नृप
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृपः, पुं, (नॄन् नरान् पाति रक्षतीति । नृ + पा रक्षणे + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) नरपतिः । इत्यमरः । २ । ८ । १ । तस्य लक्षणं यथा, -- “चतुर्योजनपर्य्यन्तमधिकारी नृपस्य च । यो राजा तच्छतगुणः स एव मण्डलेश्वरः । तत्तद्दशगुणो राजा राजेन्द्रः परिकीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अः ॥ तत्प्रमाणं यथा, -- “अपुत्त्रस्य नृपः पुत्त्रो निर्धनस्य धनं नृपः । अमातुर्जननी राजा अतातस्य पिता नृपः ॥ अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः । अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा ॥ सर्व्वदेवमयो राजा तस्मात्त्वामर्थये नृप ! ॥” इति कालिकापुराणे ५० अध्यायः ॥ नृपदर्शनदिनं यथा । तत्र तिथयः शुभाः । वाराः शनिमङ्गलभिन्नाः । नक्षत्राणि उत्तर- फल्गुन्युत्तराषाढोत्तरभाद्रपद्रोहिणीपुष्याश्विनी- हस्ताचित्रानुराधामृगशिरोरेवतीज्येष्ठाश्रवणाः । लग्नानि मिथुनकन्याधनुर्मीनवृषभसिंहसंज्ञ- कानि । तत्र चन्द्रः शोभनः । इति ज्योतिषम् ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृप पुं।
राजा
समानार्थक:राज्,राज्,पार्थिव,क्ष्माभृत्,नृप,भूप,महीक्षित्,स्वामिन्,सुत,भूभृत्,मूर्धाभिषिक्त,राजन्,हाल
2।8।1।2।5
मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥
पत्नी : बद्धपट्टा_राज्ञी,राज्ञी,पट्टमहिषी,राजभार्या
स्वामी : चक्रवर्ती
सम्बन्धि2 : राज्ञः_रक्षिगणम्,सेवकः,चामरम्,राजासनम्,छत्रम्
वैशिष्ट्यवत् : राज्यगुणः,राजशक्तिः,राज्ञां_छत्रचामरादिव्यापारः,चामरम्,राजासनम्,छत्रम्,नृपच्छत्रम्
जन्य : राजपुत्री,राज्ञः_बाला
सेवक : राजगृहम्,राजगृहसामान्यम्,राज्ञां_स्त्रीगृहम्,मन्त्री,धर्माध्यक्षः,न्यायाधीशः,द्वारपालकः,राज्ञः_रक्षिगणम्,अधिकारी,एकग्रामाधिकारी,बहुग्रामाधिकृतः,सुवर्णाधिकृतः,रूप्याधिकृतः,अन्तःपुराधिकृतः,अन्तःपुरस्य_रक्षाधिकारी,अन्तःपुरचारिणनपुंसकाः,सेवकः,चारपुरुषः,ज्यौतिषिकः,लेखकः,दूतः,राज्याङ्गाः,चामरम्,राजासनम्,सुवर्णकृतराजासनम्,छत्रम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,राजादिस्तुतिपाठकः
: सम्राट्, स्वदेशाव्यवहितदेशराजा, शत्रुराज्याव्यवहितराजा, शत्रुमित्राभ्यां_परतरः_राजा, पृष्ठतो_वर्तमानः_राजा
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृप¦ पु॰ नॄन् पाति रक्षति पा--क।
“चतुर्योजनपर्यन्तेष्वधि-कारी नृपो भवेत्” इत्युक्ते
१ राजविशेषे
२ राजमात्रे चअमरः।
“नृपादिलक्षणं यथा
“चतुर्योजनपर्य्यन्त-मधिकारो नृपस्य च। यो राजा तच्छतगुणः स एवमण्डलेश्वरः। तस्माद्दशगुणो राजा राजेन्द्रः परिकी-र्त्तितः” ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे
