न्याय

विकिशब्दकोशः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यायः, पुं, विष्णुः । यथा, “अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः ।” इति तस्य सहस्रनाममध्ये गणितः ॥ * ॥ (नियमेन ईयते इति । नि + इण् + “परि- न्योर्नीणोर्द्यूताभ्रेषयोः ।” ३ । ३ । ३७ । इति घञ् ।) उचितः । तत्पर्य्यायः । अभ्रेषः २ क्वल्पः ३ देशरूपम् ४ समञ्जसम् ५ । इत्यमरः । २ । ८ । २४ ॥ * ॥ (नीयन्ते प्राप्यन्ते विवक्षितार्था येनेति । नी + “अध्यायन्यायोद्यावसंहाराश्च ।” ३ । ३ । १२२ । इति घञ्प्रत्ययेन निपातनात् साधुः । नीतिः । जयोपायः । भोगः । युक्तिः । इति चिन्तामणिः ॥) प्रतिज्ञाहेतूदाहरणोप- नयनिगमनात्मकपञ्चावयववाक्यम् । तल्लक्षणं यथा । अनुमितिचरमकारणलिङ्गपरामर्शप्रयो- जकशाब्दज्ञानजनकवाक्यत्वम् । इति चिन्ता- मणिः ॥ उचितानुपूर्ब्बिकप्रतिज्ञादिपञ्चकसमु- दायत्वम् । इति शिरोमणिः ॥ तल्लक्ष्यं यथा । पर्व्वतो वह्निमान् धूमात् यो यो धूमवान् स्र वह्रिमान् यथा महानसं वह्रिव्याप्यधूमवांश्चायं तस्माद्बह्रिमान् । इति जगदीशः ॥ * ॥ (पञ्चाङ्गमधिकरणम् । यथा, महाभारते । २ । ५ । ३ । “न्यायविद्धर्म्मतत्त्वज्ञः षडङ्गविदनुत्तमः ।” “न्यायः पञ्चाङ्गमधिकरणम् । यथा, -- ‘विषयो विषयश्चैव पूर्ब्बपक्षस्तथोत्तरः । पक्षद्वयफलञ्चैव शास्त्रेऽधिकरणं विदुः ॥’

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्याय पुं।

नीतिः

समानार्थक:अभ्रेष,न्याय,कल्प,देशरूप,समञ्जस,नय,नाय,धर्म

2।8।24।1।2

अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम्. युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्याय¦ पु॰ नि + इण्--भावकरणादौ घञ्।

१ उचिते

२ गोतप-णीतपोडशपदार्थनिरूपके शास्त्रभेदे प्रतिज्ञाहेतूदाहरणो-पनयननिगमनात्मके

३ वाक्यमेदे
“अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशब्दज्ञानजनकवाक्यत्वम्” तल्लक्षण-मिति चिन्तामणिः।
“उचितानुपूर्वीकप्रतिज्ञादिपञ्चकस-सुदायत्वमिति” शिरोमणिः। अवयवशब्दे

४३

२ पृ॰ दृश्यम्। यथा पर्बतो वह्निमान् (प्रतिज्ञा) पूमात् (हेतुः) यो योधूमवान् स वह्निमान् यथा महानसम् (उदा॰) वह्निव्या-प्यधूमवांश्चायम्। (उपनयनम्) तस्माद्वह्निमान् (निगमनम्)एतद्दर्शनमतञ्च सर्वदर्शनसंग्रहे दर्शितं यथा(
“तत्त्वज्ञानाद्दुःखात्यन्तोच्छेदलक्षणं निश्रेयमम्भव-तोति समानतन्त्रेऽपि प्रतिपादित्नं तदाह सूत्रकारःप्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णय-बादजल्पवितण्डाहेत्वासच्छलजातिनिग्रहस्थानां तत्त्व॰[Page4156-a+ 38] ज्ञानान्निश्रेयसाधिगमः” इति। इदं न्यायशास्त्र-स्यादिमं सूत्रम्। न्यायशास्त्रञ्च पञ्चाध्यायात्मकं तत्रप्रत्यध्यायस्याह्निकद्वयम्। तत्र प्रथमाध्यायस्य प्रथमा-ह्निके भगवता गोतमेन प्रमाणादिपदार्थनवकलक्षण-निरूपणं विधाय द्वितीये वादादिसप्तपदार्थलक्षणनि-रूणं कृतम्। द्वितीयस्य प्रथमे संशयपरीक्षणं प्रमा-णचतुष्टयाप्रामाण्यशङ्कानिराकरणञ्च। द्वितीये अर्था-पत्त्यादेरन्तर्भावनिरूपणम्। तृतीयस्य प्रथमे शरीरेन्द्रि-यार्थपरीक्षणं द्वितीये बुद्धिमनःपरीक्षणम्। चतुर्थस्यप्रथमे प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गपरीक्षणं द्वितीयेदोषनिमित्तकत्वनिरूपणम् अवयव्यादिनिरूपणञ्च। प-ञ्चमस्य प्रथमे जातिभेदनिरूपणं द्वितीये निग्रहस्थानभेदनिरूपणम्।
“मानाधीना मेयसिद्धिरिति” न्यायेनप्रमाणस्य प्रथममुद्देशः तदनुसारेण लक्षणस्य कथनीयतयाप्रथमोद्दिष्टस्य प्रमाणस्य प्रथमं लक्षणं कथ्यते। साधना-श्रयाव्यतिरिक्तत्वे सति प्रमाव्याप्तं प्रमाणम्

१ । एवञ्चप्रतितन्त्रसिद्धान्तसिद्धं परमेश्वरप्रामाण्यं संगृहीतंभवति यदचकथत् सूत्रकारः
“मन्त्रायुर्वेदप्रामाण्यवच्चतत्प्रामाण्यमाप्तप्रामाण्यादिति”। तथाच न्यायपारा-वारं दृष्ट्वा विश्वविख्यातकीर्त्तिरुदयनाचार्य्योऽपि कुसुमा-ञ्जलौ चतुर्थे स्तबके
“मितिः सम्यकपरिच्छित्तिस्तद्वत्ताच प्रमातृता। तदयोगव्यवच्छेदः प्रामाण्यं गौतमेमते” इति।
“साक्षात्कारिणि नित्ययोगिनि परद्वारानपे-क्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ताविवस्तुक्रमः। लेशादृष्टिनिमित्तदुष्टिविगमप्रभ्रष्टशङ्कातुषः शङ्कोन्मेष-कलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः” इति। तच्चतु-र्विधं प्रत्यक्षानुमानोपमानशब्दभेदात्।

२ प्रमेयं द्वादश-प्रकारकम् आत्मशरीरेन्द्रियार्थवुद्धिमनःप्रवृत्तिदोषप्रेत्य-भावफलदुःखापवर्गभेदात्। अनवधारणात्मकं ज्ञानं

३ संशयः स त्रिविधः साधारणधर्मासाधारणधर्मविप्रतिप-त्तिलक्षणभेदात्। यमधिकृत्य प्रवर्त्तन्ते पुरुषास्तत्प्रयोजनं

४ तद्द्विविधं दृष्टादृष्टभेदात्। व्याप्तिसंवेदनभूमिर्दृष्टान्तः

५ स द्विविधः साधर्म्यवैधर्म्यभेदात्। प्रामाणिकत्वेना-म्युपगतोऽर्थः सिद्धान्तः

६ स चतुर्विधः सर्वतन्त्रप्रतितन्त्रा-धिकरणाभ्यु पगमभेदात्। परार्थानुमानवाक्यैकदेशोऽव-यवः

७ स पञ्चविधः प्रतिज्ञाहेतूदाहरणोपनयननिगभनभे-दात्। व्याप्यारोपे व्यापकारोपस्तर्कः

८ स चैकादशविधःव्याधातात्माश्रयेतरेतराश्नयचक्रकाश्रयानवस्थाप्रतिबन्दि-[Page4156-b+ 38] कल्पनालाघवकल्पनागौरवोत्सर्गापवादबैजात्यभेदात्। म-थार्थानुभवपर्य्याया प्रमितिर्निर्णयः

९ सा चतुर्विधा साक्षात्-कृत्यनुमित्युपमितिशाब्दीभेदात्। तत्त्वनिर्णयफलः क-थाविशेषो वादः

१० । उभयसाघनवती विजिगीषुकथाजल्पः

११ । स्वपक्षस्थापनाहीनः कथाविशेषो वितण्डा

१२ । कथा नाम वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः। असाधको हेतुत्वेनाभिमतो हेत्वाभासः

१३ सच पञ्चविधःसव्यमिचारविरुद्धप्रकरणसमसाध्यसमातीतकालभेदात्। शब्दवृत्तिव्यत्ययेन प्रतिषेधहेतुश्छलं

१४ तत्त्रिविधं अभि-धानतात्पर्य्योपचारव्यत्ययवृत्तिभेदात्। स्वव्याघातकमु-त्तरं जातिः

१५ । सा चतुर्विंशतिविधा साधर्म्यवैधर्म्योत्-कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृ-ष्टान्तानुपपत्तिसम्शयप्रकरणाहेत्वर्थापत्तिविशेषापत्त्युपल-ब्ध्यनुपलब्धिनित्यानित्यकार्यसमभेदात्। पराजयनिमित्तंनिग्रहस्थानं

