निरन्तरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरन्तरम्, त्रि, (निर्नास्ति अन्तरं यस्मिन् यस्माद्वा ।) निविडम् । घनम् । इत्यमरः । ३ । १ । ६६ ॥ अनवकाशः । (यथा, आर्य्यासप्तसत्याम् । ४३८ । “सज्जनयोः स्तनयोरिव निरन्तरं सङ्गतं भवति ॥”) अनवधिः । अपरिधानम् । अनन्तर्धानम् । अभेदः । अतादर्थ्यम् । अच्छिद्रम् । (यथा, कुमार- सम्भवे । ५ । २५ । “शिलाशयान्तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु ॥”) अविना । अबहिः । अनात्मीयम् । अनवसरः । अमध्यम् । अनन्तरात्मा । एते निरुपसर्ग- पूर्ब्बकान्तरशब्दार्थाः ॥

"https://sa.wiktionary.org/w/index.php?title=निरन्तरम्&oldid=144577" इत्यस्माद् प्रतिप्राप्तम्