पः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पः, पुं, (पातयति वेगेन वृक्षादीन् । पत् + कर्त्तरि डः । अन्तर्णिच् ।) पवनः । (पतति वृक्षात् । पत् + कर्त्तरि डः ।) पर्णम् । (पीयते इति ।) पानम । पाता । इत्येकाक्षरकोषः ॥ (यथा, मनुः । २ । १३९ । “राजस्नातकयोश्चैव स्रातको नृपमानभाक्” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पः¦ पञ्चमवर्गस्य प्रथभोवर्णः स्पशवर्णेषु एकविंशतितमः। तस्योच्चारणस्थानभोष्ठः। तस्योच्चारणे आभ्यन्तरप्रयत्नःओष्ठेन सह जिह्वाग्रस्य स्पर्शः। बाह्याः प्रयत्नाः विवा-रश्वासघोषाः अल्पप्राणश्च। अस्मिन् परे विसर्गस्य स्थानेउपाध्मानीयः वर्णाभिधाने अस्य वाचकशब्दाउक्ता यथा
“पः सुरप्रियता तीक्ष्णा लोहितः पञ्चमो रमा। गुह्य-कर्त्ता निधिः शेषः कालरात्रिः सुरारिहा। तपनःपालनः पाता देवदेवो निरञ्जनः। सावित्री पातिनीपानं वीरतन्त्रो धनुर्द्धरः। दक्षपार्श्वश्च सेनानीर्मरीचिःपवनः शनिः। उड्डीशं जयिनी कुम्भोऽनलरेखा चमीहकः। मूलं द्वितीयमिन्द्राणी लोलाक्षी मनआत्मकः” तदधीशदेवताध्यानं यथा
“द्विचित्रवसनां देवीं द्विभुजांपङ्कजेक्षणाम्। रक्तचन्दनलिप्ताङ्गीं पद्ममालाविभूषि-ताम्। मणिरत्नादिकेयूरहारभूषितविग्रहाम्। चतुर्वर्गप्रदां नित्यां नित्यानन्दमयीं पराम्। एवं ध्यात्वा पका-रन्तु तन्मन्त्रं दशधा जपेत्”। अस्य स्वरूपं यथा
“अतःपरं प्रवक्ष्यामि पकाराक्षरमव्ययम्। चतुवर्गप्रदं वर्णं श-रच्चन्द्रसमप्रभम्। पञ्चदेवमयं वर्णं स्वयं परमकुण्डली। पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं तथा। त्रिगुणाव-स्थितं वर्णमात्मादितत्त्वसंयुतम्। महामोक्षप्रदं वर्णंहृदि भावय पार्वति!” इयि कामधेनुतन्त्रे
५ पटले। अस्य मातृकन्यासे दक्षपार्श्वे न्यास्यता। काव्यादौ अस्यप्रथमप्रयोगे सुखं फलम्।
“सुखभयमरणक्लेशदुःखंप्रवर्गः” वृ॰ टी॰। पवर्गस्थानां पञ्चानां वर्णानां क्रमेणफलपञ्चकोक्तेः।