१६ तद्द्वाविंशतिप्रकारं प्रतिज्ञाहानिप्रतिज्ञा-न्तरप्रतिज्ञाविरोधप्रतिज्ञासन्यासहेत्वन्तरार्थान्तरनिरर्थका-विज्ञातार्थापार्थकाष्राप्तकालन्यूनाधिकपुनरुक्ताननुभाषणाज्ञानाप्रतिभाविक्षेपमतानुज्ञापर्य्यनुयोज्योपेक्षणनिरनुयो-ज्यानुयोगापसिद्धान्तहेत्वाभासभेदात्। अत्र सर्वान्तर्गणि-कस्तु विशेषस्तत्र शास्त्रे विस्पष्टो विस्तरभिया नप्रस्तूयते। ननु प्रमाणादिपदार्थषोडशके प्रतिपाद्यमानेकथमिदं न्यायशास्त्रमिति व्यवदिश्यते सत्यं तथापि
“अ-साधाण्येन व्यपदेशा भवन्तीति” न्यायेन न्यायस्य परा-र्थानुमानापरपर्य्यायस्य सकलविद्यानुग्राहकतया सर्वक-र्मानुष्ठानसाधनतया प्रधानत्वेन तथा व्यपदेशो युज्यते। तथाऽभाणि सर्वज्ञेन,
“सोऽयं परमो न्यायः विप्रतिपन्न-पुरुषप्रतिपादकत्वात् तथा प्रवृत्तिहेतुत्वाच्चेति”। पक्षिल-स्वामिना च
“सेयमान्वीक्षिकी विद्या प्रमाणाद्रिभिः पदार्थैःप्रविभज्यमाना
“प्रदीपः सर्वविद्यानामुपायः सर्वकर्म-णाम्। आश्रयः सर्वधर्माणां विद्योद्देशे परीक्षितेति”। ननु तत्त्वज्ञानान्निःश्रेयसम्भवतीत्युक्तं तत्र किं? तत्त्व-ज्ञानादनन्तरमेव निःश्रेयसं सम्पद्यते नेत्युच्यते किन्तुतत्त्वज्ञानाददुःखजन्मप्रवृत्तिदोषमिय्याज्ञानानामुत्तरोत्तरा-पाये तदनन्तराभाव इति। तत्र मिय्याज्ञानं नामाना-त्मनि देहादावात्मबुद्धिः तदनुकूलेषु रागः तत्प्रतिकूलेषुद्वेषः वस्तुतस्त्वात्मनः प्रतिकूलमनुकूलं वा न किञ्चित्समस्ति परस्परानुबन्धाच्च रागादीनां, मूढो रज्यतिरक्तो सुह्यति मूढः कृप्यति कुपितो सुह्यतीति ततस्तै-[Page4157-a+ 38] र्ष्टो{??} प्रेरितः प्राणी प्रतिषिद्धानि शरीरेण हिंसास्तेया-दीन्याचरति, वाचा अनृतादीनि, भनसा परद्रोहादीनि,सेयं पापरूपा प्रवृत्तिरधर्ममावहतीति। शरीरेणप्रशस्तानि दानपरपरित्राणादीनि, वाचा हितसत्यादीनि,मनसा अहिंसादीनि, सेयं पुण्यरूपा प्रवृत्तिर्धर्मः। सेय-मुभयी प्रवृत्तिः। ततः स्वस्वानुरूपं प्रशस्तं निन्दितं वाजन्म पुनः शरीरादेः प्रादुर्भावः। तस्मिन् सति प्रतिकूल-वेदनीयतया वासनात्मकं दुःखं भवति। त इमे मिथ्याज्ञा-नादयो दुःखान्ता अविच्छेदेन प्रवर्त्तमानाः संसारशब्दार्थोघटीयन्त्रवन्निरवधिरनुवर्त्तते। यदा कश्चित् पुरुषधौरेयःपुराकृतसुकृतपरिपाकवशादाचार्य्योपदेशेन सर्वमिदं दुःखा-यतनं दुःखानुषक्तञ्च पश्यति तदा तत्सर्वं हेयत्वेनबुध्यते ततस्तन्निवर्त्तकमविद्यादि निवर्त्तयितुमिच्छतितन्निवृत्त्युपायश्च तत्त्वज्ञानमिति कस्यचिच्चतसृतिर्वि-द्याभिर्विभक्तं प्रमेयं भावयतः सम्यग्दर्शनपदवेदनीय-तया तत्त्वज्ञानं जायते तत्त्वज्ञानान्मिथ्याज्ञानमपैतिमिथ्याज्ञानापाये दोषाः अपयान्ति दोषापाये प्रवृत्तिर-पैति प्रवृत्त्यपाये जन्मापैति जन्मापाये दुःखमत्थन्तं नि-वर्त्तते सात्यन्तिकी निवृत्तिरपवर्गः। निवृत्तेरात्यन्ति-कत्वं नाम निवर्त्त्यसजातीयस्य पुनस्तत्रानुत्पाद इतितथा च पारमर्षं सूत्रं
“दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञा-नानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः” इति। ननु दुःखात्यन्तच्छेदोऽपवर्ग इत्येतदद्यापि कफोणिगु-डायितं वर्त्तते तत्कथं सिद्धवत्कृत्य व्यवह्रियत इतिचेन्मैवं सर्वेषां मोक्षवादिनामपवर्गदशायामात्यन्तिकीदुःखनिवृत्तिरस्तीत्यस्यार्थस्य सर्वतन्त्रसिद्धान्तसिद्धतया घ-ण्टापथत्वात् न ह्यप्रवृत्तस्य दुःखं प्रत्यापद्यते इति क-श्चित् प्रपद्यते तथा हि आत्मोच्छेदो मोक्ष इति माध्य-मिकमते दुःखोच्छेदोऽस्तीत्येतावत्तावदविवादम्। अथमन्येथाः शरीरादिवदात्मापि दुःखहेतुत्वादुच्छेद्य इतितन्न सङ्गच्छ्रते विकल्पानुपपत्तेः किमात्मा ज्ञानसन्तानोविवक्षितः तदरिक्तो वा। प्रथमे न विप्रतिपत्तिः कःखल्वनुकूलमाचरति प्रतिकूलमाचरेत। द्वितीये तस्यनित्यत्वे निवृत्तिरशक्यविधानैव प्रवृत्त्यनुपपत्तिश्चाधिकंदूषणं, न खलु कश्चित् प्रेक्षावान्
“आत्मनस्तु कामाय सर्वंप्रियं भवतीति” सर्वतः प्रियतमस्यात्मनः समुच्छेदाय प्रय-तते सर्वो हि प्राणी मुक्त इति व्यवहरति। ( धर्मिनिवृत्तौ निर्मलज्ञानोदयो महोदय इति विज्ञान-[Page4157-b+ 38] वादिवादे सामग्र्यभावः सामानाधिकरण्यानुपपत्तिश्च। भावनाचतुष्टयं हि तस्य कारणमभीष्टं तच्च क्षणभङ्गपक्षेस्थिरैकाधारासम्भवात् लङ्घनाभ्यासादिवदनासादितप्र-कर्षं न स्फुटमभिज्ञानमभिजनयितुं प्रभवति सोपप्लवस्यज्ञानसन्तानस्य बद्धत्वे निरुपप्लवस्य च मुक्तत्वे यो बद्धःस एव मुक्त इति सामानाधिकरण्यं न सङ्गच्छते। ( आवरणमुक्तिर्मुक्तिरिति जैनजनाभिमतोऽपि मार्गोन निरर्गलः अङ्ग भवान् पृष्टो व्याचष्टां किमा-वरणं? धर्माधर्मभ्रान्तय इति चेत् इष्टमेव। अथ देह-मेवावरणं तथा च तन्निवृत्तौ पञ्जरान्मुक्तस्य शुकस्येवा-त्मनः सततोर्द्ध्वगमनं मुक्तिरिति चेत्तदा वक्तव्यं किमय-मात्मा मूर्त्तोऽमूर्त्तो वा। प्रथमे निरवयवः सावयवो वानिरवयवत्वे निरवयवो मूर्त्तः परमाणुरिति परमाणु-लक्षणापत्त्या परमाणुधर्मवदात्मधर्माणामतीन्द्रियत्वं प्रस-जेत्। सावयवत्वे यत्सावयवं तदनित्यमिति प्रतिबन्ध-बलेनानित्यत्वापत्तौ कृतप्राणाशाकृताभ्यागमौ निष्प्रति-बन्धौ प्रसरेताम्। अमूर्त्तत्वे गमनमनुपपन्नमेव चल-नात्मिकायाः क्रियायाः मूर्त्तप्रतिबन्धात्। ( पारतन्त्र्यं बन्धः स्वातन्त्र्यं मोक्ष इति चार्वाकपक्षेऽपिस्वातन्त्र्यं दुःखनिवृत्तिश्चेदविवादम् ऐश्वर्य्यं चेत् साति-शयतया सापेक्षतया च प्रेक्षवतां नाभिमतम्। प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य स्वरूपेणा-वस्थानं मुक्तिरिति साङ्ख्याख्यातेऽपि पक्षे दुःखोच्छेदोऽ-भ्युपेयते विवेकज्ञानं पुरुषाश्रयं प्रकृत्याश्रयं वेतिएतावदवशिष्यते तत्र पुरुषाश्रयमिति न श्लिष्यते पुरुषस्यकौटस्थ्यात् स्थाननिरोधापातान्नापि प्रकृत्याश्रयः अचेन-त्वात् तस्याः। किञ्च प्रकृतिः प्रवृत्तिस्वभावा निवृत्ति-स्वभावा वा आद्ये अनिर्मोक्षः स्वभावस्यानपायात् द्वितीयेसम्प्रति संसारोऽस्तमियात्। ( नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरिति भट्टसर्वज्ञा-द्यभिमतेऽपि दुःखनिवृत्तिरभिमतैव परन्तु नित्यसुखंन प्रमाणपद्धतिमध्यास्ते। श्रुतिस्तत्र प्रमाणमिति चेन्नयोग्यानुपलब्धिबाधिते तदनवकाशादवकाशे वा ग्राव-प्लावेऽपि तथा भावप्रसङ्गात्। ननु सुखाभिव्यक्तिर्मु-क्तिरिति पक्षं परित्यज्य दुःखनिवृत्तिरेव मुक्तिरितिस्वीकारः क्षीरं विहायारोचकग्रस्तस्य सौवीररुचि-मनुहरतीति चेत्तदेतन्नाटकपक्षपतितं त्वद्वच इत्यु-पेक्ष्यते। सुखस्य सातिशयत्वेन प्रत्यक्षतया बहुप्रत्व-[Page4158-a+ 38] नीकाक्रान्ततया साधनप्रार्थनापरिक्लिष्टतया च दुःखा-विनाभूतत्वेन विषानुषक्तमधुवत् दुःखपक्षनिःक्षेपात्। ननु
“एकमनुसन्धित्सतोऽपरं प्रच्यवते” इति न्यायेन दुःखवत्सुखमप्युच्छिद्यत इति अकाम्योऽयं पक्ष इति चेन्मैवंमस्थाः सुखसम्पादने दुःखसाधनबाहुल्यानुषङ्गनियमेनतप्तायःपिण्डे तपनीयबुद्ध्या प्रवर्त्तमानेन साम्यापातात्तथा हि न्यायोपार्जितेषु विषयेषु कियन्तः सुखखद्योताःकियन्ति दुःखदुर्दिनानि अन्यायोपार्जितेषु तु यद्भवि-ष्यति तन्मनसापि चिन्तयितुं न शक्यमित्येतत् स्वानु-भवमनाच्छादयन्तः सन्तोविदाङ्कुर्वन्तु विदांवरा भवन्तः। तस्मात् परिशेषात् परमेश्वरानुग्रहवशाच्छवणादिक्रमे-णात्मतत्त्वसाक्षात्कारवतः पुरुषधौरेयस्य दुःखनिवृत्ति-रात्यन्तिकी निःश्रेयसमिति निरवद्यम्। नन्वीश्वरसद्भावेकिं प्रमाणं प्रत्यक्षमनुमानमागमो वा न तावदत्र प्र-त्यक्षं क्रमते, रूपादिरहितत्वेनातीन्द्रियत्वात् नाप्यनु-मानं तद्व्याप्तिलिङ्गामावात् नागमः विकल्पासहत्वात्किं नित्योऽवगमयत्यनित्यो वा। आद्ये अपसिद्धान्ता-पातः द्वितोये परस्पराश्रयापातः। उपमानादिकमशक्य-शङ्कं नियतविषयत्वात्। तस्मादीश्वरः शशविषाणायतेइति चेत्तदेतन्न चतुरचेतसां चेतसि चमत्कारमाविष्क-रोति। विवादास्पदं नगसागरादिकं सकर्तृकं कार्य्य-त्वात् कुम्भवत्। न चायमसिद्धो हेतुः सावयवत्वेन तस्यसुसाधनत्वात्। ननु किमिदं सावयवत्वम् अवयवसंयो-गित्वम् अवयवसमवायित्वं वा नाद्यः गगनादौ व्यमि-चारात् न द्वितीयः तन्तुत्वादावनैकान्त्यात्। तस्मादनु-पपन्नमिति चेन्मैवं वादीः समवेतद्रव्यत्वं सावयवत्व-मिति निरुक्तेर्वक्तुंशक्यत्वात्। नापि विरुद्धो हेतुःमाध्यविपर्य्ययव्याप्तेरभावात् नाप्यनैकान्तिकः पक्षाद-न्यत्र वृत्तेरदर्शनात् नापि कालात्ययोपदिष्टः बाधकानु-पलम्भात् नापि सत्प्रतिपक्षः प्रतिभटादर्शनात्। ननुनगादिकमकर्तृकं शरीराजन्यत्वात् गगनवदिति चेन्नै-तत् परीक्षाक्षममीक्ष्यते नहि कठोरकण्ठीरवस्य कुरङ्ग-शावः प्रतिभटो भवति अजन्यत्वस्यैव समर्थतया शरीर-विशेषणवैयर्थ्यात्। तर्ह्यजन्यत्वमेव साधनमिति चेन्ना-सिद्धेः। नापि सोपाधिकत्वशङ्काकलङ्काङ्कुरः सम्भवीअतुकूलतर्कसम्भवात् यद्ययमकर्तृकः स्यात् कार्य्यमपिन स्यादिह जगति नास्त्येव तत्कार्य्यं नाम यत्कारकच-क्रमवधीर्य्यात्मानमासादयेदित्येतदविवादम्। तच्च सर्वं[Page4158-b+ 38] कर्तृविशेषोपहितमर्य्यादं कर्तृत्वं चेतरकारकाप्रयोज्यत्वेसति सकलकारकप्रयोक्तृत्वलक्षणं ज्ञानचिकीर्षाप्रयत्ना-धारत्वम्। एवञ्चकर्तृव्यावृत्तेस्तदुपहितसमस्तकारकव्या-वृत्तावकारणककार्य्योत्पादप्रसङ्गः। इति स्थूलः प्रमादः। तथा निरटङ्कि शङ्करकिङ्करेण
“अनुकूलेन तर्केणसनाथे सति साधने। साध्यव्यापकताभङ्गात् पक्षे नो-पाधिसम्भवः” इति। यदीश्वरः कर्त्ता स्वात्तर्हि शरीरीस्यादित्यादिप्रतिकूलतर्कजातं जागर्त्तीति चेदीश्वरसिद्ध्य-सिद्धिभ्यां व्याघातात् तदुदितमुदयनेन
“आगमादेः प्रमा-णत्वे वाधनादनिषेधनम्। आभासत्वे तु सैव स्यादा-श्रयासिद्धिरुद्धता” इति। न च विशेषविरोधः शक्य-शङ्कः ज्ञातत्वाज्ञातत्वविकल्पपराहतत्वात्। तदेतत्परमेश्वरस्य जगन्निर्माणे प्रवृत्तिः किमर्था स्वार्था परार्थावा आद्येऽपीष्टप्राप्त्यर्था अनिष्टपरिहारार्था वा नाद्यःअवाप्तसकलकामस्य तदनुपपत्तेः अतएव न द्वितीयः। द्वितीये प्रवृत्त्यनुपपत्तिः कः खलु परार्थं प्रवर्त्तमानंप्रेक्षावानित्याचक्षीत। अथ करुणया प्रवृत्त्युपपत्तिरि-त्याचक्षीत कश्चित्तं प्रत्याचक्षीत तर्हि सर्वान् प्राणिनःसुखिन एव सृजेदीश्वरः न दुःखशबलान् करुणाविरो-धात्। स्वार्थमनपेक्ष्य परदुःखप्रहरणेच्छा हि कारुण्यंतस्मादीश्वरस्य जगत्सर्जनं न युज्यते। तदुक्तं भट्टाचार्य्यैः
“प्रयोजनमनुद्दिश्य न मन्दो हि प्रवर्त्तते। जगच्च सृ-जतस्तस्य किं नाम न कृतं भवेत्” इति। नास्तिकशि-रोमणे! तावदीर्ष्याकषायिते चक्षुषी निमील्य परिभाव-यतु भवान् करुणया प्रवृत्तिरस्त्येव, न च निसर्गवःसुखमयसर्गप्रसङ्गः सृज्यप्राणिकृतसुकृतदुष्कृतपरिपाकवि-शेषाद्वैषम्योपपत्तेः न च स्वातन्त्र्यभङ्गः शङ्कनीयः
“स्वाङ्गंस्वव्यवधायकं न भवतीति, न्यायेन प्रत्युत तन्निर्वाहाच्च।
“एक एव रुद्रो न द्वितीयोऽवतस्थे” इत्यादिरागमस्तत्रप्रमाणम्। यद्येवं तर्हि परस्पराश्रयबाधव्याधिं समाध-त्स्वेति चेत् तस्यानुत्थानात् किमुत्पत्तौ परस्पराश्रयःशङ्क्यते ज्ञप्तौ वा। नाद्यः आगमस्येश्वराधीनोत्पत्तिकत्वे-ऽपि तस्यान्यतोऽवगमात् नापि तदनित्यत्वं ज्ञप्तौ, आग-मानित्यत्वस्य तीव्रादिधर्मोपेतत्वादिना सुगसत्वात्। तस्मा-न्निवर्त्तकधर्मानुष्ठानवशादीश्वरप्रसादसिद्धावभिमतेष्टसिद्धि-रिति सर्वमवदातम्”।

४ नये नीतौ

५ नीतिसाधने उपाये

६ विष्णौ च
“अग्रणी-र्ग्रामणीः श्रीमान् न्यायो तेता समीरणः” विष्णुस॰[Page4159-a+ 38]
“प्रमाणानुग्राहकस्तर्को न्यायः” भा॰ तदनुगृहीतप्रमा-णगम्यो भगवानपि न्यायशब्देन लक्षितलक्षणयाप्रतिपाद्यते” आनन्दगिरिः।
“न्यायप्रसूनाञ्जलिः” कुसुमाञ्जलिः
“समस्तोपपन्नलिङ्गप्रतिपादकं वाक्यंन्यायः” हरिदासः। निश्चितमीयते निर्णीयतेऽनेन करणेघञ्।

७ वेदार्थनिर्णयसाधने अधिकरणात्मके पदार्थेअधिकरणशब्दे

१२

६ पृ॰ दृश्यम्। स च न्यायः पूर्वोत्त-रवेदसम्बन्धी जैमिनिवेदव्यासाभ्यां बहुप्रकारो दर्शितः। ततएव संक्षिप्य माधबाचार्य्येण जैमिनीयन्यायमालायांवैयासिकन्यायमालायाञ्च प्रायशः सर्वे न्याया दर्शितास्तेच ततएवावगन्तव्याः।

८ लोकशास्त्रप्रसिद्धदृष्टान्तभेदेषु तेच लौकिकन्यायतया प्रसिद्धाः। ते च नानास्थानात् सं-गृह्यात्र प्रदर्श्यन्ते


“अक्रे चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्” इति न्यायःयत्राल्पायासेनाभीष्टसिद्धिर्जायते तत्र बह्वायाससाध्येप्रेक्षावतां न प्रवृत्तिरिति प्रदर्शनायास्य न्यायस्य प्रवृत्तिः।

२ अजाकृपाणीयन्यायः अजाकृपाणपदे तत्स्थितक्रियाविशेष-परे अजागमनकालीनं कृपाणपतनं यथाकस्मिकम्। तथा चाकस्मिकाजागमनकालीनकृपाणपतनतुल्ये आक-त्मिकानिष्टलाभस्थलेऽस्य न्यायस्य प्रवृत्तिः।

३ अजातपुत्रनामोत्कीर्त्तनन्यायः भाविसंज्ञया निर्देशेऽस्य प्रवृत्तिः।

४ अधिकं तु प्रविष्टं न च तद्धानिरिति न्यायः यत्राधिकप्रवेशे-ऽपि प्रकृतस्य न हानिस्तत्रायं प्रवर्त्तते।

५ अध्यारोपन्यायः अध्यारोपो नाम वस्तुन्यवस्त्वारोपः यथा-ऽरजतभूतायां शुक्तौ रजतारोप इति वेदान्तिनः। ननुकथमवस्तुनोनिरात्मकस्य आरोपः क्वचिद्दृष्टपूर्वस्य सतःक्वचिदारोपदर्शनात् यथा जबायां दृष्टस्य लौहित्यस्यस्फटिके आरोपः इति चेत्सत्यं तत्सिद्धयेऽनुभवमात्र-मपेक्ष्यते न तु पूर्वमनुभूतस्य तात्त्विकत्वमपि व्यतिरेकाभा-वात् सन्दिग्धविपर्य्ययेष्वपि अत्र स्थाणौ मे नरो वाराक्षसोवेति सन्देह आसीत् अस्यां रज्ज्वां सर्पोऽय-मिति विपर्य्ययं आसीत् इत्यादिसंस्कारकार्यस्मृतिदर्श-नात्। न च सन्देहविपर्य्यययोरेवेयं स्मृतिर्न तदर्थ-योरिति वाच्यम् अर्थविरहिणोस्तयोः स्मृतिगोचर-त्वायोगात्। तस्मात्तुच्छेतरस्य पूर्वपूर्वभ्रमानुभूतस्या-प्युत्तरोत्तरारोपोपपत्तिः। भ्रमतवाहस्य च वीजाङ्कु-रप्रवाहन्यायेनानादितयाऽन्योन्याश्रयानवस्थादिप्रसङ्गान-बकाशात्। तथा च परमार्थसति सच्चिदानन्दब्रह्मणि[Page4159-b+ 38] वस्तुनि अवस्तुनोऽनिर्वचनीयस्याज्ञानतत्कार्य्यादेरध्या-रोपः। ब्रह्मतत्त्वसाक्षात्कारेण चाध्यारोपिताज्ञाना-देर्निवृत्तिः यथा शुक्तिकादिज्ञानेन रजतादिनिवृत्तिः। अतएवाज्ञानादीनां ज्ञाननिर्वत्त्यत्वान्यथानुपपत्त्या अ-ध्यारोपितत्वं कल्प्यते इत्याकरे स्थितम्।

६ अन्धकूपपतनन्यायः अनेन पथा गन्तव्यमिति सत्पुरुषे-णोपदिष्टस्तत्पथं परिमुञ्चन्नन्धो यथा कूपे पतति एबंवेदाद्युपदिष्टमार्गं परित्यजन्नज्ञः नरकादौ पततीत्यस्यन्यायस्य तत्र प्रवृत्तिः”।

७ अन्धगजन्यायः अन्धैर्निर्धारितो गजः शा॰ त॰ अन्घगजः। तत्तुल्यन्यायः। यथा हि जन्मान्धा बहवः कञ्चिटनन्धंपुरुषमूचुरस्मान् गजं ज्ञापयेति। स च गजशालायांनीत्वा कञ्चित् कञ्चित् गजावयवं केनचित् केनचित्ग्राहयित्वोवाच अयं गज इति ते चान्धास्तदुप-दिष्टास्तत्तदवयवं गजत्वेन निश्चित्य स्वस्वगृहे आ-गताः परस्परं विवदन्ते। तत्र कर्णस्पंर्शीं शूर्पाकारोगज इति, शुण्डास्पर्शी महासर्पतुल्य इति जङ्घाग्रा-ही स्तम्भतुल्य इति पुच्छग्राहकः स्थूलरज्जुसम इतिपृष्ठग्राही चतुरस्रसमो गज इति। एवमुपदिष्टाज्ञपुरुषबुद्धिवैचित्र्यात् ईश्वरस्य नानारूपकल्पनमित्यत्र न्यायाव-तारः। अन्धहस्तीत्यादिन्यायोऽप्यत्र प्रसरति।

८ अन्धगोलाङ्गूलन्यायः अन्धेन गृहीतं गोलाङ्गूलम् शा॰ त॰अन्धगोलाङ्गूलंतत्तुल्यन्यायः
“तन्निष्ठस्य मोक्षोपदेशात्” शा॰ सू॰ भाष्ये
“यदि चाज्ञस्य सतो मुमुक्षोरचेतनमना-त्मानमात्मेत्युपदिशेत् प्रमाणभूतं शास्त्रं स च श्रद्दधान-तयाऽन्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत् तद-तिरिक्तं चात्मानं न प्रतिपायेत् तथा सति पुरुषार्था-द्विहन्येत अनर्थञ्च ऋच्छेत्” इत्युक्तम्। विवृतञ्चैतत्रत्नप्रभायां यथा
“यथा कश्चित्किल दुष्टात्मा महारण्येपतितमन्धं बन्धुनगरं जिगमिषुं बभाषे किमत्रायुष्मतादुःखितेन स्थीयते इति। स चान्धः सुखवाणीमाकर्ण्यतमाप्तं मत्वोवाच अहो मद्भागधेयं यदत्रभवान् दीनंमां स्वाभीष्टनगरं गन्तुमसमर्थं भाषते इति स चविप्रलिप्सुः दुष्टं गोयुवानमानीय तदीयलाङ्गूलमन्धेनग्राहयामास उपदिदेश च एनमन्धम् एष गोयुवा त्वा-मिष्टनगरं नेष्यति मा त्यजास्य लाडूलमिति स चान्धःश्रद्धालुतया तदत्यजन् स्वाभीष्टमप्राधानर्थपरस्परां प्राप्तःतेन न्यायेनेति”। एवमन्यत्राप्येवं विषयेऽस्य प्रचारः। [Page4160-a+ 38]

