निर्विकल्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विकल्प(क)¦ त्रि॰ निर्गतो विकल्पो ज्ञातृज्ञेयादिविभागोविशेष्यविशेषणतासम्बन्धो वा यस्मात् प्रा॰ ब॰ वा कप्।

१ वेदान्तोक्ते ज्ञातृज्ञेयादिविभागशून्ये ब्रह्मात्मैकात्म-विषये अखण्डाकारके एकविषयके विशेष्यविशेष-णतासम्बन्धरहिते ज्ञाने,
“आत्मारामा विहितरतयोनिर्विकल्पे समाधाविति वेणी॰।
“तत् प्रमा नाप्रमानापि ज्ञागं यन्निर्विकल्पकम्। प्रकारतादिशून्यं हिसम्बन्धानवगाहि यत्” इति न्यायोक्ते अलौकिके आलो-चनात्मके

२ ज्ञानभेदे।
“ज्ञानं यन्निर्विकल्पकाख्यं तद-तीन्द्रियभिष्यते” भाषा॰। आलोचनशब्दे

८२

६ पृ॰दृश्यम्। वौद्धमते निर्विकल्पकज्ञानमेव प्रमाणं कल्प-नाशून्यत्वात् तद्भिन्नं सर्वमप्रमाणं यथोक्तं सर्वदर्शनसंग्रहे(
“ततश्चार्थो द्विविधः ग्राह्योऽध्यवसेयश्च तत्र ग्रहणंनिर्विकल्पकरूपं प्रमाणं कल्पनापोढत्वात् अध्यवसायःसविकल्पकरूपोऽप्रमाणं कल्पानाज्ञानत्वात्। तदुक्तम्
“कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम्। विकल्पो” वस्तुनिर्भासादसंवादादुपप्लवः। ग्राह्यं वस्तु प्रमाणंहि ग्रहणं यदितोऽन्यथा। न तद्वस्तु न तन्मानं शब्द-लिङ्गेन्द्रियादिजमिति” च। ननु सविकल्पकस्याप्रामाण्येकथं ततः प्रवृत्तस्यार्थप्राप्तिः संवादश्चोपपद्येयातामितिचेन्न तद्भद्रं मणिप्रभाविषयमणिविकल्पन्यायेन पारम्प-र्य्येणार्थप्रतिलम्भसम्भवेन तदुपपपत्तेः”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विकल्प/ निर्--विकल्प mfn. (or पनL. )not admitting an alternative , free from change or differences , TejobUp. Veda7ntas.

निर्विकल्प/ निर्--विकल्प mfn. admitting no doubt , not wavering Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=निर्विकल्प&oldid=369096" इत्यस्माद् प्रतिप्राप्तम्