८६ अ॰। तत्-प्रशंसा यथा
“अपुत्त्रस्य नृपः पुत्रो निर्धनस्य धनंनृपः। अमातुर्जननी राजा अतातस्य पिता नृपः। अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः। अभृ-त्यस्य नृपो भृत्यो नृप एत नृणां सखा। सर्वदेवमयोराजा तस्मात्त्वामर्थये नृप!” कालिकापु॰
५० अ॰।
“व्यव-हारान्नृपः पश्येद्विद्वद्भिः ब्राह्मणैः सह” याज्ञ॰
“नृपेणषाणिग्रहणस्पृहेति” नैष॰।
२ षोडशसंख्यायाम् भा-रते षोडशानामेव राज्ञां माहात्म्यविशेषकथनात्नृपशब्दस्य तत्सङ्ख्यावाचित्वम् षोडश नृपाश्च भा॰ द्रो॰
५५ अध्यायादौ षोडशराजिकपर्वण्युक्ताः तत्रैव दृश्याः।
“भुवि नृपमितहस्तेष्वङ्गलग्नं तदग्रम्” लीला॰। राज्ये एकनृपकरणस्यावश्यकता तत्र विशेषश्च औशनस-नीतिपरिशिष्टे
१ अ॰ उक्तो यथा
“सदैकनायकं राज्यं कुर्य्यान्न बहुनायकम्। नानाथकंक्वचिदपि कर्त्तुरोप्सितमूतये। राजकुले तु वहवःपुरुषा यदि सन्ति हि। तेषु ज्येष्ठो भवेद्राजा शेषास्तत्-कार्यसाधकाः। गरीयांसोवराः सर्वे सहायेभ्यो बिवृ-{??}ये। ज्येष्ठोऽपि बधिरः कुष्ठी मूढोऽन्धः षण्ड एवयः। स राज्यार्हो भवेन्नैव भ्राता तत्सुत एव वा। न कनिष्ठोऽपि, ज्येष्ठस्य भ्रातुः पुत्रस्तु राज्यभाक्। दायादानामैकमत्यं राज्ञः श्रेवस्करं परम्। पृथग्-[Page4139-b+ 38] भावो विनाशाय राज्यस्य च कुलस्य च। अतः स्वभोगसदृशान् दायादान् कारयेन्नृपः। अव्याहताज्ञः संतुष्ये-च्छत्रसिंहासनैरपि। राज्यविभजनाच्छ्रेयो न भूपानांभवेत् खलु। अल्पीकृतं विभागेन राज्यं शत्रुर्जिघृक्षति। राज्यतुर्य्यांशदानेन स्थापयेत्तान् समन्ततः। चतुर्दिक्ष्वथया देशाधिषान् कुर्य्यात् सदा नृपः। गोगजाश्वोष्ट्रको-षाणामाधिपत्ये नियोजयेत्। सेनाधिकारे संयोज्यानान्धवाः श्यालकादयः। स्वदोषदर्शकाः कार्य्या गुरवःसुहृदश्च ये। वस्त्रालङ्कारपात्राणां स्त्रियो योज्यास्तु द-र्शने। स्वयं सर्वं च विमृशेत् पर्य्यायेण च दुर्नयेत्। मन्त्रयेन्मन्त्रिभिः सार्द्धं भावि कृत्यं तु निर्जने। अन्त-र्वेश्मनि रात्रौ वा दिवा वाऽन्यविशोधिते। सुहृद्भिर्भ्रा-तृभिः सार्द्धं सभायां पुत्रबान्धवैः। राजकृत्यं सैन्यपैश्चसभ्याद्यैश्चिन्तयेन्नृपः”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृप¦ m. (-पः) A king, a sovereign. E. नृ man, पा to protect, aff. क।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृप [nṛpa] नृपति [nṛpati] नृपाल [nṛpāla], नृपति नृपाल &c. See under नृ.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नृप/ नृ--प See. p.568. col. 2.
नृप/ नृ-प m. (3. पा)protector of men , prince , king , sovereign S3a1n3khS3r. Mn. MBh. etc.
नृप/ नृ-प m. (in music) a kind of measure
नृप/ नृ-प m. N. of the numeral 16 Gan2it.