९ अन्धचटकन्यायः अन्धस्य हस्ते पतितश्चटकः शा॰ त॰। यथा दैवात् अन्धस्य हस्ते पतितश्चटकोऽन्धेन गृहीतइति लोकप्रसिद्धिः। एवं दैवादभीष्टलाभे कस्यचिदकार-णस्यापि कारणत्वकल्पनं घुणाक्षरन्यायविषये इवास्यप्रवृत्तिः।

१० अन्धपरम्परान्यायः एकेनान्धेन यथोपदिष्टमन्धान्तरं पुनर-न्यमन्धं तथैवोपदिशति इत्येवमज्ञस्याज्ञान्तरं प्रत्युपदेश-परम्परा न प्रामाणिकीति विवक्षायामस्य प्रवृत्तिः।

११ अपवादन्यायः अधिष्ठाने भ्रान्त्या प्रतीतस्य तदतिरेकेणा-भविनिश्चयोऽपवादः, यथा स्थाण्वादौ भ्रान्त्या प्रतीतस्यपुरुषादेः स्थास्वाद्यतिरेकेणाभावनिश्चयः। अयमेव बाधोविलापनमिति चोच्यते स चायं बाधस्त्रिविधः श्रौतोयौक्तिकः प्रत्यक्षश्चेति।
“अथात आदेशी नेति नेति”
“नेह नानास्ति किञ्चन” इत्यादिश्रुतेर्व्रह्मातिरिक्ताभाव-निश्चयः श्रौतो बाधः। कनकाद्यतिरेकेण कटका-द्यभावनिश्चयवन्निखिलकारणब्रह्मातिरेकेण निखिल-प्रपञ्चाभावं निर्द्धार्त दृश्यमानस्य मिथ्यात्वनिर्द्धारणात्प्रपञ्चस्य ब्रह्ममात्रात्मकत्वनिश्चयो यौक्तिको बाधः। इयंरज्वुः न सर्प इत्युपदेशसहकृतप्रत्यक्षेणेव तत्त्वम-स्यादिवाक्यजनितेन चिन्मात्रोऽहमिति प्रत्यक्षेण ब्रह्मात्म-निश्चयः प्रत्यक्षबाधः।

१२ अर्द्धजरतीयन्यायः इवार्थे छ। अयं च

३७

४ पृ॰ दर्शितः।

१३ अशोकवनिकान्यायः अशोकवनिकागमने यथेष्टच्छायासौ-रभलाभेन अन्यत्र गमनाकाङ्क्षा यथा न भवेत् एवं यत्रेष्टलाभादन्यत्रेच्छाभावस्तत्रायं प्रवर्त्तते।

१४ अश्मलोष्ट्रन्यायः लेष्ट्रस्य तूलाद्यपेक्षया काठिन्येऽपि अ-श्मापेक्षया मृदुत्वं यथा। तथा यस्य यदपेक्षया वैषम्या-पिक्यं विवक्ष्यते तत्रास्य प्रवृत्तिः। अल्पान्तरत्वविवक्षायांतु पाषाणेष्टकान्यायोऽवतरति।

१५ असाधारण्येन व्यपदेशाभवन्तीति न्यायः यथा गोतमोक्त-शास्त्रे प्रमाणादिषोडशपदार्थप्रतिपादनेऽपि तदेकदेशन्यायपदार्थस्य अन्यशास्त्रापेक्षयाप्राधान्येन प्रतिपाद-नात् न्यायशास्त्रमिति तस्य संज्ञा एवमन्यत्र प्राधा-न्यविवक्षया तत्तत्संज्ञेति तत्रास्य प्रवृत्तिः।

१६ अहिकुण्डलन्यायः अहेः सर्पस्य यथा कुण्डलाकृतिवेष्टनंस्वाभाविकं तथा यस्य स्वाभाविकधर्मो व्यपदिश्यते त-त्रास्य प्रवृत्तिः।

१७ आषाणकन्यायः लोकप्रसिद्धकथनमाभाणकं तद्वद्यम्य प्रसिद्धाभाणकं तत्रास्य प्रवृत्तिः। [Page4160-b+ 38]

१८ आम्रवणन्यायः वने इतरवृक्षसत्त्वेऽपि आम्राणां बाहुल्येयथा आम्रवणव्यवदेश एवमेकस्य प्राधान्ये
“भूयस्त्वास्त-द्वाद इति” न्यायेन तद्व्यपदेशो यत्र तत्रास्य प्रवृत्तिः।

१९ उदकनिमज्जनन्यायः सत्याभिसन्धस्य उदकनिमज्जनरूपेदिव्ये शोध्यस्य जलनिमज्जनसमये तत्स्थानान्निःक्षिप्तंशरमादाय तत्पतनस्थानादितोऽपरो नरो यद्यतिवेगेनशोध्यस्थानमागत्य तच्छिरोतिरिक्तं मुखनासिकाद्यवयवंन पश्यति तदा शुद्धिः मिथ्याभिसन्धस्य तद्दर्शनादशुद्धि-रित्येवं दिव्ये प्रसिद्धिवत् यत्र सत्यासत्ययोर्ज्ञानं तत्रास्यप्रवृत्तिः।

२० उपयन्नपयन् धर्मोविकरोति हि धर्मिणमिति न्यायःयथा पूर्वस्य रूपरसादिरूपधर्मपरावृत्तौ रूपरसाद्यन्तरो-त्पत्तौ च घटादेर्धर्मिणोविकृतिरेवं यस्य घर्मिणः पूर्वध-र्मस्यापगमे अन्यधर्मस्योत्पत्तिस्तत्रायं न्यायोऽवतरति।

२१ उपवासाद्वरं भैक्ष्यमितिन्यायः भिक्षायाः क्लेशजनकत्वे-ऽपि उपवासस्याधिकदुःखप्रदस्यापेक्षया इष्टत्वेन यथावरत्वं तथा क्लेशदायकतारतम्येन बहुदुःखदायकापेक्षयास्वल्पदुःखदायकस्य वरत्वं यत्रोपदिश्यते तत्रास्य प्रवृत्तिः।

२२ उभयतः पाशारज्वुन्यायः रज्ज्वां यथा उपयपार्श्वे पा-शसत्त्वे उभयपार्श्वयोर्गमने बन्धनम् एवमुपन्यस्तयोःपक्षयोर्दुष्टत्वे दोषोद्धारणाभावेन बद्धवद्भावेऽस्य प्रवृत्तिः।

२३ उष्ट्रकण्टकभक्षणन्यायः उष्ट्रस्य शमीकण्टकवेधजातदुःख-कालेऽपि शमोपत्रभक्षणजसुखलेशो यथा तथाभीष्टविष-योपार्जनदुःखकाले तदुपार्जितद्रव्यजसुखलेशो यत्रोप-दिश्यते तत्रास्य प्रवृत्तिः।

२४ एकं सन्धित्सतोऽपरं प्रच्यवत इति न्यायः यथा एकंकांस्यपात्रावयवभेदं सन्धातुमिच्छतोऽपरं तदवयवमत्यन्ता-नलसंयोगेन नष्टमिव प्रच्यवते एवमन्यत्र एकस्य सन्धाने-च्छया कृतव्याषारभेदेऽन्थस्य यत्र प्रच्यवः, तत्रास्य प्र-वृत्तिः। तथा एकामसिद्धिं परिहरतोद्वितीयासि-द्धिप्रसङ्गः। यथोदाहृतं बौद्धाधिकारे उदयनेनयथा अङ्कुराद्यकर्तृकं शरीराजन्यत्वादित्यत्र शरीरीतिविशेषणेन स्वरूपासिद्धिं परिहरतो बौद्धस्य व्याप्यत्वा-सिद्धिरापद्यते इत्यन्तेन”।

२५ एकवाक्यतापन्नानां सम्भूयैकार्थप्रतिपादकत्वमिति न्यायःसम्भूय मिलित्वा इतरसाचिव्येनेत्यर्थः। यथा प्रयाजा-द्यङ्गजातवाक्यसम्भूयानां दर्शापूर्वार्थकसाधकत्वेनैकवा-क्यत्वमित्येवं यत्र विचक्ष्यते तत्रास्य प्रवृत्तिः। [Page4161-a+ 38]

२६ एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति न्यायः यथाहस्तिदर्शनात् तत्सम्बन्धिनो हस्तिपकादेः स्मरणमेवंशब्दज्ञानात् वृत्तिसम्बन्धेन शब्दसम्बन्धिनोऽर्थस्य स्मरण-मित्यादि यत्रोपदिश्यते तत्रास्य प्रवृत्तिः।

२७ एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेदिति न्यायःएकाकिनी हेत्वादिचतुष्कहीना परार्थानुमाने हि प्रति-ज्ञादिपञ्चकेनैवार्थसिद्धिः न केवलप्रतिज्ञामात्रेणार्थसिद्धिःतथात्वे सर्वत्र सर्वेसिद्धिप्रसङ्गात्। प्रतिज्ञादिपञ्चकञ्चानु-पदमुक्तम्। न हि प्रतिज्ञामात्रेणार्थसिद्धिरिति न्या-योऽप्येतादृशएव शब्दमात्र भेदः।

२८ औपाधिकाकाशभेदन्यायः यथा औपाधिकाकाशगोचरंज्ञानं सविशेषणे हीति न्यायेनोपाधिभेदविषयं तथाजीवब्रह्मभेदविषयं प्रत्यक्षादिकं तदुपाधिभेदविषय-मित्येवं यत्र विवक्ष्यते तत्रायं प्रवर्त्तते।
“घटसंवृतआकाशे नीयमाने यथा पुनः। घटो नीयेत नाकाशंतद्वज्जीबो नभोपमः” इति श्रुत्युक्तिश्चैतन्न्यायमूलिका।

२९ कण्ठचामीकरन्यायः चामीकरशब्दः चामीकरनिर्मित-भूषणपरः। तद्धि यथा कण्ठगतमपि चिरप्राप्तमपिविस्मृतं सत् दुःखाकरोति आप्तोदेशात् प्राप्नमिव भवत्सुखाकरोति न तु वस्तुतोज्ञानातिरिक्ता तस्य प्राप्ति-रस्ति प्राप्तत्वात्। एवं यस्य प्राप्तस्य नष्टभ्रान्त्या दुःखंसदुपदेशेन तज्ज्ञानाच्च सुखं यत्रोपदिश्यते तत्रास्य प्र-वृत्तिः। तथा जीवस्य स्वतःसिद्धब्रह्मात्मकस्य अज्ञानादिदोषात् तद्विस्मरणं तत्त्वमस्यादिवाक्यजसाक्षात्कारेण अप्रा-प्तस्य प्राप्तिरिव भवतीत्युपचर्य्यते।

३० कदम्बगोलकन्त्यायः कदम्बगोलकस्य गोलाकारकदम्बस्यसर्वावयवेषु यथा युगपत् पुष्पोद्गमः एवं सर्वप्रदेशेषुयुगपत् यत्र प्रसरस्तत्रास्य न्यायस्य प्रवृत्तिः।
“कदम्ब-गोलकन्यायादुत्पत्तिः कस्यचिन्नये” भाषा॰।

३१ कफोणिगुडन्यायः कफोणौ गुडाभावेऽपि तदाशया यथालेहनमेवं यत्र वस्त्वसद्भावेऽपि तत्प्रत्याशया व्यापारभेद-स्तत्रास्य प्रवृत्तिः।

३२ करकङ्कणन्यायः कङ्कणं करभूषणमित्यमरोक्तेः कङ्कणश-ब्दस्यैव करभूषणवाचित्वेऽपि तत्पूर्वं करशब्दप्रयोगे यथाप्रयोगकाले तस्य करसम्बन्धिता द्योत्यते एवमन्यस्यापितत्काले तत्सम्बन्धद्योतनार्थं यत्र प्रयोगस्तत्रास्य प्रवृत्तिः।

३३ काकतालीयन्यायः इवार्थे छ। काकतालोयशब्दे

१८

४३ पृ॰दृश्यः। अत्रायं विशेषः अतर्कितेष्टलाभे अतर्कितानिष्ट[Page4161-b+ 38] लाभे चायमवतरति तथा हि अकस्मान्महाफलस्याग्रै पत-नात् काकस्योपभोगलाभः। एवं तत्फलस्य शिरसि पत-नात् मरणमपि सम्भवति। तत्रानिष्टलाभे
“फलन्तिकाकतालीयं तेभ्यः प्राज्ञान बिभ्यति” वेणीस॰। इष्टा-वाप्तौ
“यत्तया मेलनं तत्र लाभो मे यश्च सुभ्रुवः। तदेतनुकाकतालीयमवितर्कितसम्भवम्” चन्द्रालोकः।
“पतत्तालफलं यथा काकेनोपभुक्तमेवं रहोदर्शनक्षुभितहृदयातन्वी मया भुक्तेति” कुवलयानन्दः।

३४ काकदध्युपघातकन्यायः यथा काकेभ्यो दधि रक्ष्यतामित्यादौउपघातकमात्राभिप्रायत्वेन काकशब्दस्य दध्युपघातक-मात्रे लक्षणा एवं यत्र तात्पर्य्यवशेनेतरार्थपरत्वं तत्रास्यप्रवृत्तिः। तदुक्तमभियुक्तैः
“काकेभ्यो रक्ष्यतामन्नमितिबालोऽपि देशितः। उपघातप्रधानत्वात् न श्वादिभ्योऽपिरक्षति?”।

३५ काकदन्तगवेषणान्यायः काकस्य दन्ताः सन्ति नवा तेषांशौक्ल्यं नवेत्यन्वेषणं यथा निष्फलं तथा यस्यान्वेषणनिष्फर्ल तत्रास्य प्रवृत्तिः।

३६ काकमांसं शुनोच्छिष्टं स्वल्पं तदपि दुर्लभम् इति न्यायःअत्यन्तनिकृष्टस्यातितुच्छ्रस्यापि दुर्लभत्वेऽयं न्यायः प्रवृर्त्तते।

३७ काकाक्षिगोलकन्यायः एकस्य काकचक्षुषः प्रयोजनवशाद्यथा उभयगोलके सञ्चारः तथा एकस्य पदार्धस्योभयत्र सम्बन्धविवक्षायामस्य प्रवृत्तिः।

३८ कारणगुणप्रक्रमन्यायः कारणगुणाः सजातीयगुणान् कार्येआरभन्ते यथा तन्तुरूपादयः स्वकार्य्ये पटे सजातीय-रूपादीनारभन्ते न विजातीयानेवं यत्र कारणगुणानु-गमस्तत्रास्य प्रवृत्तिः।

३९ कारयितुः कर्त्तृत्वन्यायः यः कारयति स करोत्येव यथाराजा भटादिभिर्युद्धं कारयन् तत्कर्त्तेति व्यपदिश्यतेयुद्धफलविजयराज्यलाभादेस्तद्गामित्वात्। तथा यत्रविवक्षा तत्रास्य प्रवृत्तिः।

४० कार्य्येण कारणसंप्रत्ययन्यायः कार्य्येण धूभादिना यथावह्न्यादेरनुमानरूपः संप्रत्यय एवं यत्र कार्येण कारण-संप्रत्ययस्य विवक्षा तत्रास्य प्रवृत्तिः।

४१ कुशकाशावलम्बनन्यायः नद्यादौ पतितस्य सन्तरणानभि-ज्ञस्य यथ कुशकाशावलम्बनं निरर्थकमेवं प्रवलयुक्तिषुनिराकृतासु दुर्बलयुक्त्यवलम्बनं निरर्थकमित्येवमबलम्ब-नस्य निरर्थकत्वविवक्षायामस्य प्रवृत्तिः।

४२ कूपखानकन्यायः कूपखानकस्य कूपखननकाले गात्रे संलग्नं[Page4162-a+ 38] पङ्कं कूपोत्थितजलेन यथापयाति एवं विग्रहावच्छिन्ने-श्वरभेदबुद्धिजन्योदोषस्तदुपासनजन्यसुकृतविशेषजेनाद्वै-तवोधेन समूलं निवर्त्त्यतेत्येवं विवक्षायामस्य प्रवृत्तिः।

