निम्ब

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्बः, पुं, (निम्बति स्वास्थ्यं ददातीति । निम्ब + अच् ।) वृक्षविशेषः । निम् इति भाषा । तत्- पर्य्यायः । अरिष्टः २ सर्व्वतोभद्रः ३ हिङ्गु- निर्य्यासः ४ मालकः ५ पिचुमर्द्दः ६ । इत्य- मरः । २ । ४ । ६२ ॥ अर्कपादपः ७ । इति हेमचन्द्रः ॥ कैटर्य्यः ८ वरत्वचः ९ छर्द्दिघ्नः १० । इति रत्न- माला ॥ प्रभद्रः ११ पारिभद्रकः १२ काक- फलः १३ कीरेष्टः १४ नेता १५ सुमनाः १६ विशीर्णपर्णः १७ यवनेष्टः १८ पीतसारकः १९ शीतः २० । इति राजनिर्घण्टः ॥ पिचुमन्दः २१ तिक्तकः २२ । इति भावप्रकाशः ॥ कोकटः २३ शूकमालकः २४ । इति जटाधरः ॥ अस्य गुणाः । शीतत्वम् । तिक्तत्वम् । कफव्रणक्रिमि- वमिशोफशान्तिकारित्वम् । बलासबहुविधपित्त- दोषहृदयविदाहनाशित्वञ्च । इति राज- निर्घण्टः ॥ लघुत्वम् । भ्राहित्वम् । कटुपाकि- त्वम् । अग्निवातकारित्वम् । अहृद्यत्वम् । भ्रम- तृट्कासज्वरारुचिच्छर्द्दिकुष्ठहृल्लासमेहनाशि- त्वञ्च । तत्पत्रगुणाः । नेत्रहितकारित्वम् । कृमिपित्तविषसर्व्वारोचककुष्ठनाशित्वम् । वात- लत्वम् । कटुपाकित्वञ्च । तत्फलगुणाः । रसे तिक्तत्वम् । पाके कटुत्वम् । भेदनत्वम् । स्निग्ध- त्वम् । लघुत्वम् । उष्णत्वम् । कुष्ठगुल्मार्शःकृमि- मेहनाशित्वञ्च । “निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्निवातनुत् । अहृद्यः श्रमतृट्कासज्वरारुचिकृमिप्रणुत् ॥ व्रणपित्तकफच्छर्द्दिकुष्ठहृल्लासमेहनुत् । निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्रणुत् ॥ वातलं कटुपाकञ्च सर्व्वारोचककुष्ठनुत् । नैम्बं फलं रसे तिक्तं पाके तु कटु भेदनम् ॥ स्निग्धं लघूष्णं कुष्टघ्नं गुल्मार्शःकृमिमेहनुत् ॥” इति भावप्रकाशः ॥ * ॥ तत्तैलगुणाः । नात्युष्णत्वम् । कृमिकुष्ठकफ- त्वग्दोषव्रणकण्डूतिशोफहारित्वम् । पित्तलत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ “निम्बं पित्तकफच्छर्द्दिव्रणहृल्लासकुष्ठनुत् ।” निम्बपत्रं इति वा पाठः ॥ * ॥ “करञ्जनिम्बजफलं कृमिकुष्ठप्रमेहजित् । निम्बतैलन्तु कुष्ठघ्नं तिक्तं कृमिहरं परम् ॥” इति राजवल्लभः ॥ अथ महानिम्बः । वकाईन इति हिन्दीभाषा ॥ तत्पर्य्यायगुणाः । यथा, भावप्रकाशे । “महानिम्बः स्मृतो द्रेका रम्यको विषमुष्टिकः । केशमुष्टिर्निम्बरकः कामुकः क्षीर इत्यपि ॥ महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषायकः । कफपित्तकृमिच्छर्द्दिकुष्ठहृल्लासरक्तजित् ॥ प्रमेहश्वासगुल्मार्शोमूषिकाविषनाशनः ॥” (षष्ठ्यां तिथौ तद्भक्षणे तिर्य्यक्योनित्वं स्यात् । इति तिथितत्त्वम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्ब पुं।

निम्बः

समानार्थक:अरिष्ट,सर्वतोभद्र,हिङ्गुनिर्यास,मालक,पिचुमन्द,निम्ब

2।4।62।2।2

अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः॥ पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्ब¦ पु॰ निवि--सेचने अच् वबयोरैक्यात् मः। (निम्) ख्यातेवृक्षे अमरः
“निम्बः शीतो लघुर्ग्राही कटुपाकोऽग्नि-वातहृत्। अहृद्यः श्रमतृट् कासज्वरारुचिकृमिप्रणुत्। निम्बपत्रं स्मृतं नेत्र्यं कृमिपित्तविषप्र-णुत्। वातलं कटुपाकञ्च सर्वारोचककुष्ठनुत्। निम्बंफलं रसे तिक्तं पाके तु कटु भेदनम्। स्निग्धं लघूष्णंकुष्ठघ्नं गुल्मार्शःकृमिमेहनुत्”। निम्बशाकगुणाः
“निम्बस्य कोमलदलानि सुयत्रभृष्टान्याज्ये क्षिपेत्तदनुसैन्धवतक्रयुक्तान्। शालीयतण्डु फणान् सह रामठेनचाघारितान् ददति रोचनमेव लेहात्”।
“करञ्जनिम्ब-जफलं कृमिकुष्ठप्रमेहजित्। निम्बतैलन्तु कुष्ठघ्नं तिक्तंकृमिहरम् परमिति” राजवल्लभः।
“मसूरं निम्बपत्रञ्चयोऽत्ति मेषगते रवौ। अतिरोषान्वितस्तस्य तक्षकः किंकरिष्यति” ति॰ त॰। षष्ठ्यां तिथौ तद्भक्षणनिषेधो यथा
“कलङ्की जायते विल्वे तिर्यग्योनिश्च निम्बके” ति॰ त॰। तिथिभेदे वर्ज्योक्तौ। निम्बक इत्यत्र स्वार्थे क।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्ब¦ m. (-म्बः) The Nimb or Neemb tree, (Melia azadiracta.) E. निबि to sprinkle, affix अच्; also with कन् added, निम्बकः these words are written with either व or ब, as निम्ब or निम्ब।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्बः [nimbḥ], 1 A tree with bitter fruits; आम्रं छित्वा कुठारेण निम्बं परिचरेत्तु यः यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥ Rām.

N. of a tree, Pāribhadra; निम्बस्तु पिचुमन्दे च पारिभद्र- तरावपि -Comp. -अर्कः, -आदित्यः N. of the founder of a Vaiṣṇava sect.

तरुः the Mandāra tree.

the Nimba tree. -पञ्चकम् The five products (leaf, flower, bark, fruit and root) of निम्ब.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्ब m. the Nimb or Neemb tree , Azadirachta Indica (its fruit is bitter and its leaves are chewed at funeral ceremonies) Gobh. Var. Sus3r. Ka1v. (also -क).

"https://sa.wiktionary.org/w/index.php?title=निम्ब&oldid=361496" इत्यस्माद् प्रतिप्राप्तम्