नीवी
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीवी, स्त्री, (निव्ययति निवीयते वा । नि + व्येञ् + “नौ व्यो यलोपः पूर्ब्बस्य च दीर्घः ।” उणां । ४ । १३५ । इति इञ् यलापः निशब्दस्य दीर्घत्वञ्च । ततः कृदिकारादिति वा ङीष् ।) परिपणम् । बणिजां मूलधनम् । राजपुत्त्रादेर्बन्धकः । इति सुभूतिः ॥ स्त्रीकटी- वस्त्रबन्धः । को~चडी इति भाषा । (यथा, महाभारते । २ । ६३ । १९ । “एकवस्त्रा त्वधोनीवी रोदमाना रजस्वला ॥”) स्त्रीत्युपलक्षणं पुंस्कटीवस्त्रबन्धेऽपि । इत्यमर- टीकायां भरतः । तथा च । “नीवीं विस्रंस्य परिहितवस्त्रस्य षामाङ्गग्रन्थिं प्रोचयित्वा आचमनमाह बौधायनः ।” इति यजुर्व्वेदिश्राद्ध- तत्त्वम् ॥ शूद्रस्य पित्रादिश्राद्धे मोटकबन्धनम् । इति मथुरेशः ॥
अमरकोशः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नीवी स्त्री।
मूलधनम्
समानार्थक:नीवी,परिपण,मूलधन,परिग्रह
2।9।80।1।1
नीवी परिपणो मूलधनं लाभोऽधिकं फलम्. परिदानं परीवर्तो नैमेयनियमावपि॥
पदार्थ-विभागः : धनम्
नीवी स्त्री।
स्त्रीकटीवस्त्रबन्धः
समानार्थक:नीवी
3।3।212।2।1
स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने। स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च॥
पदार्थ-विभागः : वस्त्रम्