४३ कूपमण्डूकन्यायः समुद्रमण्डूकं कथञ्चित्तीरसमीपस्थकूपंगतं कूपस्थमण्डूकः पप्रच्छ कुत आगतोभवान्निति स चसमुद्रादिति प्रत्युक्तवान्। पुनः कूपमण्डूकः कीदृशःसमुद्र इति पप्रच्छ तेन चातीव सहानिति प्रत्युक्तं तत्किंकूपसदृश इत्युक्ते तेन प्रत्युक्तं नहि नहि नास्ति तत्तु-ल्योऽन्यः सहि सरितां पतिरनवगाह्यगाम्भीर्य्योऽलक्ष्य-पारोऽतीव महत्तम इति। कूपमण्डूकस्तु कूपात् महान्नास्ति त्वं तु मिथ्यैव प्रलपसीव्युक्तबान्। समुद्रभेकस्तुतत् श्रुत्वा मनसा तमुपजहासेति लोके गाथा गीयतेतथा च यथा समुद्रमज्ञात्वा तन्महिमानं निराकुर्वन्कूपमण्डूक उपहास्यतां प्राप्तस्तथा परसिद्धान्तानभि-ज्ञस्तद्दूषणाय प्रवर्त्तमान उपहास्यतां गच्छतीति विवक्षायामस्य प्रवृत्तिः।

४४ कूपयन्त्रघटिकान्यायः कूपात् गभीरादपि यन्त्रेण यथाघटिका उत्तोल्यते एवं अतिदुर्वोघत्वेन गम्भीरादपिशास्त्रात् उपदेशादिरूपयन्त्रेण सारोद्धरणं यत्र विवक्ष्यतेतत्रास्य प्रवृत्तिः।

४५ कूर्माङ्गन्यायः कूर्मः स्वेच्छया यथा निजाङ्गस्य सङ्कोच-विकाशौ करोति एवं यस्येच्छावशात् स्वोपाध्यज्ञानका-र्यजातस्य स्वोपाधौ सङ्कोचविकाशकारित्वमित्येवं विव-क्षाविषयेऽस्य प्रवृत्तिः
“यया संहरते चायं कूर्माङ्गा-नीव सर्वशः” गीता।

४६ कैमुतिकन्यायः यत्र दुर्बोधस्य दुःसाध्यस्य सुखेन बोध-साघनादि तत्र सुबोधस्य सुसाध्यस्य नितरां सिद्धिरित्येवंयत्र विवक्षा तत्रास्य प्रवृत्तिः।

४७ कोषपानन्यायः कोषपानं दिव्यभेदः। तत्र यथा सर्व-दिव्यसाधारणधर्मपूर्वदिनोपवासवतोऽभिशस्तस्य मिथ्यावा-दिनः प्रभृतित्रयजलपानकाले कश्चित् सुखविशेषो भवतिशास्त्रनिर्दिष्टावधिकाले तु महद्दुःखं तथा हरिहरा-दिष्वेकस्मिन् भक्तिव्याजेनेतरनिन्दां कुर्वतो निन्दाव्यस-निनो यद्यपि तत्काले कश्चित् सुखविशेषः स्यात् तथापिनिन्दाजन्यदुरितपरिपाककाले कुम्भीपाकादिजन्यं घोर-तमं दुःखं भवतीत्यस्य विवक्षायामस्य न्यायस्य प्रवृत्तिः।

४८ क्रिया हि विकल्प्यते न वस्त्विति त्यायः क्रिया हिकर्तुमकर्तुमन्यथा वा कर्तुं शक्यत्वात् विकल्प्यते न[Page4162-b+ 38] तु वस्तु एवं नैवं वेति विकल्प्यते। तदेतदुक्तं शा॰ भाष्ये
“कर्तुमकर्तुमन्यथा वा कर्तुंशक्यं लौकिकं वैदिकञ्च कर्मयथा अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोड-शिनं गृह्णाति उदिते जुहोति अनुदिते जुहोति” रथेन पद्भ्यामन्यथा वा गच्छति न गच्छति वेति। न तुवस्त्वेवं नैवमस्ति नास्तीति वा विकल्प्यते विकल्पनाहि पुरुषबुद्धिसापेक्षा न वस्तुयाथात्म्यज्ञानं पुरुषबु-ड्यपेक्षं किं तर्हि वस्तुतन्त्रमेव न हि स्थाणावेकस्मिन्स्थाणुर्वा पुरुषोऽन्योवेति तत्त्वज्ञानं भवति तत्र पुरुषोवान्योवेति मिथ्याज्ञानं स्थाणुरेवेति तत्त्वज्ञानम्” एव-मन्यत्राप्यूह्यम्।

४९ खले कपोतन्यायः
“वृद्धा युवानः शिशवः कपोताः खलेयथाऽमी युगवत् पतन्ति। तथैव सर्वे युगपत् पदार्थाःपरस्परेणान्वयिनोभवन्ति” इत्युक्तरीत्या यत्र पदार्थानांयुगपदन्वयस्तत्रास्थ प्रवृत्तिः।

५० गड्डलिकाप्रवाहन्यायः गड्डलिकानामवीनां संघादेका चेत् नद्यादौ पतति तदा तत्सङ्घान्तर्गताः सर्वेऽपिवार्यमाणा अपि तत्र पतन्तीति लोकप्रसिद्ध्या यत्र वार्य्य-माणानामपि अनिष्टमार्गे धावनं तत्रास्य प्रवृत्तिः।

५१ गुडजिह्विकान्यायः यथा तिक्तताभिया निम्बपानम-कुर्वाणस्य बालस्य जिह्वायां गुडलेपं दत्त्वा पित्रा-दिस्तं निम्बं पाययति एवमर्थवादवाक्यानि बहा-याससाध्ये कर्मण्यप्रवर्त्तमानं पुरुषं स्वर्गाक्षय्यादिकंश्रावयित्वा प्रवर्त्तयन्ति। फलश्रुतिरपि रोचनार्थातदुक्तं मल॰ त॰ भाग॰

११ स्क॰
“वेदोक्तमेव कुर्वाणोनिःसङ्गोऽर्पितुमीश्वरे। नैष्कर्म्यां लभते सिद्धिं रोच-नार्था फलश्रुतिः”
“फलश्रुतिरियं नणां नाश्रेयोरोचनं परम्। श्रेयोविवक्षया प्रोक्ता यथा भैषज्य-रोचनम्” अस्य तात्पर्य्यमुक्तं तत्रैव
“पिब निम्बं प्रदा-स्यामि खलु खण्डकलड्डुकान्। पित्रैवमुक्तः पिबतितिक्तमप्यतिबालकः”। तत्र यथा निम्बादिपानस्य नखलु खण्डादिलामएव प्रयोजनं किन्त्वारोग्यं तथा वेदो-ऽप्यवान्तरफलैः प्रलोभयन् मोक्षायैव कर्माणि विधत्ते”।

५२ गोबलीवर्द्दन्यायः बलीवर्द्दस्य गोविशेषत्वेऽपि बलीवर्द्दस्यझटिति गोत्वेन बोधनार्थं यथा प्रयोगः तथाऽन्ययोःसामान्यविशेषरूपयोर्झटिति बोधमार्थं यत्र प्रयोगस्त-त्रास्य प्रवृत्तिः। एवं गोवृषन्यायोऽप्येतादृशार्थेऽवतरति।

५३ घट्टकुटीप्रभातन्यायः तच्छब्दे

२७

८४ पृ॰ अस्य विवरणम्। [Page4163-a+ 38]

५४ घुणाक्षरन्यायः घुणः कीटभेदः तेन यथेष्टं वंशस्य खोदनेकृते ततो रेखासन्निवेशभेदेन दैवाद् यथाऽक्षराकारनि-ष्पत्तिः एवमन्यार्थप्रवृत्तस्य दैवादन्यार्थस्य यत्र निष्पत्ति-र्बिवक्ष्यते तत्रास्य प्रवृत्तिः।

५५ चतुर्वदविन्न्यायः यथा गोहिरण्यादिरूपं बहुधनं चतु-र्वेदविदे मया देयमिति कस्यचित् दातुर्वचनं श्रुत्वा कश्चित्मूढः वेदाश्चत्वार इत्यहं जाने मह्यमिदं सर्वंधनं देयमिति वदन् तद्धनं न लभते प्रत्युत उपहसनी-यश्च भवति एवं सच्चिदानन्दरूपं प्रत्यगभिन्नं ब्रह्मेतिशब्द मात्राभिज्ञस्तदर्थशाब्दवोधमात्रशाली वा यस्तत्त्ववि-त्त्वाभिमानेन तत्त्वविदां गतिं वाञ्छति स न तां प्रा-प्नोति प्रत्युत उपहास्यश्च भवति। तथा च वेदसङ्ख्या-मात्रज्ञाने तद्विशेषस्वरूपार्थयोरज्ञाने यथा तदभिज्ञयो-ग्यसम्मानपूजामानालाभः तथा सच्चिदानन्दादिशब्दमात्रज्ञाने तदर्थस्य साक्षात्काराभावे न ब्रह्मभावापत्तिलक्ष-णमुक्तिप्राप्तिरित्येवं यत्र विवक्ष्यते तत्रास्य प्रवृत्तिः।

५६ चालनीयन्यायः चालनीभ्रामणे तत्स्थतण्डुलानां स्वछिद्र-द्वारा सर्वेषां यथा पतनम्। एवं क्वचित्स्थितवस्तूनां सर्वेषांलक्षणादिवहिर्भावो यत्र सम्भाव्यते तत्रास्य प्रवृत्तिः। यथा व्यापकतालक्षणे साध्यप्रतियोगिकामावप्रवेशे महा-नसोयवह्न्यधिकरणे पर्वतीयवह्न्यभावस्य एवं पर्व-तीयवह्न्यधिकरणे महानसीयवह्न्यभावस्य च सत्त्येनवह्निप्रतियोगिकाभावस्य तत्तदधिकरणे सत्त्वात् सर्वेषांवह्नीनां व्यापकतालक्षणबहिर्भावः।

५७ चौरापराधेन माण्डव्यदण्डन्यायः चौरस्यापराधेन यथामाण्डव्यर्षेः शूलारोपणं पुराणप्रसिद्धम्। एवमेकस्याप-राधेनान्यस्य दोषारोपणं यत्र विवक्ष्यते तत्रास्य प्रवृत्तिः।

५८ जकतुम्बिकान्यायः यथा पङ्कलिप्ता तुम्बिका नद्यादौनिमज्जति पङ्कलेपापगमे च उन्मज्जति तद्गतिप्रतिरो-धकविरहादेवं जीवः देहादिसम्बन्धहेतुमलादौ क्षीणेसति आलोकाकाशे स्वयमेव गत्वा तिष्ठति तादृशएवतस्यमोक्ष इति दिगम्बरमते स्थितम्।

५९ जलानयनन्यायः यथा जलमानीयतामित्युक्ते अनुक्त-मपि तत्पात्रानयनं नान्तरीयकतया प्रतिभाति एवमेक-स्योक्तौ तदाधारादेरनुक्तस्यापि अन्यस्य यत्र प्रतीतिस्त-त्रास्य प्रवृत्तिः।

६० तण्डुखभक्षणन्यायः यथा चौरस्य तण्डुलभक्षणरूपदिव्येशीघ्रमेव लोहितादिनिष्ठीवनं दृश्यते
“लोहितं दृश्यते[Page4163-b+ 38] यस्य सुखे हनुश्च शीर्य्यते। गात्रं च कम्पते यस्यतमशुद्धं विनिर्दिशेत्” पितामहेन तस्य सद्योऽनिष्ट-स्योक्तेस्तथा यत्र सद्योऽनिष्टसम्भवस्तत्रास्य प्रवृत्तिः।

६१ तप्तपरशुग्रहस्पन्यायः सत्याभिसन्धस्य मोक्षो मिथ्याभि-सन्धस्य वन्ध इति विवक्षायामस्य न्यायस्य प्रवृत्तिः। तप्तपरशुग्रहणञ्च दिव्यभेदः। तथा हि चोरत्वसन्देहेनिर्णयार्थं तादृशसन्देहविषयं पुरुषमुद्दिश्य पञ्चाशत्-पलसम्मितमस्रिरहितमष्टाङ्गुलायामं लौह परशुमग्नौप्रक्षिप्याग्निवर्णं कृत्वा अश्वत्थपत्रदधिपूर्वाद्यन्तरितयोःशोध्यस्य हस्तयोर्विधिना प्राड्विपाको निःक्षिपेत् स चेद-नृतवादी नाहं चौर इति तदा तादृशपरशुग्रहणे दह्यतेयस्तु नाहं चौर इति सत्यवादी स तादृशपरशुग्रहणे-ऽपि न दह्यते तत्र दाहाभावप्रयोजकं नाहं चौरइति विषयस्य सत्यत्वं दाहप्रयोजकं तु तद्विषयस्यानृ-तत्वम्। तथा मुक्तौ प्रयोजकमहं ब्रह्मेति वाक्यविष-यस्य सत्यत्वं बन्धप्रयोजकं तु नाहं ब्रह्मेति वाक्यविष-यस्यानृतत्वम्। अयमेव न्यायः छा॰ उ॰ श्रुत्या प्रति-पादितो यथा
“तद्यथा पुरुषं सोम्योत हस्तगृहीत-मानयत्यपहार्षीत् स्तेयमकाषींत् परशुमस्मै तपतेति सयदि तस्य कर्त्ता भवति तत एवानृतमात्मानं कुरुतेमोऽनृताभिसन्धोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रति-गृह्णाति स दह्यतेऽथ हन्यते अथ यदि तस्याकर्त्ता भवतिततएव सत्यमात्मानं कुरुते सत्याभिसन्धः सत्ये नात्मानमन्तर्थाय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथमुच्यते स यथा तत्र नादह्यतैतदात्म्यमिदं सर्वं स आत्मातत्त्वमसि श्वेतकेतो” इति।

६२ तप्तमाषकोद्धरणन्यायः तप्तपरशुग्रहणन्थायविषयेऽस्यप्रवृत्तिः तप्तमाषकग्रहणमपि दिव्यभेदः। तत्रापिअतितप्ततैलादितः सौवणमाषकोद्धरणे शोध्यस्य करेस्फोटाद्यभावे शुद्धिः अन्यथा त्वशुद्धिः।

६३ तुष्यतु दुर्जन इति न्यायः यत्र प्रतिवाद्युक्तपक्षं दुष्ट-मपि वादिना प्रौढिवादेन अङ्गीकृत्यापि दूषणान्त-रस्य दानं तत्रास्य प्रवृत्तिः।

६४ तृणजलौकान्यायः यथा जलौका तृणान्तरमवलम्ब्यैवपूर्वमाश्रितं तृणं त्यजति तथा जीवः स्वाविद्याकाम-कर्मवासमादिभिर्देहान्तरमुत्पाद्यैव पूर्वं देहं त्यजतीतिविवक्षायामस्य प्रवृत्तिः।

६५ तृणारणिमणिन्यायः तार्णवह्निं प्रति तृणस्य, आरणेत्र[Page4164-a+ 38] वर्ह्नि प्रति अरणेः मणिजन्यवह्निं प्रतिमणेश्च कारणत्वंन तु वह्नित्वावच्छिन्नं प्रति तृणादेः कारणत्वं परस्पर-व्यभिचारात्। एवं यत्र कार्य्यकारणभावबाहुल्यं कार्य-तावच्छेदकं कारणतावच्छेदकञ्च नाता तत्रास्य प्रवृत्तिः।

६६ दग्धपत्रन्यायः पत्रस्य दग्धत्वेऽपि यथा पूर्वाकारेणा-वस्थानं गृह्यते एवं यत्र वस्तुनो दाहेऽपि तदाकार-प्रतीतिस्तत्रास्य प्रवृत्तिः एवं दग्धपटन्यायोऽप्येवं विषयः।

६७ दग्धवोजन्यायः दग्धस्य वीजस्य यथा नाङ्गुरोत्पादकताएवमविवेकनाशे न ससारवृक्षपरोह इत्येवं यत्र विवक्षातत्रास्य प्रवृत्तिः।

६८ दण्डचक्रन्यायः दण्डचक्रसूत्रसलिलादेर्यथा घटत्वाद्येक-धर्मावच्छिन्नं प्रति कारणत्वमेवं विवक्षायामस्य प्रवृत्तिः।

६९ दण्डापूपन्यायः दण्डस्याखुना भक्षणे प्रतीते तत्संलग्ना-पूपस्य भक्षणमर्थात् यथा प्रतीयते एवं यत्र दुष्करेकस्मिंश्चिदर्थे कृतऽन्यस्य सुकरस्य कृतत्वमर्थात् सिद्धंप्रतीयते इत्यस्य विवक्षायामस्य प्रवृत्तिः।

७० देवदत्तापुत्रन्यायः पुत्रस्य मातापितृसम्बन्धित्वेऽपि मातुःप्राधान्यविवक्षायां यथा देवदत्तापुत्र इत्युच्यते तथाऽन्यत्रयत्र भातुः प्राधान्यविवक्षा तत्रास्य प्रवृत्तिः। पितुःप्राधान्ये देवदत्तपुत्र इति व्यपदेशः। अतएव यजुर्वेदवंश-कीर्त्तने स्त्रीप्राधान्येनैव निर्देशो यथा
“अथ वंशः तदिदंवयं भारद्वाजीपुत्राद्भारद्वाजीपुत्रो वात्सीमाण्डवीपुत्राद्वात्सीमाण्डवीपुत्रः इत्यादि” शत॰ ब्रा॰

१४ ।

९ ।

४ ।

३० ।

७१ धटारोहणन्यायः धटारोहणं तुलारोहणं दिव्यभेदः। तत्र सत्याभिसन्धस्य शुद्धिः मिथ्याभिसन्धस्याशुद्धिःतथा हि
“तुलितो यदि बर्द्धेत स शुद्धः स्यान्न मंशयः। समावा हीयमानो वा न विशुद्धो भवन्नरः” इत्युक्तदिशाशुद्ध्यशुद्धी ज्ञेये। एवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।

