निरामय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरामयः, त्रि, (निर्गत आमयो व्याधिर्यस्मात् ।) रोगरहितः । तत्पर्य्यायः । वार्त्तः २ कल्यः ३ । इत्यमरः । २ । ६ । ५७ ॥ नीरुजः ४ पटुः ५ उल्लाघः ६ लघुः ७ अगदः ८ निरातङ्कः ९ । अनातङ्कोऽपि पाठः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । १ । ४६ । “निरामयाणां चित्रन्तु भक्तमध्ये प्रकीर्त्तितम् ॥” उपद्रवादिशून्यः । यथा, महाभारते । १ । १५७ । ११ । “इदं नगरमभ्यासे रमणीयं निरामयम् । वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥” रोगनाशकः । यथा, मुकुन्दमालायाम् । २१ । “किमौषधैः क्लिश्यसि मूढ दुर्म्मते ! निरामयं कृष्णरसायनं पिब ॥”)

निरामयः, पुं, (निर्गतः आमयो यस्मात् ।) इडिक्कः । वनच्छगलः । इति मेदिनी । ये, १२१ ॥ शूकरः । इति शब्दमाला ॥ (नृप- विशेषः । यथा, महाभारते । १ । १ । २३४ । “धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥” महादेवः । इति महाभारतम् । १३ । १७ । १४८ ॥ क्ली, कुशलम् । यथा, तत्रैव । ५ । ७८ । ८ । “कुरूणां पाण्डवानाञ्च प्रतिपत्स्व निरामयम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरामय वि।

रोगनिर्मुक्तः

समानार्थक:वार्त,निरामय,कल्य,उल्लाघ

2।6।57।2।2

रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके। वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरामय¦ त्रि॰ निर्गत आमयात् प्रा॰ त॰।

१ आमयरहितेरोगशून्ये अमरः।

२ वनच्छगले पुंस्त्री॰ मेदि॰

३ शूकरेशब्दमाला उभयत्र स्त्रियां जातित्वात् ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरामय¦ mfn. (-यः-या-यं) Well, hale, recovered from sickness. m. (-यः)
1. A wild goat.
2. A hog, a boar. E. निर् not, आमय sickness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरामय/ निर्--आमय m. freedom from illness , health , welfare MBh.

निरामय/ निर्--आमय mfn. free from illness , healthy , well MBh. R. Sus3r. etc.

निरामय/ निर्--आमय mfn. causing health , wholesome MBh. xii , 6569

निरामय/ निर्--आमय mfn. complete , entire Hariv.

निरामय/ निर्--आमय mfn. infallible , secure MBh. R.

निरामय/ निर्--आमय mfn. untainted , pure L.

निरामय/ निर्--आमय m. 1 wild goat L.

निरामय/ निर्--आमय m. a hog , a boar L.

निरामय/ निर्--आमय m. N. of a king MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of I सावर्ण Manu. Br. IV. 1. ६४.
(II)--a son of दक्षसावर्णि. Vi. III. 2. २४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NIRĀMAYA : A King of ancient India. (Ādi Parva, Chapter 1, Verse 137).


_______________________________
*10th word in right half of page 539 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निरामय&oldid=431866" इत्यस्माद् प्रतिप्राप्तम्