नौः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौः, स्त्री, (नुद्यतेऽनयेति । नुद प्रेरणे + “ग्लानु- दिभ्यां डौः ।” उणां २ । ६४ । इति डौः ।) नौका । इत्यमरः । १ । १० । १० ॥ यथा, महा- भारते । १ । १५० । ४ -- ५ । “ततः स प्रेषितो विद्वान् विदुरेण नरस्तदा । पार्थानां दर्शयामास मनोमारुतगामिनीम् ॥ सर्व्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् । शिवे भागीरथीतीरे नरैर्व्विश्रम्भिभिः कृताम् ॥” एतेन यन्त्रवाहिता नौका प्रतीयते । कलेर नौका इति इष्टिम्बोट् इति च यस्याः प्रसिद्धिः ॥

"https://sa.wiktionary.org/w/index.php?title=नौः&oldid=145771" इत्यस्माद् प्रतिप्राप्तम्