७२ धर्माधर्मग्रहणन्यायः धर्माधर्ममूर्त्तिग्रहणरूपदिव्ये सत्या-भिसन्धस्य यथा धर्ममूर्त्तिग्रहणं मिथ्याभिसन्धस्याधर्ममू-त्तिग्रहणम् ताभ्यां च जयपराजयौ यथा भवतः। एवंयत्र विवक्षा तत्रास्य प्रवृत्तिः। तच्च दिव्यं पितामहेनोक्तंयथा
“राजतं कारयेत् धर्ममधर्मं सीसकायसम्। लि-खद्भूर्जे पटे वापि धर्माधर्मौ सितासितौ। अभ्युक्ष्यषञ्चगव्येन गन्धमाल्यैः सभर्चयेत्। सितपुष्पस्तु धर्मःस्यादधर्माऽसितपुष्पभृत्। एवंविधावथालेख्य पिण्डयोस्तौनिधापयेत्। गोमयेन मृदा वापि पिण्डौ कार्यौ सम-न्वतः। मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ। [Page4164-b+ 38] उपलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ। आवाहयेत्ततो देवाल्लां कपालां श्च पूर्ववत्। धर्मावाहनपूर्वं तुप्रतिज्ञापत्रकं ततः। यदि पापविमुक्तोऽहं धर्मस्त्वायातुमे करे”
“अभियुक्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः। धर्मे गृहीते शुद्धिः स्यादधर्ने तु स हीयते”।

७३ नष्टाश्वदग्धरथन्यायः इत्थं लोकप्रसिद्धिः द्वौ हि रयिनौकञ्चिद्ग्रामं प्रविश्य रथाभ्यामवतीर्य्याश्वां श्च मोचयित्वाखष्ट्वायां निविष्टौ दैवेन तदानीं दन्दह्यमाने तस्मिन्ग्रामे तयोरेकः पश्चादश्वान्निःसारमिष्यामीति धियारथमादौ निःसारितवान् अपरस्त्वश्वान्, तावतातस्मिन्स्थले दग्धे एकस्याश्वानष्ठा द्वितीयस्य रथोदग्धःतौ चान्योन्यापेक्षया एकं रथं कृत्वा यथेष्टदेशं यथाप्रजग्मतुस्तथार्थवादविधिवाक्ये प्रधानाङ्गवाक्ये चेतरेत-राकाङ्क्षयैकवाक्यतां प्राप्य प्रवृत्त्यादिकं जनयतः।

७४ न हि करकङ्कणदर्शनायादर्शापेक्षेति न्यायः यथाप्रत्यक्षयोग्यं करेस्थितं कङ्कणं प्रत्यक्षेणैव गृह्यते न तद्द-र्शनायादर्शापेक्षा एवं प्रत्यक्षसामग्रीसत्त्वे तयैव पदा-र्थप्रतीतिर्नानुमित्यादिसामग्र्यपेक्षेति विवक्षायामस्य प्र-वृत्तिः
“न हि करिणि दृष्टे चीत्कारेण तमनुमि-मतेऽनुमातारः” वाचस्पत्युक्तमेतन्यायमूलकम्। अनुमि-त्सायां तु तदपेक्षा
“प्रत्यक्षपरिकलितमप्यर्थमनुमानेनबुभुत्सन्ते तर्करसिकाः” इति वाचस्पत्युक्तेः।

७५ न हि त्रिपुत्रोद्विपुत्रः कथ्यते इति न्यायः त्रित्वस्य द्वि-त्वव्यापककत्वेऽपि वाक्यस्य सावधारणत्वात् पुत्रत्रयवतःपुत्रद्वयवत्त्वेऽपि न तस्य द्विपुत्रशब्दवाच्यता न्यूनसख्याव्यवच्छेदकत्वेन त्रिशब्दस्य न यथा द्विपुत्रवाचकतेत्येवंयत्र विवक्षा तत्रास्य प्रवृत्तिः।

७६ न हि दृष्टेऽनुपपन्नं नामेति न्यायः न प्रत्यक्षविषयेप्रमाणान्तरान्वेषणमिति यत्र विबक्षा तत्रास्य प्रवृत्तिःतथा हि प्रत्यक्षस्य सर्वप्रमाणबाधकत्वात् अनुपपत्ते-रर्थापत्तिरूपतया व्यभिरेकानुमितिरूपतया वा प्रत्यक्षेणबाध्यत्वात् प्रत्यक्षविषये विरोधिन्या अनुपपत्तेर्नसम्भवः।

७७ नहि निन्दा निन्द्यं निन्दितुं प्रवर्त्तते किन्तु विधेयंस्तोतुमिति न्यायः निन्दार्थवादस्य तदितरत्र प्राशस्त्य-विधानार्थमेव प्रवृत्तिर्न तु तस्य निन्दार्थं निन्दायां प्रयो-जनाभावादित्येवं मीमांसायां लोके च प्रसिद्धम्।

७८ निम्नगाप्रवाहन्यायः नदीप्रवाहो हि यां दिशं स्वभा-वतो गच्छति ततोऽन्यत्र तस्य नयने महाप्रयासेऽपि न[Page4165-a+ 38] सम्भव एवं जन्मान्तरीयसंस्कारवशाद्यस्मिन्नीशविग्रहेध्यान्याद्यात्मकचिवृत्तिप्रवाहस्ततोऽन्यत्र नयने महा-यत्नस्यापि वैफल्यम् इत्येवं बिवक्षायामस्य प्रवृत्तिः

७९ नृपनापितन्यायः इत्थं हि लौकिकी गाथा कस्यचिन्नृ-पस्य भृत्यो नापितः कश्चित्, प्रातः समस्तनगरमन्विष्या-तिरमणीयतमो बालो मे दर्शनाय त्वयानेतव्य इति,नृपेणाज्ञप्नः प्रातरुत्थाय सर्वं पुरमन्विष्य दृष्ट्वापि च तत्रतत्रातिरमणीयतमान्वालान् स्वपुत्रतुल्यानमत्वा तमेवराजवेश्मनि नीत्वा निवेदयामास स्वामिन्नानीतोऽयंद्वितीय इव रतिपतिरतिमनोज्ञाकृतिर्बाल इति राजाच तमुपशान्तानलाङ्गाराभं खल्वाटकाणं स्थूललम्बो-दरं कृशह्रस्वबाहुजङ्घमालोक्य उपहासमयं मे खलु कृत-वानिति मत्वा चुकोप उवाच च अरे जाल्म किमिद-मुपहसनं क्रयते इति। नापितश्च कूपितं नृपं ज्ञात्वाकृताञ्जलिर्भूत्वोवाच राजेन्द्रमौले! तव चरणमुपालभेनायमुपहासः किन्तु मे मनसीत्थमेव निश्चयो नास्त्ये-तादृशस्त्रिलोक्यां तव पुर्य्यां तु का कथेति राजा चसत्यमेतादृश्येव स्नेहातिशयवशंवदस्य चित्तस्य दशेतिमत्वा कोपं तत्याजेति। तथा च यथाऽतिकुरूपेऽपिपुत्रे रागातिशयवशान्नापितस्य सर्वोतमत्वधीस्तथा भन्द-धियां केषाञ्चिज्जन्मान्तरीयसंस्कारप्रयुक्तरागातिशयवशात्कणिश्चिदतिक्षुद्रेऽपि देवे सर्वोत्तमत्वधीः परित्यज्य चहरिहरादींस्तदुपासने प्रवृत्तिरित्येवं विषयेऽस्य प्रवृत्तिः

८० पङ्कप्रक्षालनन्यायः
“प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनंवरम्” इत्युक्तदिशा पङ्कलेपने प्रक्षालनमपेक्ष्य पङ्क-स्पर्शनमेव न कर्त्तव्यमिति लोकप्रसिद्धिवदन्यत्रापि अनि-ष्टसाथनस्य कारणान्तरेण निवारणमपेक्ष्य अनिष्टसाधन-मेव न कर्त्तव्यमिति यत्र विवक्षा तत्रास्य प्रवृत्तिः।

८१ पञ्जरचालनन्यायः यथा दशभिः पञ्जरस्थपक्षिभिःस्वस्वयत्नैरेकां पञ्जरे क्रियामुत्प द्य तस्य चालनं तिर्य्यगूर्द्ध्वनयनं च क्रियते तथा दशभिरिन्द्रियैरेकां प्राणनरूपांक्रियामुत्पाद्य देहचालनं क्रियते इति सांख्ये स्थितम्।

८२ पञ्जरमुक्तपक्षिन्यायः पञ्जरस्था विहगामुक्ता यथेष्टमुत्-प्लुत्य यथा देशान्तरं गच्छन्ति तथा जीवः बन्धनान्मुक्तऊर्द्ध्वाकाशे तिष्ठतीति जैनमते स्थितम्।

८३ पाषाणेष्टकान्यायः यथा तूलादपेक्षया कठिनाया अपिइष्टकायाः पाषाणापेक्षयामृदुत्वम् एवं यत्र विवक्षातत्रास्य प्रवृत्तिः। [Page4165-b+ 38]

८४ पिष्टपेषणन्यायः पिष्टस्य पुनःपेषणं यथा निरर्थकम्एवं कृतस्य करणं वृथेति विवक्षायामस्य प्रवृत्तिः। तथा-चोक्तं
“कृतस्य करणं नास्तीति”।

८५ पुत्रलिप्सया देवं भजन्त्या भर्त्तापि नष्ट इति न्यायःअभीष्टान्तराशया व्यापारवतस्तन्मूलं यत्र नश्यतितत्रास्य प्रवृत्तिः तथा च वृद्धिमिष्टवतोमूलं विनष्टमितिन्यायविषयेऽस्य प्रवृत्तिः।

८६ प्रपाणकन्यायः सितादिनानाद्रव्यैर्मिलितैर्यथा एको-ऽद्भुतरसोनिष्पाद्यते तथा यत्र अनेकसाधनैश्चित्ररूपःपदार्थो जायते तत्रास्य प्रवृत्तिः। यथा विभावानुभावा-दिभिः शृङ्गारादिरसाभिव्यक्तिः एवमन्यत्रापि!

८७ पासादवासिन्यायः एक एव देवदत्तः प्रासादस्योपर्य्य-धस्ताच्च कालभेदेन वसन्नषि प्रासादवासप्राधान्ये प्रासा-दवासीत्युच्यते तथाऽन्यस्य प्राधान्यधर्मेण व्यपदेशविवक्षायामस्य प्रवृत्तिः।

८८ फलवत्सहकारन्यायः यथातिमधुरपक्वफलनमिनशा-खोऽतिसौरभ आम्रवृक्षः स्वमुपसन्नं छायार्थिनं जनंफलं परिमल चाप्रार्थितमपि ददातीति तथा विवक्षा-यामस्य प्रवृत्तिः।

८९ वहुराजपुरन्यायः एकस्मिन् पुरे यदा वहवो राजान-स्तदा तेषामैकमत्याभावेन यथा प्रजानां क्लेशस्तथा एक-स्मिन् देहे नानेन्द्रियाणां कर्तृत्वे स्वीकृते मिथोविरोधा-न्नैकमपि सिध्येत्। तथा हि यदा चक्षुर्दशैनाय प्रवर्त्तमानं भवति तदा अन्यानि च इन्दियाणि स्वस्वक्रिया-निर्वाहोद्यतानि भवन्ति चेत्तदा दर्शनादि नैकमपि नजायते एवं विवक्षायामस्य प्रचारः।

९० बहुवृकाकृष्टमृगन्यायः यथा तुल्यबलैः वहुभिर्वृकैराकृष्टस्यमृगस्य न नियतैकत्र स्थितिरेवं यत्र बहूनां परस्पर-विरोधस्तत्र नैकस्य स्थिरतेत्येवं विषयेऽस्य प्रवृत्तिः।

९१ बहूनामनुग्रहोनाय्य इति न्यायः अनुग्रहः साहार्य्यन्याय्यः न्यायान्नीतेरनपेतोऽर्थस्ततदुपेतः कार्य्यसाधकइति यावत् यथाहुः
“बहूनामप्यसाराणां मेलनंकार्य्यसाधकम्। तृणैः संपाद्यते रज्जुस्तया नागोऽपिबध्यते” इति तथा विवक्षायामस्य प्रवृत्तिः।

९२ बिलवर्त्तिगोधान्यायः बिले गर्त्ते वर्त्तमानायाः गोधायाविभजनं विभाजकधर्मेण निर्देशो यथा न सम्भवति तस्यअदृष्टत्वादेवमज्ञातपरसिद्धान्तस्य तद्दूषणाय प्रवृत्ति-र्भवतीत्येवं विवक्षायामस्य प्रवृत्तिः। [Page4166-a+ 38]

९३ ब्राह्मणग्रामन्यायः यथा ग्रामे अन्येषु वर्णेषु वसत्स्वषिब्राह्माणानां बाहुल्ये ब्राह्मणग्राम इत्युच्यते एवंविवाक्षायामस्य प्रवृत्तिः। एवं मल्लग्रामन्यायादयो-ऽपि प्राधान्यविवक्षायां
“प्रधान्येन व्यपदेशा भवन्तीति” न्यायविषये प्रवर्त्तन्ते

९४ ब्राह्मणश्रमणन्यायः श्रमणो वौद्धयतिः तस्याशास्त्रीय-विधिना त्यक्तशिखासूत्रकच्छादेस्त्यक्तनित्यादिकर्मणश्चतदानीं ब्राह्मणत्वाभावेऽपि यथाभूतपूर्वेण ब्राह्मणत्वेननिर्देशस्तथा यत्र भूतपूर्वगत्या निर्देशस्तत्रास्य प्रवृत्तिः।

९५ भिक्षुपादप्रसारणन्यायः यथा कश्चिद्भिक्षुर्यथेष्टभोजनाच्छाद-नवासगृहादिलाभार्थं कस्यचिद्धनिनो गृहे प्रविश्य युग-वत् सर्वाभीष्टालाभं मन्यमानः प्रथमं धनिगृहे मे पादप्र-सारणमस्तु पश्चादनेन परिचयमुत्पाद्य सर्वं स्वाभीष्टं संपा-दयिष्यामीति धिया स्वल्पामपि भिक्षां बहु मन्यमानःपश्चात् क्रमेण स्वाभीष्टं सम्पादयति एवं यत्र विवक्षातत्रास्य प्रवृत्तिः।

९६ मज्जनोन्मज्जनन्यायः यथा नद्यादौ पतितः सन्तरणान-मिज्ञः कदाचिन्मज्जति कदाचिदुन्मज्जति। एवं दुष्ट-वादिना स्वपक्षसमर्थनाय यतमानेन प्रवलयुक्तिमनासाद्यक्लिश्यते इति यत्र विवक्षा तत्रास्य प्रवृत्तिः।

९७ मणिमन्त्रन्यायः मणिमन्त्रादीनां वह्नेर्दाहं प्रति यथास्वातन्त्र्येण प्रतिवन्धकत्वम् लोकसिद्धम् न च तत्र युक्त्य-पेक्षा एवं कामिनीजिज्ञासाया अपि ज्ञानमात्रं प्रति-प्रतिबन्धकत्वमित्येवं यत्र पृथक् प्रतिबन्धकत्वं तत्रास्यप्रवृत्तिः।

९८ मण्डूकतोलनन्यायः केनचित् कापटिकषणिजा स्वाभी-ष्टमानपूरणार्थं मण्डूकेषु मेयद्रव्यसहकारेण तुलामारो-पितेषु मध्ये कतिचिदुत्प्लुतत्य यदा पलायन्ते तदातस्य यथा कपटव्यक्तिर्भवति एवं यत्र विवक्षा तत्रास्यप्रवृत्तिः।

९९ मरणाद्वरं व्याधिरितिन्यायः वरमिति सामान्येनक्लीवम। अत्यन्तदुःखजनकविषयोपस्थितौ यथा तदपे-क्षयाऽल्पदुःखजनकस्वीकारो तथा विवक्षायामस्य प्र-वृत्तिः। अत्रैव विषये
“मारणाय गृहीतोऽङ्गच्छेदंस्वीकरोतीति, न्यायोऽपि प्रवर्त्तते
“सर्वनाशे समुत्पन्नेअर्द्धं त्यजति पण्डितः” इति सर्वजनीनप्रसिद्धेः।

१०

० मुञ्जादिषोकोद्धरणन्यायः मुञ्जादेतन्नामकतृणविशेषादि-पीका गर्भस्थं कोमलं तृणम्। वहिरावरकतया स्थि-[Page4166-b+ 38] तानां स्थ्लतृणानां मुञ्जाख्यानां विभजनेन यथेषीकासमुद्ध्रियते तथा यत्र विवक्षा तत्रास्य प्रचारः।

१०

१ यत्कृतकं तदनित्यमिति न्यायः कृतकं कार्यं जन्यभावइति यावत् तथा च कार्य्यभावस्य उत्पत्तेः प्रागसत्त्वेनप्रागभावप्रतियोगित्वात् न प्रागभावाप्रतियोगित्वघटित-नित्यत्वम्। ध्वंसस्य प्रागभावप्रतियोगित्वेऽपि भावत्वा-भावात् न व्यभिचार इति तार्किकाः। वेदान्तिमतेतु ध्वंसस्यापि नाशाभ्युपगमेन न भावत्वं विशेषणीय-मिति भेदः।

