निषेध
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निषेधः, पुं, (नि + सिध् + घञ् ।) प्रतिषेधः । निवृत्तिः । विधिविपरीतः । यथा, -- “तिथीनां पूज्यता नाम कर्म्मानुष्ठानतो मता । निषेधस्तु निवृत्तात्मा कालमात्रमपेक्षते ॥” इति तिथितत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निषेध¦ पु॰ नि + सिध--भावे घञ्।
१ वारणे
२ निवर्त्तने। निषिध्यतेऽनेन करणे घञ्।
३ अनिष्टसाधनताबोधकवेदादिवाक्यभेदे
“स च (वेदः) विधिमन्त्रनामधेयनिषे-धार्थवादभेदात् पञ्चविधः” लौगाक्षिभास्करः। तल्ल-णादि तत्र निरूपितं यथा[Page4115-a+ 38]
“पुरुषस्य निवर्त्तकं वाक्यं निषेधः निषेधवाक्यानाम-र्थहेतुक्रियानिवृत्तिजनकत्वेनैवार्थवत्त्वात्। तथाहि यथाविधिः प्रवर्त्तनां प्रतिपादयन् स्वप्रवर्त्तकत्वनिर्वाहार्थं वि-धेयस्य यागादेरिष्टसाधनत्वमाक्षिपन् पुरुषं तत्र प्रवर्त्त-यति। तथा
“न कलञ्जं भक्षयेत्” इत्यादि निषेषोऽपिनिवर्त्तयन् स्वनिवर्त्तकत्वनिर्वाहार्थं निषेध्यस्य कलञ्ज-भक्षणस्य परानिष्टसाधनत्वमाक्षिपन् पुरुषं ततो निवर्त्त-यति। ननु निषेधवाक्यस्य कथं निवर्त्तनाप्रतिपादकत्व-मिति चेत्? उच्यते न ताबदत्र धात्वर्थस्य नञर्थेना-न्वयः अव्यवधानेऽपि तस्य प्रत्ययार्थभावनोपसर्जनत्वे-नोपस्थितेः। न ह्यन्योपसर्जनत्वेनोपस्थितमन्यत्रान्वेति। अन्यथा राजपुरुषमानयेत्यादावपि राज्ञः क्रियान्वया-पत्तेः। अतः प्रत्ययार्थस्यैव नञर्थेऽन्वयः। तत्रापि ना-ख्यातांशवाच्यार्थभावनायाः, तस्या लिङशवाच्यप्र-वर्त्तनोपसर्जनत्वेनोपस्थितेः। किन्तु लिङशवाच्यशाब्दभावनायाः, तस्याः सर्वापेक्षया प्रधानत्वात्। नञश्चैषस्वभावो यत् स्वसमभिव्याहृतपदार्थविरोधिबोधकत्वम्। यथा
“घटोनास्तीत्यादौ” अस्तीति शब्दसमभिव्याहृतोनञ् घटसत्ताविरोधिनिवर्त्तनामेव वोधयति विधिवा-क्यश्रवणेऽय मां प्रवर्त्तयतीति प्रतीतेः। तस्मान्निषेध-वाक्यस्थले निवर्त्तनैव वाक्यार्थः! यदा तु प्रत्ययार्थस्यतत्रान्वये बाधकं तदा धात्वर्थस्यैव तत्रान्वयः। तच्च बा-धकं द्विविधम्। तस्य व्रतमित्युपक्रमो विकल्पप्रसक्तिश्च। तत्राद्यं
“नेक्षेतोद्यन्तमादित्यम्” इत्यादौ तस्य व्रतमि-त्युपक्रम्यैतद्वाक्यपाठात्। तथा चात्र पर्युदासाश्रय-णम्। तथा हि व्रतशब्दस्य कर्त्तव्यार्थरूढत्वात्तस्य व्रत-मित्यत्र स्नातकस्य व्रतानां कर्त्तव्यत्वेनोपक्रमात् किंतत् कर्त्तव्यमित्याकाङ्क्षायां
“नेक्षेतोद्यन्तमादित्यम्” इत्या-दिना कर्त्तव्यार्थ एव प्रतिपादनीयः। अन्यथा पूर्वोत्तर-वाक्ययोरेकवाक्यत्वं न स्यात्। तथा च नञर्थेन प्रत्य-यार्थान्वये स्कर्त्तव्यार्थानवबोधात् विध्यर्थप्रवर्त्तनाविरो-धिनिवर्त्त नाया एव तादृशनञा बोधनात् तस्याश्च क-र्त्तव्यार्थत्वाभावात्। तस्मान्नेक्षेतेत्यत्र नञा धात्वर्थ-विरोध्यनीक्षणसङ्कल्प एव लक्षणया प्रतिपाद्यते। तस्यकर्त्तव्यत्वसम्भवात्। आदित्यविषयकारोक्षणसङ्कल्पेन भाव-येदिति वाक्यार्थस्तत्र भाव्याकाङ्क्षायाम्
