नीच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीचः, त्रि, (निकृष्टामीं लक्ष्मीं शोभां चिनोतीति । चि + “अन्येभ्योऽपि दृश्यते ।” इति डः ।) हीन- जातिकर्म्मा । वर्व्वरः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । विवर्णः २ पामरः ३ प्राकृतः ४ पृथग्जनः ५ निहीनः ६ अपसदः ७ जाल्मः ८ क्षुल्लकः ९ इतरः १० । इत्यमरः । २ । १० । १६ ॥ अपशदः ११ खुल्लकः १२ । इति भरतः ॥ हीनः १३ क्षुल्लः १४ क्षुण्णः १५ वेतकः १६ । इति शब्दरत्नावली ॥ नीचसङ्गदोषो यथा, -- “न प्राप्नोति सुखं किञ्चिन्नीचसङ्गान्महानपि । प्रेतसङ्गान्महादेवो नग्नो भस्मविभूषितः ॥ प्रविश्य निलयं नीचः स्त्रीधनादिकमिष्यते । स्वयं नेतुं न शक्नोति तदा नाययति ध्रुवम् ॥ स्थिते गुणेऽपि नीचस्तु यत्नाद्दोषं प्रपद्यते । किञ्चित्तु सङ्गमासाद्य तदुक्तं स्यात् सनातनम् ॥ सतां श्रुत्वा गुणं नीचः श्रोतुमायाति बन्धुवत् । ततः समयमासाद्य प्रकाशयति तद्धसन् ॥ मनस्येकं वचस्येकं कर्म्मण्येकं महात्मनाम् । मनस्यन्यद्बचस्यन्यत् कर्म्मण्यन्यद्दुरात्मनाम् ॥” इति पाद्मे क्रियायोगसारे ५ अध्यायः ॥ अपि च । “बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् । मध्यमे मध्यतां याति श्रेष्ठतां याति वित्तमे ॥” इति शान्तिपर्व्व ॥ * ॥ अनुच्चः । तत्पर्य्यायः । वामनः २ न्यङ् ३ खर्व्वः ४ ह्रस्वः ५ । इत्यमरः । ३ । १ । ७० ॥ (यथा, -- “नीचरोमनखश्मशुनिर्म्मलाङ्घ्रिमलायनः । स्नानशीलः ससुरभिः सुवेषोऽनुल्वणोज्ज्वलः । धारयेत् सततं रत्नसिद्धमन्त्रमहौषधीः ॥” इति वाभटे सूत्रस्थाने द्वितीयेऽध्याये ॥) निम्नः । यथा, -- “शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्यापरे । किञ्चान्यत् कथयामि ते स्तुतिपदं त्वं जीविनां जीवनं त्वञ्चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धुं क्षमः ॥” इति लक्ष्मणसेनः ॥ * ॥ चोरकनामगन्धद्रव्ये, पुं । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीच पुं।

नीचः

समानार्थक:विवर्ण,पामर,नीच,प्राकृत,पृथग्जन,निहीन,अपसद,जाल्म,क्षुल्लक,चेतर,इतर

2।10।16।1।3

विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः। निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

नीच पुं।

ह्रस्वः

समानार्थक:खर्व,ह्रस्व,वामन,वामन,न्यञ्च्,नीच,खर्व,ह्रस्व

3।1।70।2।2

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने। न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीच¦ त्रि॰ निकृष्टामीं शोभां चिनोति चि--ड। जातिगुणकर्मादिभिः निकृष्टे