१०

२ यत्रोभयोः समोदोषो न तत्रैकोऽनुयोज्य इति न्यायःवादिप्रतिवादिभ्यां न्यस्तपक्षयोर्यत्र तुल्योदोषो न तत्रएकः पर्य्यनुयोज्यः स्वपक्षेऽपि तद्दोषसत्त्वात् इत्येवं यत्रविवक्षा तत्रास्य प्रवृत्तिः
“यत्रोभयोः समोदोषः परिहा-रोऽपि वा समः। नैकः पर्य्यनुयोक्तव्यस्तादृशार्थविचा-रणे” इति सां॰ प्र॰ भा॰ धृतवाक्यम्।

१०

३ यद्विशेषयाः कार्यकारणभावोऽसति वाधके तत्सामा-न्ययोरपीति न्यायः यथा तार्किकाणां घटत्वकुलाल-कृतित्वादिना कार्यकारणभावे सिद्धे कार्य्यत्वेन कृतित्वेन च कार्यकारणभावः नतु कुलालकृतेर्जातित्वेन द्रव्यत्वेनघटादिकं प्रति कारणत्वं तथात्वे तयोरन्यथासिद्धत्वेना-कारणत्वं स्यात् कारणतां प्रति अन्यथासिद्धेर्बाधकत्वात्अतएव न द्रव्यत्वेन दण्डादेर्घटादिं प्रति, कारणत्वंनापीन्द्रियत्वेन प्रत्यक्षत्वावच्छिन्नं प्रति, इन्द्रियत्वस्यैक-स्याभावदिति”

१०

४ यादृशं मुखं तादृशी चपेटेति न्यायः तुल्यरूपपरिहारविवक्षायामस्य प्रवृत्तिः।

१०

५ यादृशो यक्षस्तादृशो वलिरिति न्यायः तुल्यरूपोपहार विवक्षायामस्य प्रवृत्तिः।

१०

६ येनोक्रम्यते येन चोपसंह्रियते स वाक्यार्थ इति न्यायःयथा गिरिरग्निमान् इति प्रतिज्ञावाक्येन पवतस्यैवो-पक्रमः तस्माद्वह्निवानिति निगमनवाक्येऽपि गिरेरेववह्निमत्त्वेन बोधात् सएव वाक्यार्थएवमन्यत्रापि।

१०

७ योजनप्राप्यायां कावेर्य्यां मल्वबन्धनमिति न्यायः कावेरीनदीविशेषः मल्लः कैवर्त्तभेदस्तद्वेशः वस्त्रभेदस्य बन्धनं यद्वामल्लो बाहुयुद्धकुशलस्तद्वद्बन्धोलम्बितवाससां कटौ बन्धनंमल्लबन्धनं तच्च नदीतारणाय कार्यमिति लोकप्रसिद्धम्। तद्यथा योजनमार्गेण प्राप्यायां तस्यामयुक्तं तथा यत्रविवक्षा तत्रास्य प्रचारः।

१०

८ रक्तपटन्यायः यदा तु निराकाङ्क्षेऽपि वाक्ये आकाङ्क्षा-[Page4167-a+ 38] मुत्थाप्यैकवाक्यता क्रियते तदा रक्तपटन्यायप्रवृत्तिःयथा पटोऽस्तीति वाक्यस्य निराकाङ्क्षस्यापि कीदृश इत्या-काङ्क्षामुत्थाप्य रक्त इत्यनेनैकवाक्यता क्रियते तथा प्रकृ-तीनां दर्शपूर्णमासादीनां स्वपकरणस्थाङ्गैर्निवृत्तोपका-राकाङ्क्षाणामनारभ्याधीताङ्गैः, विकृतीनां चातिदिष्टाङ्गैःपरिपूर्णानां शरमयादिभिः सहोत्थिताकाङ्क्षाविरहेऽप्यु-त्थापिताकाङ्क्षयान्वय इत्येवं विषयेऽस्य प्रचारः।

१०

९ राजपुरप्रवेशन्यायः विशृङ्खलतया राजपुरप्रवेशे राज-पुररक्षकैस्ताडनादिकं क्रियेतेतिभिया श्रेणीभूततया यथातत्पुरप्रवेश एवं सुशृङ्खलतया यत्र कार्यकरणस्य विवक्षातत्रास्य प्रवृत्तिः।

११

० लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिरिति न्यायः सजातीयविजातीयव्यावर्त्तको लक्ष्यवस्तुगतः कश्चिल्लौके वेदे वाप्रसिद्धो धर्मः लक्षणं तेन लक्ष्ये वस्तुनि सम्भावनायांजातायां प्रमातुमुद्युक्तः प्रमाणेन तदवगच्छति यथाताभ्यां वस्तुसिद्धिस्तत्तद्व्यवहारयोग्यतया ज्ञानं, तथाच यथा गन्धवत्त्वादिलक्षणेन प्रत्यक्षादिप्रमाणेन च पृथि-व्यादिसिद्धिस्तथा यत्र विवक्षा तत्रास्य प्रवृत्तिः।

११

१ लूतातन्तुन्यायः लूता कीटविशेषः सा यथा स्वदेहात्तन्तून् निर्माति संहरति च स्वदेहे, यथा च तस्याःस्वतः तन्तुनिर्माणे स्वतः निमित्तकारणत्वरूपकर्तृत्वं,स्वदेहापेक्षया उपादानकारणत्वम् एवं ब्रह्मणः जगतांस्वतः कर्तृत्वं, स्वशक्तिमायाद्वारा उपादानत्वं च एवञ्चजगत् स्वशक्त्या निर्माति स्वशक्तौ संहरति च इत्येवंविंवक्षायामस्य प्रवृत्तिः।

११

२ लोष्टलगुडन्यायः लोष्टस्य उपमर्दकः लगुडो यथा, तथाउपमर्द्योपमर्दकयोः साचिष्यविवक्षायामस्य प्रवृत्तिः।

११

३ लोहचुम्बकन्यायः चुम्बकः मणिभेदः स यथा निष्क्रि-योऽपि सन्निधिमात्रेण लौहस्याकर्षकः तत्क्रियाहेतुश्चभवति एवमसङ्गस्याकर्तुरपि पुरुषस्य प्रकृत्यादिक्रिया-प्रवर्त्तकत्वमित्यादि यत्र विवक्षा तत्रास्य प्रवृत्तिः।

११

४ वरगोष्ठीन्यायः गोष्ठी बधूवरपक्षयोः अन्योन्यवार्त्तावरस्य वरलाभाय गोष्ठी वरगोष्ठो वरबधूवन्धूनामन्योन्य-गोष्ठी तया ऐकमत्ये सति वरलाभरूपमेकं कार्यं यथानिष्पाद्यते एवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।

११

५ वरघाताय कन्{??}बरणमिति न्यायः विषकन्यायां वृतायांयत्र वरस्य घातः सम्भाव्यते तत्र तां नोद्वहेत् एवं विव-क्षायामस्य प्रवृत्तिः। तथा च अनिष्ठान्तरपातादिसम्भा-[Page4167-b+ 38] वनायाम् अभीष्टहेतुरपि वस्तु न वरणीयमित्येवं तन्न्यायतात्पर्य्यम्। अयमेव न्यायः क्वचित्
“नहि वरघातायकन्यामुद्वाहयतीति” न्यायतया पठ्यते।

११

६ वह्निधूमन्यायः धूमरूपकार्यदर्शनात् यथा कारणरूपवह्नेरनुमानं तथा यत्र कार्यलिङ्गेन कारणानुमानंतत्रास्य प्रवृत्तिः।

११

७ विल्लखल्लाटन्यायः अयं न्यायः श्लोकेनाभियुक्तैर्नि-बद्धो यथा
“खल्वाटो दिवसेश्वरस्य किरणैः सन्ता-पितो मस्तके वाञ्छन् देशमनातपं विधिवशाद्विल्वस्य मूल-ङ्गतः। तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरःप्रायोगच्छति यत्र भाग्यरहितस्तत्रापदां भाजनमिति”। तथा च इष्टान्तरं समीहमानस्याभीष्टप्राप्तिर्दूरतःप्रत्यु-तानिष्टप्राप्तिरित्येवं यत्र विवक्षा तत्रास्य प्रवृत्तिः।

११

८ विशेष्ये विशेषणं तत्रापि च विशेषणमिति न्यायः भूतलंजलवद्घटवदित्यादौ भूतले घटोविशेषणं स च भूतलांशेविशेषणमितिरोत्या यत्र भासते तत्रास्य प्रवृत्तिः।

११

९ विषभक्षणत्यायः विषभक्षणं दिव्यभेदः। तस्य यथासत्याभिसन्धस्यानिष्टामुत्पादकत्वम् मिथ्याभिसन्धस्या-निष्टहेतुत्वमेवं यत्र विवक्षा तत्रास्य प्रवृत्तिः। तत्व-कारमाह नारदः
“दद्याद्विषं सोपबासो देवब्राह्मस-न्निधौ। घूपोपहारमन्त्रैश्च पूजयित्वा महेश्वरम्। द्विजानां सन्निधावेव दक्षिणाभिमुखे स्थिते। उदङ्तुखःप्राङ्मुखो वा विषं दद्यात् समाहितः” इति। विषञ्चवत्सानाभादि ग्राह्यम्
“शृङ्गिणो दृत्सनाभस्य हिमजस्यविषस्य च” इति पितामहस्मृतेः। शुद्धत्वाशुद्धत्वपरीक्षातु याज्ञवल्क्येनोक्ता
“यस्य वेगैर्विना जीर्येच्छुद्धिं तस्यविनिर्दिशेत्” इति। विषवेगो नाम धातोर्धात्वन्तरप्राप्तिः
“धातोर्धात्वन्तरं प्राप्तिर्विषवेग इति स्मृतः” इति वचनात्तेषां लक्षणानि तु विषतन्त्राद्बोध्यानि।
“पूर्वाह्णेशीतले देशे विषं देयं तु देहिनाम्। घृतेन योजितंश्लक्ष्णं पिष्टं त्रिंशद्गुणान्वितम्” इति पितामहोक्तमितंदेयम्। तथा च एबं विषे पीते यावत्करतालिकाशत-पञ्चकं तावत्कालः प्रतीक्षणीयः अनन्तरं चिकित्सनीयः
“पञ्चतालशतं कालं निर्विकारो यदा भवेत्। तदा भवतिसंशुद्धस्ततः कुर्य्यात् चिकित्सितम्” इति वचनात् यदातु सविकारस्तदाऽशुद्ध इत्यर्थात् सिद्धम्।

१२

० विषवृक्षन्यायः अन्थोवृक्षस्तावदास्तां विषस्य वृक्षोऽपिकुतश्चित्कारणात् सम्यग्बर्द्धयित्वा स्वयं छेतुमनर्हः[Page4168-a+ 38] इति न्यायार्थः एवं स्वार्जितस्यानिकृष्टस्यापि स्वयंनाशन-नयुक्तमिति विवक्षायामस्य प्रवृत्तिः।

१२

१ वीचितरङ्गन्यायः यथा वीच्यान्तरङ्गान्तरमुत्पद्यते तेनच पुनस्तरङ्गाररित्येवं यत्र परम्परया उत्पत्तिस्तत्रास्यप्रवृत्तिः
“वीचितरङ्गन्यायेन तदुत्पत्तिस्तु कीर्त्तिता” भाषा॰
“प्रथमशब्देन बहिर्दिगवच्छिन्नोऽन्यः शब्दस्तेनैवचान्यः शब्दो जन्यते तेन चान्यस्तद्व्यापकः एवं क्रमेणश्रोत्रोत्पन्नो गृह्यते” सि॰ मुक्ता॰।

१२

२ वीजाङ्कुरन्यायः वीजं विना नाङ्कुरो जायते अङ्कुरंविना च न वीजोत्पत्तिः इत्येवं यत्र परस्परकार्य्यकार-णभावस्तत्रायं न्यायः प्रवर्त्तते तथा च वीजजातीयं प्रतिअङ्कुरजातीयं, अङ्कुरजातीयं प्रति च बीजजातीयं कारणमतो वीजाङ्कुरप्रवाहोऽनादिः तथा च यद्वीजं प्रतियदङ्कुरस्य कारणत्वं तदङ्कुरं प्रति तद्वीजस्य न कारण-त्वमतो नान्योल्य श्रयः एष च प्रामाणिकत्वात् गृह्यतेयत्र च न प्रामाणिकत्व तत्र नानादित्वकल्पनेति प्रामा-णिकप्रवाहस्यैवानादित्वकल्पना नान्यस्येति सिद्धान्तात्सूचितं च तथा शा॰ भा॰ यथा
“तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् न शरी-रसम्बन्धस्यासिद्धत्वाद्धर्माधर्मयोरात्मकृतत्वासिद्धेः। शरी-रसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रस-ङ्गादन्धपरम्परैवैषा अनादित्वकल्पना” भा॰
“आत्मनः श-रीरसम्बन्धे जाते धर्माधर्मोत्पत्तिः तस्यां च सत्यां सम्बन्ध-रूपजन्मेत्यन्योन्याश्रयादेकस्यासिद्ध्या द्वितीयस्यासिद्धिःस्यादिति परिहरति नेत्यादिना नन्वेतद्देहजन्यधर्मा-धर्मकर्मण एतद्देहसम्बन्धहेतुत्वे स्यादन्योन्याश्रयःपूर्वदेहकर्मण एतद्देहसम्बन्धोत्पत्तिः, पूर्वदेहश्च तत्पूर्व-देहकर्मणः तद्देहसम्बन्धोत्पत्तिः, तत्पूर्वदेहश्च तत्पूर्वदे-हकृतकर्मण इति वीजाङ्कुरवदनादित्वान्नायं दोष इत्यतआह अन्धेति अप्रमाणिकीत्यर्थ। न हि वीजादङ्कुरःततो वीजान्तरञ्च यथा प्रत्यक्षेण दृश्यते तथात्मनो देह-सम्बन्धः पूर्वकर्मकृतः प्रत्यक्षः नाप्यस्ति कश्चिदागमःप्रत्युतासङ्गो हीत्यादि श्रुतिः सर्वकर्तृत्वं वारयतीतिभावः” आनन्दगिरिणा।

१२

३ वृक्षप्रकम्पनन्यायः यथा वृक्षमारूडः अधःस्थेन केन-चिद नरेण प्रथममिय शाखा प्रकत्प्रयितव्या अन्येनच प्रथममिय शाखा प्रकम्बयितव्येति भिन्नगिन्नशाखाप्रकम्पने नियोजितस्तदधःस्थेनैव केनचित् सर्ववृक्षप्रकम्पने[Page4168-b+ 38] नियोजितः सन् सर्वैः प्रथमशाखाविशेषप्रकम्पनस्याज्ञप्त-त्वेन यौगपद्यस्यासम्भवेन क्रमविकल्पोपगमेऽपि सर्वा-विरोधासिद्धेः तच्चिकीर्षया सर्वं वृक्षं प्रकम्पयति तत्-प्रकम्पनेन हि सर्वाः शाखा अपि प्रकम्पिताः स्युरितिभवति सर्वैरविरोधः एवं यत्र सर्वाविरोधेनाचरणंतत्रास्य प्रवृत्तिः।

१२

४ वृद्धकुमारीवाक्यन्यायः अयं न्यायो महाभाष्ये व्या-ख्यातः
“तद्यथा वृद्धकुमारी इन्द्रेणोक्ता वरं वृणीष्वेतिसा च वरमवृणीत पुत्रा मे बहुक्षीरघृतमोदनं काञ्चनपात्र्यां भुञ्जीरन्निति न च तावटस्याः पतिर्भवति कुतःपुत्राः कुतो गावः कुतो धान्यादिकं तत्रानया एकेनवाक्येन पतिः पुत्रा गावो धान्यं हिरण्यञ्चेति सर्वंसंगृहीतं भवतीति तथा तत्तदुपासनया मोक्षप्रतिपा-दकवाक्यैरपि चित्तशमादिश्रवणादिसाधनसहिततत्त्वज्ञानंच यदन्तरेण मोक्षासिद्धिस्तत्सर्वं संगृहीतं भवतीतिएवमेकवाक्यैर्यत्र नानार्थप्रतिपादनं तत्रास्य प्रवृत्तिःअयं च वृद्धमारीवरन्यायः इति क्वचित् पठ्यते।

१२

५ वृद्धिमिष्टवतो मूलमपि विनष्टमिति न्यायः वृद्धिर्धन-प्रयोगे अधर्मर्णात् प्राप्यांशभेदलाभः तामिष्टवतः उत्तम-र्णस्य अधमर्णदौष्ट्यात् यथा मूलं नश्यति एवं यत्रअभीष्टान्तरमम्पादानाय प्रयतमानस्य मूलं नश्यति तत्रास्यप्रवृत्तिः।

१२

६ शङ्खवेलान्यायः वेलाविशेषे शङ्खध्वनिविशेषः यत्र निय-मितः तत्र शङ्खध्वनिना वेलाविशेषज्ञानं यथा जायतेतथा यत्र विवक्षा तत्रास्य प्रवृत्तिः। यथा चैत्रोत्तरंवैशाखः वैशाखोत्तरं ज्यैष्ठ इति क्रमविशेषज्ञानं शङ्ख-वेलान्यायादिति म॰ त॰ रघु॰।

