निरोध

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरोधः, पुं, (नि + रुध + घञ् ।) नाशः । (यथा, हरिवंशे । २ । ५४ । “उत्पत्तिश्च निरोधश्च नित्यं भूतेषु पार्थिव ! । ऋषयोऽत्र न मुह्यन्ति विद्बांसश्चैव ये नराः ॥”) रोधः । इति मेदिनी । धे, ३२ ॥ (यथा, पञ्च- तन्त्रे । २ । १६७ । “निरोधाच्चेतसोऽक्षाणि निरुद्धान्यखिलान्यपि । आच्छादिते वरौ मेघैराच्छन्नाः स्युर्गभस्तयः ॥”) निग्रहः । इति हेमचन्द्रः । ६ । १४४ ॥ (यथा, मनुः । ६ । ६० । “इन्द्रियाणां निरोधेन रागद्बेषक्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरोध पुं।

निरोधः

समानार्थक:निग्रह,निरोध

3।2।13।2।2

विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः। निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरोध¦ पु॰ नि + रुध--भावे घञ्।

१ नाशे

२ गव्यादिप्रतिरोधेमेदि॰

३ निग्रहे च तत्र नाशे (प्रलये)
“न निरोधो नचोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषापरमार्थता” सां॰ प्र॰ भा॰ धृता श्रुतिः।

४ निरुद्धाख्यचित्ता-वस्थाभेदे निरुद्धशब्देऽस्य स्वरूपादिकमुक्तम्।
“योगश्चित्त-वृत्तिनिरोधः” पात॰ सू॰
“अनयोर्द्वयोरेकाग्रनिरुद्धयोर्भू-म्योर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तंभवति एकाग्रे बहिर्वृत्तिनिरोधः निरुद्धे च सर्वासांवृत्तीनां संस्कारशेषाणां प्रविलय इत्यनयोरेव भूम्यो-र्योगस्य सम्भवः” भोजवृत्तिः। तस्य कारणञ्च तत्र दर्शितंयथा
“अभ्यासवैराम्याभ्यां तन्निरोधः” पात॰ सू॰
“अथासांनिरोधे क उपायः? इति चित्तनदी नामोभवतोवाहिनीवहति कल्याण्याय वहति पापाय च। या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा। संसारप्राग्भाराऽविवेकविषयनिम्ना पापवहा। तत्र वैराम्येणविषयस्वोतः खिलीक्रियते विवेकदर्शनाभ्यासेन विवेकस्तोतउद्घाट्यते इत्युभयाधीनश्चित्तवृत्तिनिरोधः” ना॰।
“अ-भ्यासवैराम्ये वक्ष्यमाणलक्षणे ताभ्यां प्रकाशप्रवृत्तिनि-यमरूपा या वृत्तयस्तासां निरोधो भवतीत्युक्तं भवतितासां विनिवृत्तगाह्याभिनिवेशानाम् अन्तर्मुखतयाखकारण एव चित्ते शक्तिरूपतयाऽवस्थानम्। तत्रविषयदोषदर्शनजेन वैराम्येण तद्वैमुख्यमुत्पाद्यते। अभ्या-{??} च मुखजनकं शान्तप्रवाहप्रदर्शनद्वारेण दृढस्थैर्यमुत्प-[Page4091-a+ 38] द्यते। इत्यं ताम्यां भवति चित्तवृत्ति{??}रोधः” भोजवृचिः।
“अवातो विपरीता। विवेकख्यातिरित्यतस्तस्यां विरक्तंचित्तं तामपि निरुणद्धि। तदवस्थं चित्तं संस्कारोपगंभवति। स निर्वीजः समाधिः, न तत्र किञ्चित् सम्प-ज्ञायत इत्यसम्प्रज्ञातः द्विविधः स योगश्चित्तवृत्तिनिरोधइति। तदवस्थे चेतसि विषयाभावात् बुद्धिबोधात्मा पु-रुषः किं स्वभावः इति” पात॰ भा॰
“अतश्चितिशक्तेर्विप-रीतेति। यदा च विवेकख्यातिरपि हेया तदा कैवकथा वृत्त्यन्तराणां दोषबहुलानामिति भावः। ततस्य-द्वेतोर्निरोधसमाधेरवतारो युज्यते इत्याह अतस्तस्या-मिति। ज्ञानप्रसादमात्रेण हि परेण वैराग्येण वियेक-ख्यातिमपि निरुणद्धीत्यर्थः। अथ अनिरुद्धाऽशेषवृत्ति-चित्तं कीदृशमित्यत आह तदवस्थमित्यादि। स नि-रोधः{??}वख्या यस्य तत्तथोक्तम्। निरोधस्य स्वरूपमाहस निर्वीज इति। क्लेशसहितः कर्माशयो जात्यायुर्भोन-वीजम् तस्मान्निर्गत इति निर्धीजः। अस्यैव योगिजन-प्रसिद्धामन्वर्थसंज्ञामादर्शयति न तत्रेति। उपसंहरति। द्विविधः सःयोभश्चित्तवृत्तिनिरोध इति। संप्रत्युत्तरसूत्र-मवतारयंश्चोदयति। तदवस्थे चेतसीति। किमाक्षेपेतत्तदाकारपरिणतबुद्धिबोधात्मा त्वयं पुरुषः सदानुमू-यते नतु बुद्धिबोधरहितोऽतोऽस्य पुरुषस्य बुद्धिबोध-स्वभावः सवितुरिव प्रकाशः न च संस्कारशेषे चेतसिसोऽस्ति न च स्वभावमपहाय भावो वर्त्तितुमर्हति इतिभावः। स्यादेतत् संस्कारशेषामपि बुद्धिं कस्मात् पुरुषोन बुध्यते इत्यत आह विषयाभावादिति। न बुद्धि-मात्रं पुरुषस्य विषयोऽपि तु पुरुषार्थवती बुद्धिः वि-वेकख्यातिविषयमोगौ च पुरुषार्थौ तौ च निरुद्धास-स्थायां न स्त इति सिद्धो विषयाभाव इत्यर्थः” विव॰।
“तदा द्रष्टुः स्वरूपेऽवस्थानम्” पात॰ सू॰
“स्वरूपप्रतिष्ठातदार्नी चितिशक्तिर्यथा कैवल्ये, व्युत्थानचित्ते तु सतितथापि भवन्ती न तथा” भा॰
“मूत्रेण परिहरतिंतदा द्रष्टुः स्तरूपेऽवस्वानम्। स्वरूप इत्यारोपितम्शान्तधोरमूढस्वरूपं निवर्त्तयति। पुरुषस्य हि चैतन्यंस्तरूपमनौवाचिकम्। न तु बुद्धिबोधः शान्तादिरूपः। चोपाधिकी हि सः, स्फटिकस्वे{??} स्वमावस्वच्छधबलस्य{??}पाकुसुमसन्निधानोपाधिररुणिमा, न चोपाजिनिवृ-त्तावुपहितनिवृत्तिरतिप्रसङ्गादिति भावः। स्वरूपस्य{??}भेदेऽपि भेदं विकल्प्य कधिकरणभाव उक्त इति। [Page4091-b+ 38] अयमेवार्थोभाव्यकृता द्योत्यते स्वरूपप्र{??}ति। तदार्नीनिरोधावस्थायां न व्युत्यानावस्थायाभिति भावः। स्वादेतत् व्युत्थानावस्थायामप्रतिष्ठिता स्वरूपे, चितिशक्तिः निरोधावस्थायां प्रतितिष्ठन्ती परिणामिनी स्याद्व्युत्थाने वा स्वरूपप्रतिष्ठाने सति व्युत्थाननिरोधयोर-विशेष इत्यत आह व्युत्थानचित्ते त्विति। न जातुकूटस्थनित्या चितिशक्तिः स्वरूपात् च्यवते। तेन यथानिरोधे तथैव व्युत्थानेऽपि। न खलु शुक्तिकायाः प्रमाणविपर्य्ययज्ञाननोचरत्वेऽपि स्वरूपोदयव्ययौ भवतःप्रतिपत्ता तु तथाभूतमप्यतथात्वेनाभिमन्यते। निरोध-समाधिमपेक्ष्य सम्प्रप्रज्ञातोऽपि व्युत्थानमेवेति” विवरणम्