“एतावता हैनसावियुक्तो भवतीति” वाक्यशेषावगतः एपिक्षयो भाव्यतया-न्वेति। एवञ्च पूर्वोत्तरयोरेकवाक्यत्वं निर्वहत्येव। न[Page4115-b+ 38] चात्र धात्वर्थविरोधिनः पदार्थान्तरस्यापि सम्भवात् कथ-मनीक्षणसङ्कल्पस्यैव भावनान्वय इति वाच्यम् तत्रकर्त्तव्यत्वाभावेन प्रकृते भावनान्वयायोग्यत्वात्। द्वितीयं
“यजतिषु ये यजामहङ्करोति नानुयाजेषु” इत्यादौ। अत्रविकल्पप्रसक्त्यैव पर्युदासाश्रयणात्। तथाहि यद्यत्रवाक्ये नञर्थे प्रत्ययार्थान्वयः स्यात्तदा
“अनुयाजेषु येयजामहे” इति मन्त्रस्य प्रतिषेधः स्यात्। अनुयाजेषुये मजामहे” न कुर्यादिति। स च प्राप्तिपूर्वक एव प्राप्त-स्यैव प्रतिषेधात्। प्राप्तिश्च यजतिषु
“ये यजामहङ्करो-तीति” शास्त्रादेव वाच्या। शास्त्रप्राप्तस्य च प्रतिषेधेविकल्प एव न तु बाधः। प्राप्तिमूलरागस्येव तन्मूल-शास्त्रस्य शास्त्रान्तरेण बाधायोगात्। न च पदे जुहोती-त्यादौ हि विशेषशास्त्रेणाहवनीये जुहोतीति शास्त्रस्येवनानुयाजेष्वित्यनेन यजतिषु ये यजामहङ्करोतीत्यस्यबाधः स्यादिति वाच्यम् परस्परनिरपेक्षयोरेव शास्त्र-योर्बाध्यबाधकभावात्। पदशास्त्रस्य हि स्वार्थविधाना-र्थमाहवनीयशास्त्रानपेक्षणान्निरपेक्षत्वम्। प्रकृते तुनिषेधशास्त्रस्य निषेध्यप्रसक्त्यर्थं
“यजतिषु ये यजामहम्” इत्यस्यानपेक्षणान्न निरपेक्षत्वम्। तस्माच्छास्त्रविहितस्यशास्त्रान्तरेण प्रतिषेबे विकल्पएव, स च न युक्तः। वि-कल्पे शास्त्रस्य पाक्षिकाप्रामाण्यापातात्। न
“ह्यनुया-जेषु ये यजामहम् इत्यस्यानुष्ठाने नानुयाजेष्वित्यस्यप्रामाण्यं सम्भवति, व्रीहियागानुष्ठाने यवशास्त्रस्येव। द्विरदृष्टकल्पना च स्यात्, विधिप्रतिषेधयोरपि पुरुषार्थ-त्वात्। अतोऽत्र न प्रतिषेधस्याश्रयणम्। किन्तु अनु-याजसम्बन्धमाश्रित्य पर्युदासस्यैव। इत्थञ्चानुयाजव्यति-रिक्तेषु
“यजतिषु ये यजामहे” इति मन्त्रं कुर्य्यादितिवाक्यार्थबोधः नञोऽनुयाजव्यतिरिक्ते लाक्षाणिक-त्वात्। एवञ्च न विकल्पः। अत्र च वाक्ये
“ये यजा-महे” इति न विधीयते।
“यजतिषु ये यजामहे” इत्यनेनैव प्राप्तत्वात्। किन्तु सामान्यशास्त्रप्राप्तये
“ये यजा-महे” इत्यनुवादेन तस्यानुयाजव्यतिरिक्तविषयत्वं वि-धीयते यत् यजतिषु ये यजामहङ्करोति तदनुयाजव्यति-रिक्तेष्वेवेति। नन्वेवं सामान्यतः प्राप्तस्य विशेषसङ्कोचरू-पादुपसंहारात् पर्युदासस्य भेदो न स्यादिति चेन्नउपसंहारो हि तन्मात्रसङ्कोचार्थः। यथा पुरोडाशे
“चतुर्द्धा करोतीति” सामान्यप्राप्तचतुर्द्धाकरणम्
