निपतन्त्यर्थेषु उच्चावचेषु नि + पत--कर्त्तरि ज्वला॰ ण। [Page4070-b+ 38] नानाविधार्थेषु वृत्त्या स्वार्थबोधकतया पतनशीले चादौ

५ शब्दभेदे
“तद्यान्येतानि चत्वारि पदजातानि नामा-ख्याते उपसर्गनिपाताश्चेति” विभज्य अथ निपाताउच्चावचेष्वर्थेषु निपतन्तीति उपमार्थे वा कर्मोपसंग्र-हार्थे पदपूरणाये वा” विरुक्तकारः। ते च
“प्राग्रीश्व-रान्निपाताः”
“चादयोऽसत्त्वे”
“प्रादयश्च” इत्यादिषु पा॰सूत्रेषु पठिताः निपातसंज्ञाः भवन्ति। उपसर्गातिरि-क्तनिपातानां च द्योतकत्ववाचकत्वोभयस्वीकारः
“अव्य-यविभक्तीति” पा॰ सू॰ भाष्ये स्थितः। उपसर्गाणान्तु-द्योतकत्वमेवेति
“गतिर्गताविति” पा॰ सू॰ भाष्ये स्थि-तम्। उपसर्गशब्दे

१२

३५ पृ॰ वैयाकरणमतसिद्धार्थबोध-कता उक्ता नैयायिकमते तल्लक्षणादि शब्दश॰ प्र॰ उक्तं यथा
“निपातं लक्षयति। स्वार्थे शब्दान्तरार्थस्य तादात्म्ये-नान्वयाक्षमः। सुबाद्यन्यो निपातोऽसौ विविधश्चादि-भेदतः। यः शब्दः केवले यादृशस्वार्थे शब्दान्तरा-र्थस्य तादात्म्येनान्वयबोधं प्रत्यसमर्थः सुवादिप्रत्ययेभ्यःप्रत्येकं भिन्नः स तादृशार्थः भेदेनान्वयबोधं प्रति योग्यः। न हि स्मृतमनुभूतञ्चेत्यादितः कस्यापि स्मृतः समुच्चयइत्यादिरनुभवः किन्तु स्मृतानुभूतयोः समुच्चय इत्यादि-रेव। स्तोकं पचति इत्यादौ धातुरपि स्वार्थे नामार्थस्यतादात्म्यं बोधयंस्तत्समर्थ एव प्रत्ययस्तु सुबादिरेव। चःशब्द इत्यादौ नामार्थस्याभेदसाकाङ्क्षश्चकारादिः स्वपर-त्वान्न निपातः किन्तु नामैव। पुरन्दरप्रभृतौ तु नाम्निनिपातव्यपदेशः सूत्रानिष्पाद्यत्वप्रयुक्तो भाक्तः। कार्त्तिक्यादौ यन्न दानं तदत्यन्तविनिन्दितम्” इत्यादौन केवले नञर्थे यदर्थस्य तादात्म्येनान्वयः किन्तु दाना-द्यवच्छिन्ने। स्वर्दिवा नक्तमाद्यव्ययमपि नामैव न तुनिपातः शोभनं स्वरित्यादौ तदर्थे नामार्थस्य तादात्म्ये-नान्वयात्। प्रादयस्तूपसर्गा न सार्थकाः सार्थकाश्चेत्निपाता अपि”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपात¦ m. (-तः)
1. Death, dying.
2. Falling, coming down, alighting.
3. Irregularity, (in Grammar,)
4. A particle, (in ditto.)
5. Attack- ing.
6. Casting.
7. Accidental occurrence or mention. E. नि before, पत् to go, affix भावे घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपातः [nipātḥ], 1 Falling or coming down, descending, alighting; पयोधरोत्सेधनिपातचूर्णिताः Ku.5.24; Ṛs.5.4.

Attacking, falling upon, a spring, leap; उत्पश्यतः सिंहनि- पातमुग्रम् R.2.6.

Casting, hurling, discharging; स च त्वदेकेषुनिपातसाध्यः Ku.3.15.

Descent, fall; निशित- निपाताः शराः Ś.1.1.

Dying, death; आनिपाताच्छरीरस्य युक्तो वार्यनिलाशनः Ms.6.31.

Accidental occurrence or mention; Mb.12.59.46.

An irregular form, irregularity, putting down as irregular or exceptional; एते निपाताः, निपातो$यम् &c.

A particle, an indeclinable; see P.I.4.56.

The opposite extremity, the lower end.

Mixing, coming together; बिन्दुन्यासादयो$वस्थाः शुक्रशोणितसंभवाः । यासमेव निपातेन कललं नाम जायते ॥ Mb.12. 32.115.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपात/ नि- m. falling down , descending , alighting( lit. and fig. ) , falling from( abl. )into or upon( comp. ) , rushing upon , attacking( comp. ) Mn. MBh. etc.

निपात/ नि- m. decay , destruction , ruin , death ib.

निपात/ नि- m. (from the Caus. ) casting , hurling , discharging Kum. iii , 15

निपात/ नि- m. accidental occurrence or mention Nir. A1s3vS3r.

निपात/ नि- m. (in gram.) irregular form , irregularity , exception(See. पर-, पूर्व-)

निपात/ नि- m. a particle (all adverbs including conjunctions and interjections) Nir. Pra1t. Pa1n2. 1-4 , 56

निपात/ नि-पात See. under नि-पत्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--words that do not derive from roots like अरम् (quick). वा. 7. ५७.

"https://sa.wiktionary.org/w/index.php?title=निपात&oldid=500652" इत्यस्माद् प्रतिप्राप्तम्