२ निरुध्यते यस्मै सम्प्रदाने घञ्। निरोधजनिते वशीक-रणे च
“निरोधश्छर्दिविधारणाभ्याम्” सां॰ सू॰
“प्राण-स्येति प्रसिद्ध्या लभ्यते
“प्रच्छर्द्दनविधारणाभ्यां प्राण-स्येति” योगसूत्रे भाष्यकारेण प्राणायामस्य व्याख्या-तत्वात्। छर्दिश्च वमनम्, विधारणं त्याग इति यावत्। तेन पूरणरेचनयोर्लाभः। विधारणं च कुम्भकम्। तथाच प्राणस्य पूरकरेचककुम्भकैर्योनिरोधो वशीकरणं साधारणेत्यर्थः” सां॰ प्र॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरोध¦ m. (-धः)
1. Loss, destruction.
2. Opposition, hindrance, check, restraint, prevention.
3. A version, disfavour, dislike.
4. Preserving.
5. Confinement. E. नि before, रुध् to oppose, affix भावे घञ्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरोधः [nirōdhḥ] निरोधनम् [nirōdhanam], निरोधनम् 1 Confinement, locking up, imprisonment; Bhāg.1.58.58; निरोधनेन बन्धेन विविधेन वधेन च (निगृह्णीयात्) Ms.8.31; वैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः 375.

Enclosing, covering up; Amaru.87.

Restraint, check, suppression, control; योगश्चित्तवृत्तिनिरोधः Yoga. S.; अन्तश्चराणां मरुतां निरोधान्निवातनिष्कम्पमिव प्रदीपम् Ku.3.48.

Hindrance, obstruction, opposition.

Hurting, punishing, injuring.

Annihilation, complete destruction; जन्मनिरोधं प्रवदन्ति यस्य Śvet. Up.3.21.

Aversion, dislike.

Disappointment, frustration of hopes (in dramatic language).

(With the Buddhists) Suppression of pain.

Extinction (लय), निरोधो$स्यानुशयनमात्मनः सह शक्तिभिः Bhāg.2.1.6.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरोध/ नि- m. confinement , locking up , imprisonment( -तस्Mn. viii , 375 )

निरोध/ नि- m. investment , siege Cat.

निरोध/ नि- m. enclosing , covering up Var. Ka1v. etc.

निरोध/ नि- m. restraint , check , control , suppression , destruction Mn. MBh. etc.

निरोध/ नि- m. (in dram. ) disappointment , frustration of hope Das3ar.

निरोध/ नि- m. (with Buddh. )suppression or annihilation of pain (one of the 4 principles) Lalit. MWB. 43 , 56 , 137 etc.

निरोध/ नि- m. a partic. process to which minerals ( esp. quicksilver) are subjected Cat.

निरोध/ नि- m. hurting , injuring(= नि-ग्रह) L.

निरोध/ नि- m. aversion , disfavour , dislike W.

निरोध/ नि- m. N. of a man Lalit.

"https://sa.wiktionary.org/w/index.php?title=निरोध&oldid=500671" इत्यस्माद् पुनः प्राप्तिः