नीलोत्पल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलोत्पलम् क्ली, (नीलं नीलवर्णमुत्पलमिति ।) नीलवर्णोत्पलम् । नीलशा~पला इति भाषा । तत्पर्य्यायः । उत्पलकम् २ कुवलयम् ३ इन्दी- वरम् ४ कन्दोत्थम् ५ सौगन्धिकम् ६ सुगन्धम् ७ कुड्मलकम् ८ असितोत्पलम् ९ ॥ (यथा, भागवते । ५ । २४ । १० । “झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलय- कह्लारनीलोत्पललोहितशतपत्रादिवनेषु ॥”) अस्य गुणाः । अतिस्वादुत्वम् । शीतत्वम् । सुरभिलम् । सौख्यकारित्वम् । पाके अत्यन्ततिक्त- त्वम् । रक्तपित्तहरत्वञ्च । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलोत्पल नपुं।

कामबाणः

समानार्थक:अरविन्द,अशोक,चूत,नवमल्लिका,नीलोत्पल,उन्मादन,तापन,शोषण,स्तम्भन,सम्मोहन

1।1।26।4।1

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥

स्वामी : कामदेवः

सम्बन्धि1 : कामदेवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलोत्पल¦ न॰ कर्म॰। नीलवर्णे उत्पले
“विलम्बिनीलोत्पलक-र्णपूराः” माघ॰
“नीलोत्पलं विभ्रती” ताराध्यानम्। इदञ्चअञ्जनादिगणे सुश्रुते पठित्वा तद्गुण उक्तो यथा
“अञ्ज-नरसाञ्जननागपुष्पप्रियङ्गुनीलोत्पत्वनलदनलिनकेशराणिमघूकञ्चेति। अञ्जनादिर्गणा ह्येष रक्तपित्तनिवर्हणः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलोत्पल¦ n. (-लं) A blue lotus. (Nymphæa cærulea.) E. नील blue, and उत्पल a lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलोत्पल/ नीलो n. a blue lotus , Nymphaea Cyanea MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=नीलोत्पल&oldid=500714" इत्यस्माद् प्रतिप्राप्तम्