१२

७ शतपत्रपत्रभेदनन्यायः यथा सूच्या शतपत्रभेदने काल-यौगपद्यप्रतीतिर्भ्रमः तथा हि प्रथमक्षणे सूचीक्रिययातस्याः पत्रेण संयोगः द्वितीये षत्रावयवयोः क्रियातृतीये तयोर्विभागः तुरीये आरम्भसंवोगनाशः पञ्चमेपत्रनाश इति प्रतिपत्रभेदने बहुक्षणविलम्वस्य युक्ति-सिद्धत्वात् तथा दीर्घशष्कुल्यादिभक्षणादौ रांसनादि-ज्ञानानां यौगपद्यप्रतीतिर्भ्रम इति एवं क्रमण जाय-मानायां यौगपद्यभ्रमो यत्र विवक्ष्यते तत्रास्य प्रवृत्तिः।

१२

८ शते पञ्चाशदिति न्यायः व्यापकशतसंख्यायां यथाव्याप्यपञ्चाशत्संख्या निविष्टा एवं यत्र{??}पके व्याप्यस्यनिवेशस्तत्रास्य प्रवृत्तिः। [Page4169-a+ 38]

१२

९ शालिसम्पत्तौ कोद्रवाशनन्यायः शालिः उत्तमधान्यभेदःकोद्रवः अधमधान्यभेदः उत्तमवस्तुसद्भावे यत्राधम-वस्तुसेवनं तत्रास्य प्रवृत्तिः।

१३

० श्यामरक्तन्यायः घटादौ श्यामगुणनाशे यथा रक्त-गुणोत्पत्तिरेवं यत्र पूर्वगुणनाशे अपरगुणसमावेशस्त-त्रास्य प्रवृत्तिः।

१३

१ श्यालशुनकन्यायः इत्थं लौकिक्याख्यायिका कश्चित्-पुरुषः स्वगृहे वर्त्तमाने शुनि श्यालनामसङ्केतं कृतवान्सुग्धा च तद्भार्या तं भ्रातरं मन्यते स्म स च यदा तस्याःकोपोत्पादनाय तं श्वानं प्रति गालीर्ददाति स्म तदा साति-कोपपरीतात्मीयतयाऽतिदुःखवती बभूवेति तथा च स्वाभ्रा-तरि शुनके भ्रातृताभ्रान्तिमत्या भार्य्यायाः कोपोत्पादनायभर्त्त्रा शुनकनिन्द्रा क्रियते तथात्यन्ताभिन्नेऽपि तत्तद्विग्र-हावच्छिन्ने परमेश्वरे भेदभ्रमवतां कोपोत्पादनाय शा-स्त्रेण तदिष्टविग्रहावच्छिन्नपरमेश्वरनिन्दाव्याजेनेतर-विग्रहावच्छिन्नेशस्तुतिः क्रियते इति केचित्। वस्तुतस्तुयथा श्यालगालिप्रदाने वक्तृतात्पर्य्याभावेऽपि श्या-लैक्येन तात्पर्यभ्रमात्तस्याः कोपोत्पादस्तथा शास्त्रस्यब्रह्मविष्ण्वाद्यपकर्षे तात्पर्य्यभावेऽपि तेषां सूत्रविराडादि-नामसाम्येन तात्पर्य्यभ्रमवतां कोपादिः। इयांस्तुविशेषो यत्तस्य कुपितप्रियामुखावलोकनाय प्रवृत्तिःशास्त्रस्य तु मारणाय गृहीत इति न्यायेन कथञ्चिदै-क्यबोधनायेति भेदः।

१२

२ सन्दंशपतितन्यायः संदशः। (सां डाशी) इति यस्यप्रसिद्धिः तेन स्वावयवयोर्मध्यपातिनः पदार्थस्य यथाग्रहणम् एवं पूर्वोत्तरयोः पदार्थयोर्ग्रहणेन तन्म-ध्यस्थपदार्थस्य ग्रहणं यत्र विवक्ष्यते तत्रास्य प्रवृत्तिः।

१३

३ सन्निहितादपि व्यवहितं साकाङ्क्षं बलीय इति न्यायःशाब्दबोधयोग्यतया साकाङ्क्षस्य स्वार्थान्वयबोध प्रयो-जकतेति नियमेन तस्य चासत्तिक्रममनादृत्य अन्वययोग्यपदार्थवाचकशब्दस्य व्यवहितत्वेऽपि आसत्तिं पृकल्प्ययथा काव्यादावन्वयः एवं यत्रं साकाङ्क्षकत्वं तत्रैव त-स्यान्वय इति यत्र विवक्षा तत्रास्य प्रवृत्ति।

१३

४ सन्निहिते बुद्धिरन्तरङ्गमिति न्यायः सन्निकृष्टविप्रकृष्ट-योर्यत्रोभयोरन्वयसम्भावना तत्र सन्निहितस्यैव आसत्तिबलादन्वयः न विप्रकृष्टस्येत्येवं विवक्षायामस्य प्रवृत्तिः।

१३

५ समूहालम्बनन्यायः यत्र उपस्थितपदार्थानां विशे-षणविशेष्यभावेनान्वयासम्भवः तत्र उपस्थितपदार्थानां[Page4169-b+ 38] समूहमालम्ब्यैव बोधः यथा घटः पटश्च इत्यादौ घटपटयोरुभयोरेव विशेष्यता। सभूहालम्बनबोधे च विशे-ष्यताद्वयम् संशये तु एका विशेष्यतेति भेदः।

१३

६ सम्भवत्येकवाक्यत्वे वाक्यभेदो न चेष्यते इति न्यायःपशुना यजेतेत्यादौ यागे एकत्वविशिष्टपशुकरणकत्वंविधेयं न तु पशौ एकत्वं यागे च पशुकरणकत्वमित्येवंविधेयद्वयम्। एवमन्यत्रापि।

१३

७ सर्वं विशेषणं सावधारणमिति न्यायः यथा श्वेतःशङ्ख इत्यादौ श्वेत एवेत्यर्थपरत्वमेवन्यत्रापि।

१३

८ सर्वं वाक्यं सावधारणमिति न्यायः अवधारणवाचकस्या-भावे यत्रावधारणं प्रतीयते तत्रास्य पवृत्तिः। एवका-रादिसत्त्वे तु तस्यैवावधारणवाचकत्वम् न तत्रास्य प्रवृत्तिः।

१३

९ सर्वापेक्षान्यायः बहुषु निमन्त्रितेषु एकस्मिन् आगतेऽपि यथा न तस्मै भोजनं दीयते अपेक्षते च सर्वान्एवं यत्र सर्वापेक्षा तत्रास्य प्रवृत्तिः।

१४

० सविशेषणे हि वर्त्तमानौ विधिनिशेधौ विशेषणमुपसं-क्रामतः सति विशेष्ये बाधे इति न्यायः यथा घटा-काशमानय न मण्याकाशमित्यानयनविषयौ विधिनिषेधौविशेष्ये आकाशे वाधाद्घटादिरूपं विशेषणमुपसंक्राम-तस्तथा यत्र विवक्षा तत्रास्य प्रचारः। न च निषे-धस्य कथं बाधः तस्य प्रसक्तिपूर्वकतया तदभावेऽनु-पपत्तेः किं चात्र विधिनिषेधशब्दौ भावाभावमात्रबोधकौतथा च घटाकाशोऽत्रानीतो न मण्याकाशः घटाकाशउत्पन्नः शरावाकाशो विनष्ट इत्यादौ भावाभावौ वि-शेष्ये बाधाद्विशेषणमुपसंक्रामतस्तथा विवक्षायामस्यप्रवृत्तिः। विशेष्ये बाधाद्विशेषणे तयोः पर्यवसानभित्यर्थः।

१४

१ साक्षात् प्रकृतौ विकारलय इति न्यायः यथा घटा-दीनां लयः स्वप्रकृतौ कपालादावेव न तु परमाणौतथैवानुभवादित्येवं विकारस्य स्वप्रकृतिलयो यत्र विव-क्ष्यते तत्रास्य पवृत्तिः।

१४

२ सावकाशनिरवकाशयोर्मध्ये निरकाशोबलयान् इतिन्यायः सम्भवद्विषयान्तरः सावकाशः अतथाभूतोनिरवकाशः तेन निरवकाशेन साव काशोविधिर्वाध्यते यथामाहिंस्यात् सर्वाभूतानीति निषेधवाक्यं निरवकाशेनश्वेतमालभेतेति वाक्येन बाध्यते हिंसाया वैधेतरविष-यकत्वसम्भवेन तत्र तस्य सावकाशत्वात् पश्वालम्भनस्यविषयान्तराभावात् न तस्य सङ्कोच एवमन्यत्रापि।

१४

३ सिंहावलोकन्यायः सिंहो यथा कञ्चिन्मृगं हत्वाग्रे[Page4170-a+ 38] गच्छन्नन्योऽपि कश्चित् मृगश्चेत् स्यात्तदा तमपि ह न्या-मिति बुद्ध्या पृष्ठदेशाबलोकनं पुरोदेशावलोकनञ्च करोतिहन्ति च दृष्टिपथमागतं मृगादिकं इति प्रसिद्धम् तथाएकस्य शब्दस्य पुरतः पृष्ठे च यत्र उभयोरन्वयस्तत्रास्यप्रवृत्तिः।

१४

४ सूचीकटाहन्यायः अल्पायाससाध्या सूची वह्वायाससाध्यः कटाहः यथा तयोर्निर्माणाय प्रयतमानस्यप्रथमं स्वल्पायाससाध्ये सूचीनिर्माणे प्रवृत्तिः ततोबह्वायाससाध्यकटाहनिर्माणे एवं यत्र बह्वायाससाध्य-मुपेक्ष्य स्वल्पायाससाध्यस्य निर्देशादि तत्रास्य प्रवृत्तिः।

१४

५ सूत्रशाटिकान्यायः सूत्रस्य शाटिकोपादानत्वेऽपि यथाभाविन्या शाटिकासंज्ञया निर्देशस्तथा यत्र भाविन्या सं-ज्ञया उपादानस्य कार्यसंज्ञया निर्देशस्तत्रास्य प्रवृत्तिः।

१४

६ सोपानारोहणन्यायः यथा प्रासादमारोढुकामः क-श्चिद्युगपदारोढुमशक्नुवन् पूर्वां पूर्वां कक्षां परित्यज-न्नुत्तरामुत्तरां च कक्षामारोहन् क्रमेण प्रासादमारोहतितथा स्वस्वरूपभूतमपि ब्रह्म अज्ञानेन व्यवहितमिवापन्न-मात्मत्वेन ज्ञातुकामो मुमुक्षुः सहसा साक्षात्कर्तुमशक्नु-वन् पुत्रादाराभ्यानन्दमयान्तेषूत्तरस्मिन्नुत्तरस्मिन्नात्मत्य-बुद्ध्या पूर्वेषु पूर्वेष्वात्मत्वबुद्धित्यागे कृते सति क्रमेण प्रप-ञ्चोपशमं शिवमद्वैतं चतुर्थनात्मत्वेन जानातीति एवमा-दिषु तस्य प्रवृत्तिः।

१४

७ सोपानावरोहणन्यायः यथा हि येन क्रमेण सोपान-मारोहन्ति तद्विपरीतक्रमेण ततोऽवरोहन्तीति लोकेप्रसिद्धं तथा पञ्चकोषावतरणक्रमेण अद्वैततत्त्वेबुद्धिमारोहयितुमशक्तो भोग्यभोगायतनतदाश्रयचतुर्द-शभुवनतदाधारब्रह्मण्डानि पञ्चीकृतपञ्चभूतमात्राणिन तेभ्योऽतिरिच्यन्ते इति सम्भावयेत् पञ्चीकृतानि। भूतानि सूक्ष्मशरीराणि चापञ्चीकृतभूतेभ्यो नाति-रिच्यन्ते इति जानीयात्। एवं गन्धतन्मात्रात्मिकांपृथिवीं रसतन्मात्रात्मकाम्मात्रत्वेन भावयेत् अपश्र रूप-तन्मात्रात्मकत्रेजोमात्रत्वेन, तच्च तेजः स्पर्शतन्मात्रात्मकबायुमात्रत्वेन, तञ्च वायुं शब्दतन्मात्रात्मकाकाशमात्रत्वेन,तञ्चाकाशं स्वकारणभूतमायोपहितमहेश्वरमात्रत्वेनभावयेदिति एवं च यथा पूर्वोक्तक्रमेणावरोहणात् सुखेनभूमिं प्राप्नोति तथैवानेन विपरीतक्रमेण भावनात् सुखेनभूमानमद्वितीयं शिवमाप्नोतीति। प्रलयोऽप्यनेनैव व्युत्-क्रमेण भवतीति बोध्यं साक्षात् प्रकृतौ विकारलयः इति[Page4170-b+ 38] न्यायात् तथा चस्मर्य्यते
“जगत् प्रतिष्ठा देवर्षे! पृथि-व्यप्सु प्रलीयते ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौप्रलीयते। वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीथते। अव्यक्तं पुरुषे ब्रह्मनिष्कले संप्रलीयत इति।

१४

८ स्थविरलगुडन्यायः वृद्धहस्तपातितलगुडस्य यथा यथा-स्थानं न पतनमेवं लक्ष्यस्थानेऽपातेऽस्य प्रवृत्तिः।

१४

९ स्थूणानिखननन्यायः स्थूणा गृहस्तम्भभेदः तस्या निखसनदाढ्यार्थमुत्तोत्तोल्यः पुनःपुनः कराभ्यां चालयित्वा यथानिखननं क्रियते एवं समर्थितपक्षस्य दाढ्यार्थमुदाह-रणयुक्त्यादिभि पुनःपुनर्यत्र समर्थनं तत्रास्य प्रवृत्तिः।

१५

० स्थूलारुन्धतीन्यायः यथा हि ध्रुवमरुन्घतीञ्च दर्श-यतीति विधिबलाद्वरबध्वोरन्धतीदर्शने प्राप्ते सूक्ष्मतमा-यास्तस्याझटिति दर्शयितुमशक्यतया अरुन्धती दृश्य-तामित्युक्ते चन्दाद्यपेक्षयाह्यरुन्धत्या अतिदूरस्थत्वेन-नभस्थलस्थमेव किञ्चिदरुन्धतीत्वेन इयं दृश्यतामित्यङ्गुलि-निर्देशेन तावच्चन्द्रमरुन्धतीत्वेन वदति ततश्चन्द्रेतरास्त-त्समीपस्थास्तारकाः, तत इतरतारकाभिन्नाः सप्त-र्षिसंज्ञिकाः समीपतराः, ततस्तन्मध्यवर्त्तिनीं वसिष्ठ-रूपां समीपतमां तारकामणन्धीयामत्युक्ता तत्पार्श्वव-र्त्तिनीमरुन्धतीमेवारुन्धतीत्वेन बोधयति एवं यत्राति-सूक्ष्मदुर्विज्ञेयवस्तुविज्ञानाय क्रमेण तत्समीपसमीप-तरसमीपतमं वस्तु शास्त्रेण तत्तयोच्यते तत्र स्थूला-रुन्धतीन्यायोऽवतरति। अयमेव केनचिदरुन्धतीप्रदर्शन-न्यायत्वेनोदाह्रियते।

१५

१ स्वामिभृत्यन्यायः स्वामिन उपकारार्थं प्रवर्त्तमानाभृत्यास्तदुपकारकरणेन सन्तोषितात् स्वामिनः प्रसाद-लब्धामुपकृतिं यथा लभन्ते एवं यत्र परस्परोपकार्य्य-कारकभावो विवक्ष्यते तत्रास्य प्रवृत्तिः। ( सांख्यसूत्रे

४ अ॰ कतिचित् प्रसिद्धदृष्टान्ता उक्तास्तेऽपिन्यायशब्देनानुक्ता अपि प्रसिद्धदृष्टान्तदर्शनप्रसङ्गादत्रअकारादिक्रममनादृत्य सूत्रक्रमेणैव प्रदर्श्यन्ते यथा
“राजपुत्रवत् तत्त्वोपदेशात्” सां॰ प्र॰

४ ।

१ सू॰
“राजपुत्रस्येवतत्रौपदेशाद्विवेको जायत इत्यर्थः। अत्रेयमाख्यायिकाकश्चिद्राजपुत्रो गण्डर्क्षजन्मना पुरान्निःसारितः शवरेणकेनचित् पोषितोऽहं शवर इत्यभिमन्यमान आस्तो तं जी-वन्तंज्ञात्वा कश्चिदमात्यः प्रबोधयति न त्वं शवरो राजो-पुत्रऽसीति स यथा झटित्येव चाण्डालाभिमानं त्यक्त्वातात्त्विकं राजभावमेवालम्बते राजाहमस्मीति। एवमे-[Page4171-a+ 38] वादिपुरुषात् परिपूर्णचिन्मात्रेणाभिव्यक्तादुत्पन्नस्त्वं त-स्यांश इति कारुणिकोपदेशात् प्रकृत्यभिमानं त्यक्त्राब्रह्मपुत्रत्वादहमपि ब्रह्मैव न तु तद्विलक्षणः संसारी-त्येवं स्वस्वरूपमेवालम्बत इत्यर्थः। तथा च गारुडे
“यथैकहेममणिना सर्वं हेममयं जगत्। तथैव जात-मीशेन जातेनाप्यखिलं भवेत्। ग्रहाविष्टो द्विजः क-श्चिच्छूद्रोऽहमिति मन्यते। ग्रहनाशात् पुनः स्वीयंब्राह्मण्यं मन्यते यथा। मायाविष्टस्तथा जीवो देहो-ऽहमिति मन्यते। मायानाशात् पुनःस्वीयं रूपं ब्र-ह्मास्मि मन्यते” भा॰।
“पिशाचवदन्यार्थोपदेशेऽपि”