१ अधमे अमरः।

२ वामने खर्वे चअमरः।

३ चोरनामशन्धव्ये पु॰ राजनि॰।

४ निम्ने च। नीचसङ्गदोषो यथा
“न प्राप्नोति सुखं किञ्चिन्नीच-सङान्महानपि। प्रेतश्चङ्गात् महादेवो नग्नो भस्मविभू-षितः। प्रविश्य निलयं नीचः स्त्रीधनादिकमिच्छति। स्वयं नेतुं स शक्राति तदा साययति ध्रुवम्। स्थितेगुणेऽपि नीचस्तु यत्नाद्दोषं प्रपद्यते। किञ्चित्तु सङ्गमा-साद्य तदुक्तं स्यात् सनातनम्। सतां श्रुत्वा गुणं नीचःश्रोतुमायाति बन्धुवत्। ततः समयमासाद्य प्रकाशयतितद्धसन्। मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्। मनस्यन्यद्वचस्यन्थत् कर्मण्यन्यत् दुरात्मनाम्” पाद्मे क्रियायोगसारे

५ अ॰।
“बुद्धिश्च हीयते पुंसां नीचैः सह स-मागमात्। मध्यमे मध्यतां याति श्रेष्ठतां याति वि-त्तमे” भा॰ शा॰।
“प्रायो नीचानपि मेदिनीभूतः” माघः।
“नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि” मनुः। ग्रहभेदानाम् उच्चशब्ददर्शितोच्चस्थानात् सप्त-मस्थाने तच्च रव्यादीनां यद्यद् भवति तत् नीचस्थान-शब्दे दृश्यम्। स्वार्थे क। नीचक तत्रार्थे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीच¦ mfn. (-चः-चा-चं)
1. Low (in stature) short, dwarfish.
2. Low, (in condition) vile, base, mean.
3. Deep. E. न privative, ई good fortune, चि to obtain, aff. ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीच [nīca], a. [निकृष्टतमीं शोभां चिनोति, चि-ड Tv.]

Low, short, small, little, dwarfish.

Situated below, being in a low position; नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् Bg.6.11; Ms.2.198; Y.1.131.

Lowered, deep (as a voice).

Low, mean, base, vile, worst; प्रारभ्यते न खलु विघ्नभयेन नीचैः Bh.2.27; नीचस्य गोचरगतैः सुखमास्यते कैः 59; Bv.1.48.

Worthless, insignificant. चः A kind of perfume (चोरक). -चा An excellent cow. -चम् The lowest point of a planet. -Comp. -उक्तिः f. a low or vulgar expression. -उच्चवृत्तम् an epicycle. -उपगत a. situated low in the sky. -ग a.

going downwards, descending (as a river); संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम् ॥ H.

low, base, vile. (-गा) a river. (-गम्) water.-गामिन् a. following low courses (said of women).-गृहम् (in astr.) the part of the heavens in which a planet stands at its lower point; e. g. तुला of रवि, वृषभ of सोम, कर्क of मङ्गल, मान of बुध, मकर of गुरु, कन्या of शुक्र, and मेष of शनि; cf. स्वौच्चात्तु यामित्रमुशन्ति नीचम् Yavaneśvara. -भोज्यः onion. -योनिन् a. of low origin, low-born; so नीचजाति. -वज्रः, -ज्रम् a kind of gem. (वैक्रान्त).

नीच [nīca] चि [ci] का [kā], (चि) का An excellent cow; (also नीचिकी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीच mf( आ)n. ( नि+2. अञ्च्)low , not high , short , dwarfish Mn. MBh. etc.

नीच mf( आ)n. deep , depressed (navel) Pan5c.

नीच mf( आ)n. short (hair , nails) Sus3r.

नीच mf( आ)n. deep , lowered (voice) Pra1t.

नीच mf( आ)n. low , vile , inferior (socially or morally) , base , mean (as a man or action or thought) Var. MBh. Ka1v. etc.

नीच m. a kind of perfume(= चोरक) L.

नीच n. (in astrol. ) the lowest point of a planet (= ?) , the 7th house from the culminating point Var. (See. 2. न्य्-अञ्च्).

"https://sa.wiktionary.org/w/index.php?title=नीच&oldid=500700" इत्यस्माद् प्रतिप्राप्तम्