नीतिसार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीतिसारः, पुं, (नीतिरेव सारो यस्येति ।) इन्द्रं प्रति बृहस्पत्युक्तनीतिशास्त्रविशेषः । अयं चाणक्यसंग्रहमूलम् । गरुडपुराणे अष्टास्व- ध्यायेष्वस्ति । बाहुल्यभिया तत् समुदायं न लिखित्वा अष्टानामध्यायानां प्राथमिकाष्टश्लोका लिख्यन्ते । यथा, -- “सद्भिः सङ्गं प्रकुर्व्वीत सिद्धिकामः सदा नरः । नासद्भिरिह लोकाय परलोकाय वा हितम् ॥ १ ॥ आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ २ ॥ यो ध्रुवाणि परित्यज्य अध्रुवाणि च सेवते । ध्रुवाणि तस्य नश्यन्ति अध्रवं नष्टमेव च ॥ ३ ॥ राज्यं पालयते नित्यं सत्यधर्म्मपरायणः । निर्ज्जित्य परसैन्यानि क्षितिं धर्म्मेण पालयेत् ॥ ४ ॥ भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः । नियोक्तव्या यथार्थेषु त्रिविधेष्वेव कर्म्मसु ॥ ५ ॥ गुणवन्तं नियुञ्जीत गुणहीनं विवर्ज्जयेत् । पण्डिते च गुणाः सर्व्वे मूर्खे दोषाश्च केवलम् ॥ ६ ॥ न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः । कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥ ७ ॥ कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम् । कुबन्धुञ्च कुदेशञ्च दूरतः परिवर्ज्जयेत् ॥” ८ ॥ इति गारुडे ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीतिसार/ नीति--सार mn. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=नीतिसार&oldid=376809" इत्यस्माद् प्रतिप्राप्तम्