निवेशन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेशनम्, क्ली, (निविशत्यस्मिन्निति । नि + विश् + अधिकरणे ल्युट् ।) गृहम् । इति जटा धरः ॥ (यथा, देवीभागवते । ३ । २४ । ४९ । “स्त्रियोपसंयुतः सोऽथ प्राप्यायोध्यां सुदर्शनः । सम्मान्य सर्व्वलोकांश्च ययौ राजा निवेशनम् ॥”) नगरम् । इति हेमचन्द्रः ॥ (यथा, रामायणे । ७ । ७५ । १८ । “यो हि वंशं समुत्पाद्य पार्थिवस्य निवेशने । न विधत्ते नृपं तत्र नरकं स हि गच्छति ॥”) प्रवेशः । निवेशनमस्य व्याहृतिभिर्हुत्वेति स्मृतिः ॥ (नि + विश + णिच् + भावे ल्युट् । स्थापनम् । यथा, रामायणे । ७ । ७५ । १७ । “निवेशय महाबाहो भरतं यद्यपेक्षसे । शूरस्तं कृतविद्यश्च समर्थश्च निवेशने ॥” प्रवेशके, त्रि ॥ यथा, हरिवंशे भविष्य- पर्व्वणि । १८ । १३ । “आकाशेऽवस्थितः शब्दः सर्व्वश्रोत्रनिवेशनः । नमस्ते भगवन् ! विष्णो तुभ्यं शब्दात्मने नमः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेशन¦ न॰ नि + विश--आधारे ल्युट्।

१ गेहे

२ नगरेहेमच॰।

३ निवेशाधारे पृथिव्यां स्त्री ङीप्।
“स्योनापृथिवि! नो भवानृक्षरा निवेशनी”
“निविशन्ति जना-यस्यां साधुप्रतिष्ठाना पृथिवी” वेददी॰। भावे ल्युट्।

४ प्रवेशे

५ स्थितौ च जटाध॰ नि + विश + णिच्--भावे ल्युट्।

६ विन्यासे
“सा गौरसिद्धार्थनिवेशवद्भिः” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेशन¦ n. (-नं)
1. Entering, entrance.
2. A house, a habitation.
3. A town or city.
4. A camp. E. नि before, विश् to enter, aff आधारे ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेशनम् [nivēśanam], 1 Entering, entrance.

Halting, encamping.

Marrying, marriage; प्रतिलोमनिवेशनम् Bhāg. 3.7.31.

Entering in writing, inscribing.

An abode, a dwelling, house, habitation.

A camp; निवेशयामास मुदा कल्पितान्यनिवेशने Bhāg.1.53.16; Mb.3. 24.1.

A town or city; पार्थिवस्य निवेशने Rām.7.62. 18.

A nest. -नी The earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निवेशन/ नि- mf( ई)n. entering( ifc. ) Hariv.

निवेशन/ नि- mf( ई)n. (fr. Caus. ) bringing to rest , providing with a resting-place RV. TS. AV.

निवेशन/ नि- m. N. of a वृष्णिHariv.

निवेशन/ नि- n. ( ifc. f( आ). )entering , entrance into( comp. ) RV. Kaus3.

निवेशन/ नि- n. going or bringing to rest ib. MBh. Hariv. ( नं-कृ, to settle , encamp ; [ सैन्य-] encampment of an army)

निवेशन/ नि- n. putting down (the feet) S3atr.

निवेशन/ नि- n. introducing , employing Sa1h.

निवेशन/ नि- n. fixing , impressing Sarvad.

निवेशन/ नि- n. cultivating , populating (of a land , a desert etc. ) R. Ka1m.

निवेशन/ नि- n. founding a household , marrying , marriage BhP.

निवेशन/ नि- n. hiding or dwelling-place of any kind , nest , lair , camp , house , home RV. etc.

निवेशन/ नि- n. town R.

"https://sa.wiktionary.org/w/index.php?title=निवेशन&oldid=371141" इत्यस्माद् प्रतिप्राप्तम्