निशापतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निशापतिः, पुं, (निशायाः पतिः ।) चन्द्रः । (यथा, सूर्य्यसिद्धान्ते । २ । ४७ । “स्वमन्दभुक्तिसंशुद्धा मध्यमुक्तिर्निशापतेः । दोर्ज्यान्तरादिकं कृत्वा भुक्तावृणधनं भवेत् ॥”) कर्पूरः । इत्यमरः ॥ (निशायामेव पतिरिति विग्रहे क्वचित् व्यञ्जनाशक्त्या उपपतिरपि । यथा, आर्य्यासप्तशत्याम् । ३५२ । “प्राङ्गणकोणेऽपि निशापतिः स तापं सुधा- मयो हरति । यदि मां रजनिज्वर इव सखि ! स न निरु- णद्धि गेहपतिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=निशापतिः&oldid=145002" इत्यस्माद् प्रतिप्राप्तम्