“आग्नेयचतुर्द्धा करोतीति” विशेषादाग्नयपुरोडाशमात्रे सङ्को[Page4116-a+ 38] च्यते पर्युदासस्तु तदन्यमात्रसङ्कोचार्थ इति ततोभेदात्। कुत्रचिद्विकल्पप्रसक्तावप्यनगत्या प्रतिषेधाश्रय-णम्। यथा
“नातिरात्रे षोडशिनं गृह्णाति” इत्यादौ। अत्र
“अतिरात्रे षोडशिनं गृह्णातीति” शास्त्रप्राप्तषो-डशिग्रहणस्य निषेधाद्विकल्पप्रसक्तावपि न पर्युदासाश्र-यणम्, असम्भवात्। तथाहि यद्यत्र षोडशिपदार्थेनञर्थान्वयस्तदातिरात्रे षोडशिव्यतिरिक्तं गृह्णातीतिवाक्यार्थबोधः स्यात्। स च न सम्भवति
“अतिरात्रेषोडशिनं गृह्णातीति” प्रत्यक्षविधिविरोधात्। यदिचातिरात्रपदार्थेनान्वयस्तदातिरात्रव्यतिरिक्ते षोडशिनंगृह्णातीति वाक्यार्थबोधः स्यात्। सोऽपि न सम्भवति,तद्विधिविरोधात्। अतोऽनन्यगत्या शास्त्रप्राप्नषोडशि-ग्रहणस्यैव निषेधः। न च विकल्पप्रसक्तिः तस्याप्याश्रय-णीयत्वात्। इयांस्तु विशेषो यद्विकल्पादावेकप्रतिषिध्यमा-नस्य नानर्थहेतुत्वम्। यथा
“न कलञ्जं भक्षयेत्” इत्यादौकलञ्जभक्षणादेः, तत्र भक्षणनिषेधस्यैव पुरुषार्थत्वात्। न च
“दीक्षितो न ददाति न जुहोति” इत्यादौ शास्त्र-प्राप्तदानहोमादीनां निषेधाद्विकल्पापत्तिरिति वाच्यम्। स्वतः पुरुषार्थभूतदानहोमादीनां निषेधस्य पुरुषार्थत्वाऽभावेपि निषिध्यमानस्यानर्थहेतुत्वम् यथा क्रतौ स्त्री-गमनादेः। तन्निषेधस्य क्रत्वर्थत्वेन तस्य क्रतुवैगुण्यस-म्पादकत्वात्”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निषेध¦ m. (-धः)
1. Prohibition, negation.
2. Stop, discontinuance.
3. Contrariety to or deviation from rule, irregularity, exception.
4. Negation.
5. A prohibitive rule or precept (In religious law). E. नि before, सिद to complete, aff. घञ्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निषेधः [niṣēdhḥ], 1 Prohibition, warding or keeping off, stopping, prevention.
Negation, denial.
The particle of negation. द्वौ निषेधौ प्रकृतार्थं गमयतः
A prohibitive rule (opp. विधि)
Deviation from a rule, exception.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निषेध/ नि- m. warding or keeping off , hindering , prevention , prohibition Ya1jn5. Var. Sus3r.
निषेध/ नि- m. contradiction , negation , denial S3ak. vii , 20/21 ( v.l. for वि-वाद) Va1m. v , 1 , 8
निषेध/ नि- m. discontinuance , exception W.
निषेध/ नि- m. (with अङ्गिरसाम्etc. ) N. of सामन्s A1rshBr.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निषेध न.
सा.वे. 1.514 पर आधृत एक साम का नाम; पञ्च.ब्रा. 15.9.11.