४ ।

२ सू॰
“अर्जुनार्थं श्रीकृष्णेन तत्त्वोपदेशे क्रियमाणेऽपि समी-पस्थस्य पिशाचस्य यथा विवेकज्ञानं जातमेवमन्येषामपिगवेदित्यर्थः” भा॰।
“श्येनवत् सुखदुःखी त्यानवियोगा-भ्याम्”

४ ।

५ सू॰
“परिग्रहो न कर्त्तव्यो यतो द्रव्याणांत्यागेन लोकः सुखी वियोगेन च दुःखी भवति श्येनव-दित्यर्थः। श्येनो हि सामिषः केनाप्यपहत्यामिषाद्वि-योज्य दुःखी क्रियते स्वयं चेत् त्यजति तदा दुःखाद्वि-मुच्यते तदुक्तम्
“{??}मि{??} कुररं जघ्नुबलिनोऽन्थे नि-रामिषाः। तदामिषं परित्यज्य स सुखं समविन्दत” इति मनुनाप्युक्तम्
“नदीकूलं यथा वृक्षो वृक्षं वाशकुनिर्यथा। तथा त्यजन्निमं देहं कृच्छ्राद् ग्राहाद्वि-मुच्यते” भा॰।
“अ{??}निर्ल्वयिणीवत्”

४ ।

६ सू॰
“यथाहिर्जीर्णां{??}चं परित्यजत्यनायासेन हेयबुद्ध्या तथैव मुमुक्षुःप्रकृतिं वहुकालोपभुक्तां जीर्णां हेयबुद्ध्या त्यजेदित्यर्थः। तदुक्तम्
“जीर्णां त्वचमिवोरगः इति” भा॰।
“क्षिन्नहस्तवद्वा”

४ ।

७ सू॰ यथा
“छिन्नहस्तं पुनः कोऽपि नादत्त तथैवैतत्त्यक्तं पुनर्नाभिमन्थेतेत्यर्थः” भा॰।
“असाधनानचिन्तनंबन्धाय भरतवत्”

४ ।

८ सू॰
“विवेकस्य यदन्तरङ्गसाधनं नस चेद्धर्मोऽपि स्यात् तथापि तदनुचिन्तनं तदनुष्ठानेचित्तस्य तात्पर्य्यं न कर्त्तव्यं यतस्तद्बन्धाय भवति विवेकविणारकतया भरतवत् यथा भरतस्य राजर्षेर्धर्म्य-नपि दीनानाथहरिणशावकस्य पोषणमित्यर्थः। तथा चजडभरतं प्रकृत्य विष्णुपुराणे
“चपलं चपले तस्मिन्दूरगं दूरगामिनि। आसीच्चेतः समासक्तं तस्मिन् ह-रिणपोतके” भा॰।
“वहुभिर्योगे विरोधो रागादिभिःकुमारीशङ्खवत्”

४ ।

९ सू॰
“बहुभिःसङ्गो न कार्य्यः। बहुभिः सङ्गे हि रानाद्यभिव्यक्त्या कलहो भवतियोगभ्रंशकः। यथा कुमारीहस्तशङ्खानामन्योऽन्यस-[Page4171-b+ 38] ङ्गेन{??}णत्कारो भवतीत्यर्थः” साङ्ख्यप्रवचनभाष्यम्।
“अनारम्भेऽपि परगृहे सुखी सर्पवत्”

४ ।

१२ सू॰
“सुखी भवेदिति शेषः शेषं सुगमम्। तदुक्तम्
“गृहा-रम्भो हि दुःखाय न सुखाय कथञ्चन। सर्पः परकृटंवेश्म प्रावश्य सुखमेधते” भा॰।
“बहुशास्त्रगुरूपासनेऽपि सारादानं षट्पदवत्”

४ ।

१३ सू॰
“कर्त्तव्यमिति शेषः। तदुक्तं
“अणुभ्यश्च महद्भ्यश्चशास्त्रेभ्यः कुशलो नरः। सर्वतः सारमादद्यात् पुष्पेभ्यइव षट्पदः”।
“सारभूतमुपासीत ज्ञानं यत् स्वार्थ-साधकम्। ज्ञानानां बहुता यैषा योनविघ्नकरी हि सा। इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत्। असौ कल्प-सहस्तेषु नैव ज्ञानमवाप्नुयात्” मार्क॰ पु॰ भा॰।
“इषुकारवन्नैकचित्तस्य समाधिहानिः”

४ ।

१४ सू॰
“यथाशरनिर्माणयैकचित्तस्येषुकारस्य पार्श्वे राज्ञो गमनेनापिन वृत्त्वन्तरनिरोधो हीयत एवमेकाग्रचित्तस्य मर्बथापिन समाधिहानिर्वृत्थन्तरनिरोधक्षतिर्भवति। ततश्च वि-षयान्तरसञ्चाराभावे ध्येयसाक्षात्कारोऽप्यबश्यं भवती-त्वेकाग्रतां कुर्य्यादित्यर्यः। तदुक्तं
“तदैवमात्मन्यवरुद्ध-चित्तो न वेद किञ्चिद् बहिरन्तरं वा। यथेषुकारोनृपतिं प्रबन्तमिषौ गतात्मा न ददर्श पार्श्वे” भा॰।
“कृतनियमलङ्घनादानर्थक्यं लोकवत्”

४ ।

१५ सू॰
“यः शा-रवेषु कृतो योगिनां नियमस्तल्लङ्घने ज्ञाननिष्पत्त्या-ख्योऽर्थो न भवति कोकवत्। यथा लोके भैषज्यादौविहितपथ्यादीनां जङ्घने तत्तत्सिद्धिर्न भवति तद्वदि-त्यर्थः। णशक्त्या ज्ञानरक्षार्थं वा लङ्घने तु नज्ञानप्रतिबन्धः।
“अपेतव्रतकर्मा तु केवलं ब्रह्मणि-स्थितः। ब्रह्मभूतश्चरन् लोके ब्रह्वचारीति कथ्यते” भा॰।
“तद्विस्मरणेऽपि भेकोवत्”

४ ।

१६ सू॰
“सुगभम्। भेक्या-चेयमाख्यायिका कश्चिद्राजा मृगयां गतो विपिनेसुन्दरीं कन्यां ददर्श। सा च राज्ञा भार्य्याभावाय प्रा-र्थिता नियमं चक्रे यदा मह्यं त्वया जलं प्रदर्श्यते तदाजया गन्तव्यमिति। एकदातु क्रीडया परिश्रान्ता राजानंपप्रच्छ कुत्र जलमिति। राजापि सभयं विस्मृत्य-जलमदर्शयत्। ततः सा भैकराजदुहिता कामरूपिणोभेकी भूत्वा जलं विवेश ततश्च राजा जालादिभिरनि-ष्यापि न तामाविददिति” भा॰।
“नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते विरोसनवत्”

४ ।

१७ सू॰ परामर्शो सुसवाक्यतात्पर्य्यर्थनिर्णायक[Page4172-a+ 38] विचारस्तं विनोपदेशवाक्यश्रवणेऽपि तत्त्वज्ञाननियमोनास्ति प्रजापतेरुपदेशश्रवणेऽपीन्द्रविरोचनयोर्मध्येविरोजनस्य परामर्शाभावेन भ्रान्तत्वश्रुतेः (छा॰ उ॰) अतोगुरूपदिष्टस्य मननमपि कार्य्यमिति। दृश्यते चेदानी-मप्येकस्यैव तत्त्वमस्युपदेशस्य नानारूपैरर्थैः सम्भावना। अखण्डत्वमवैधर्म्यलक्षणाभेदोऽविभागश्चेति” भा॰।
“न कालनियमो वामदेवत्”

४२

० सू॰
“ऐहिकसाधना-देव भवतीत्यादिर्ज्ञानोदये कालनियमो नास्ति वाम-देववत्। वामदेवस्य जन्मान्तरीयसाधनेभ्यो गर्भेऽपियथा ज्ञानोदयस्तथान्यस्यापीत्यर्थः। तथा च श्रुतिः
“तद्धैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्य्य-श्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदंभवतीत्यादिरिति”। अहं मनुरभवमित्यादिकमवैधर्म्यल-क्षणाभेदपरं सर्वव्यापकताख्यब्रह्मतापरं वा।
“सर्वं समा-प्नोषि ततोऽसि सर्वः” इत्यादि स्मृरणात् भा॰। (
“विरक्तस्यैव हेयहानमुपादेयोपादानं हंसक्षीरवत्”

४ ।

२३ सू॰
“विरक्तस्यैव हेयानां प्रकृत्यादीनां हा-नमुपादेयस्य चात्मन उपादानं भवति। यथा दुग्ध-जलयोरेकीभावापन्नयोर्मध्येऽसारजलत्यागेन सारभूतक्षीरोपादानं हंसस्यैव न तु काकादेरित्यर्थः” भा॰।
“न कामचारित्वं रागोपहते शुकवत्”

४२

४ सू॰
“रा-गोपहते पुरुषे कामतः सङ्गो न कर्त्तव्यः शुकवत्। यथाशुकपक्षी प्रकृष्टरूप इति कृत्वा कामचारं न करोतिरूपलोलुपैर्बन्धनभयात् तद्वदित्यर्थः” भा॰। (
“गुणयोगाद्बद्धः शुकवत्”

४२

६ सू॰
“तेषांसङ्गे तु गुणयोगात् तदीयरागादियोगाद्बद्धः स्यात्शुकवदेव। यथा शुकपक्षी व्याधस्य गुणैरज्जुभिर्बद्धोभवति तद्वदित्यर्थः। अथ वा गुणितया गुणलोलुपैर्बद्धोभवति शुकवदित्यर्थः। तथैवोक्तं सौभरिणा
“स मे समा-धिर्जलवासमित्रमत्स्यस्य सङ्गात् सहसैव नष्टः। परिग्रहःसङ्गकृतो ममायं परिग्रहोत्थाश्च महाविधित्साः” भा।
“न भोगाद्रागशान्तिर्मुनिवत्” सां॰

४२

७ सू॰
“यथा मुनेःसौभरेर्भोगान्न रागशान्तिरभूत् एवमन्येषामपि न॰भवतीत्यर्थः। तदुक्तं सौभरिणैव
“आ मृत्युतो नैव मनो-रथानामन्तोऽस्ति विज्ञातमिदं मयाद्य। मनोरथासक्तिपरस्यचित्तं नो जायते वै परमार्थसङ्गि” भा॰।
“न मलिनचेतस्युपदेशवीजप्ररोहोऽजवत्”

४ ।

२९ सू॰
“उपदेशरूपं यज्ज्ञानवृक्षस्य वाजं तस्याङ्कुरोऽपि रागा-[Page4172-b+ 38] दिमलिनचित्ते नोत्पद्यते अजवत्। यथाऽजनाम्नि नृपेभार्य्याशोकमलिनचित्ते वशिष्ठेनोक्तस्याप्युपदेशवीजस्यनाङ्कुर उत्पन्न इत्यर्थः” भा॰। (
“नाभासमात्रमपि मलिनदर्पणवत्”

४ ।

३० सू॰
“आपातज्ञानमपि मलिनचेतस्युपदेशान्न जायते विषया-न्तरसञ्चारादिभिः प्रतिबन्धात् यथा मलैः प्रतिबन्धात्मलिनदर्पणेऽर्थो न प्रतिविम्बति तद्वदित्यर्थः” भा॰। (
“न तज्जस्यापि तद्रूपता पङ्कजवत्”

४ ।

३१ सू॰तस्मादुपदेशाज्जातस्यापि ज्ञानस्योपादेशानुरूपता न भ-वति सामग्र्येणानवोधात्। पङ्कजवत्। यथा वीजस्यो-त्तमत्वेऽपि पङ्कदोषाद्वीजानुरूपता पङ्कजस्य न भवतितद्वदित्यर्थः। पङ्कस्थानीयं शिष्यचित्तम्” भा॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्याय¦ m. (-यः)
1. Propriety, fitness.
2. The Nya4ya doctrine, logic, logi- cal philosophy.
3. Apposite illustration.
4. A complete argument or syllogism.
5. Policy, good government.
6. Method, way, man- ner, plan, rule.
7. Virtue, honesty.
8. Justice, law.
9. A law-suit.
12. Judgment.
13. A universal rule, (In gram.)
14. Likeness analo- gy.
15. A vedic accent. E. नि certainly, इण to go, aff. भावकरणादौ घञ्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यायः [nyāyḥ], [नियन्ति अनेन; नि-इ घञ्]

Method, manner, way, rule, system, plan; अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात् प्रयत्नतः Ms.8.31; अनुक्ते हि न्याये न प्रतीमो$र्थान्तरम् ŚB. on MS.6. 2.5; तस्मान्नावस्थितो न्यायः प्रत्युद्ध्रियेत ŚB. on MS.6.2.1. ननु लिङ्गमसाधकं, न्याय उच्यतां यस्यैतद् द्योतकमिति ŚB. on MS.6. 2.3.

Fitness, propriety, decorum; न्यायाधारा हि साधवः Ki.11.3.

Law, justice, virtue, equity, righteousness, honesty; यान्ति न्यायप्रवृत्तस्य तिर्यञ्चो$पि सहायताम् A. R.1.4.

A law-suit, legal proceeding.

Judicial sentence, judgment.

Policy, good government.

Likeness, analogy.

A popular maxim, an apposite illustration, illustration, as दण्डापूपन्याय, काकतालीयन्याय, घुणाक्षरन्याय &c.; see Appendix.

A Vedic accent; न्यायैस्त्रिभिरुदीर्णम् Ku.2.12. (Malli. takes न्याय to mean स्वर; but it is quite open, in our opinion, to take न्याय in the sense of 'a system' or 'way'; 'which are manifested in three systems, i. e. ऋक्, यजुस् and सामन्'); न्यायगर्भद्विजाः Bh.3. 55.

(In gram.) A universal rule.

A system of Hindu philosophy founded by the sage Gautama.

The science of logic, logical philosophy.

A complete argument or syllogism (consisting of five members; i. e. प्रतिज्ञा, हेतु, उदाहरण, उपनय and निगमन).

An epithet of Viṣṇu. (न्यायेन ind. in the way of, after the manner or analogy of; बधिरान्मन्दकर्णः श्रेयानिति न्यायेन &c.). -Comp. -आगत a. rightly got, acquired (money).-आचार a. virtuous. -आधारः an example of virtue or propriety, -आभासः semblance of reason, sophism.-उपेत rightly admitted. -निर्वपण a. bestowing justly.-णः N. of Śiva; Mb.13.17.126 (com. न्याययुक्तं निर्वपणं दानं यस्य). -पथः the Mīmāṁsā philosophy; (pl.) the different philosophical systems; Bhāg. -वर्तिन् a. well behaved, acting justly. -वादिन् a. one who speaks what is right or just. -विद्या, -शिक्षा; see न्यायशास्त्र.-वृत्तम् good conduct, virtue.

शास्त्रम् the philosophical system of the Nyāya school.

the science of logic.-संबद्ध a. rational, logical. -सारिणी proper or suitable behaviour. -सूत्रम् the aphorisms of Nyāya philosophy by Gautama. [Note: A few of the common Nyāyas or popular maxims that were given under this word by Prin. Apte are taken in the Appendix along with many others.]

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्याय/ न्य्-आय m. (fr. 4. नि)that into which a thing goes back i.e. an original type , standard , method , rule , ( esp. ) a general or universal rule , model , axiom , system , plan , manner , right or fit manner or way , fitness , propriety TS. Br. Mn. MBh. etc. (612808 न्यायेनind. and 612808.1 यात्ind. either " in the right manner , regularly , duly " , or ifc. " after the manner of , by way of ")

न्याय/ न्य्-आय m. a lawsuit , legal proceeding , judicial sentence , judgement Mr2icch. Pan5c.

न्याय/ न्य्-आय m. a logical or syllogistic argument or inference (consisting of a combination of enthymeme and syllogism , and so having , according to the नैयायिकs 5 members , viz. प्रतिज्ञा, हेतु, उदाहरण, उपनय, निगमन, or according to the वेदान्तिन्s 3 members)

न्याय/ न्य्-आय m. a system of philosophy delivered by गोतमor गौतम(it is one of the six दर्शनस्See. , and is perhaps so called , because it " goes into " all subjects physical and metaphysical according to the above syllogistic method treated of in one division of the system ; its branch is called वैशेषिक)

न्याय/ न्य्-आय m. likeness , analogy , a popular maxim or apposite illustration(See. काका-क्षि-, घुणा-क्षर-, दण्डा-पूप. etc. )

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शास्त्र; a servant of the Veda; फलकम्:F1: M. 3. 4; ५३. 5; वा. 2. ३३; ६१. ७८; १०४. ८५; Vi. III. 6. २७; V. 1. ३८.फलकम्:/F learnt by कृष्ण and बलराम; फलकम्:F2: भा. X. ४५. ३४.फलकम्:/F by Asuras. फलकम्:F3: Br. II. ३५. ८७; IV. १२. १७.फलकम्:/F [page२-269+ १६]

"https://sa.wiktionary.org/w/index.php?title=न्याय&oldid=500737" इत्यस्माद् पुनः प्राप्तिः