निष्पावः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्पावः, पुं, (निष्पूयते तुषाद्यपनयनेन शोध्यते इति । निर् + पू + णिच् + घञ् ।) धान्यादीनां निस्तुषीकरणम् । बहुलीकरणम् । तत्पर्य्यायः । पवनम् २ पवः ३ । इत्यमरः । ३ । २ । २४ ॥ पूतीकरणम् ४ । यथा, -- “धान्यादिनिस्तुषीकार्य्यबहुलीकरणादिषु । तथा च पूतीकरणे निष्पावः पवनं पवः ॥” इति शब्दरत्नावली ॥ राजशिम्बीबीजम् । भटवासु इति भृष्टवांसु इति वा हिन्दीभाषा ॥ तत्पर्य्यायगुणाः । “निष्पावो राजशिम्बी स्याद्बल्लकः श्वेतशिम्बिकः । निष्पावो मधुरो रूक्षो विपाकेऽम्लो गुरुः सरः ॥ कषायस्तन्यपित्तास्रमूतवातविबन्धकृत् । विदाह्युष्मो विषश्लेष्मशोथहृच्छुक्रनाशनः ॥” इति भावप्रकाशः ॥ (निष्पूयतेऽनेनेति । करणे घञ् ।) सूर्पवायुः । राजमाषः । (यथा, मार्कण्डेयपुराणे । १५ । २४ । “मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः । चोरयित्वा तु निष्पावान् जायते गृहगोलकः ॥”) कडङ्गरः । समीरणः । शिम्बिका । निर्व्विकल्पे, त्रि । इति मेदिनी । वे, ३८ ॥ श्वेतशिम्बी । इति रत्नमाला ॥ (यथा, -- “क्षारातितीक्ष्णोष्णविदाहितैल- निष्पावपिण्याककुलत्थयूषैः ॥” इति माधवकृतरुग्विनिश्चये शूलाधिकारे ॥)

"https://sa.wiktionary.org/w/index.php?title=निष्पावः&oldid=145193" इत्यस्माद् प्रतिप्राप्तम्