पक्षाघात
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पक्षाघातः पुं, (पक्षस्य देहाद्धस्य घातं विना- शनं यस्मात् यत्र वा ।) स्वनामख्यात- वातरोगविशेषः । तल्लक्षणादि यथा, -- “गृहीत्वार्द्धं ततो वायुः शिरास्नायू विशोष्य च । पक्षमन्यतमं हन्ति सन्धिबन्धान् विमोक्षयन् ॥ कृत्स्नोऽर्द्धकायस्तस्य स्यादकर्म्मण्यो विचेतनः । एकाङ्गवातं तं केचिदन्ये पक्षवधं विदुः” ॥ अर्द्धं अर्द्धनारीश्वरवत् । पक्षं बाहुपार्श्वोरु- जङ्घादिभागम् । अन्यतमं वामं दक्षिणं वा । विमोक्षयन् शिथिलीकुर्व्वन् । अकर्म्मण्यः कर्म्मा- समर्थः । विचेतनः ईषत्र्स्पशादिज्ञानयुक्तः ॥ * ॥ अस्य साध्यासाध्यज्ञानार्थमाह । “दाहसन्तापमूर्च्छाः स्युर्व्वायौ पित्तसमन्वित । शैत्यशोथगुरुत्वानि तस्मिन्नेव कफावृते” ॥ दाहो वाह्यः । सन्तापः आभ्यन्तरः । एतच्च लक्षणमन्यत्रापि वातव्याधौ बोद्धव्यम् । सामा- न्यतो वायाविति निर्दिष्टत्वात् ॥ * ॥ पक्षाघातस्य साध्यत्वादिकमाह । “शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः । साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम्” ॥ शुद्धः केवलः । अन्येन पित्तेन कफेन वा । क्षय- हेतुकं क्षयो धातुक्षयः । तत्कुपितं वातनिमि- त्तकम् ॥ * ॥ अपरमसाध्यलक्षणमाह । “गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षये । पक्षाघातं परिहरेत् वेदनारहितो यदि” ॥ वेदनारहितो यदीति भिन्नमसाध्यलक्षणम् ॥ * ॥ अथ तस्य चिकित्सा । “माषात्मगुप्तावातारिवाट्यालकजटाशृतम् । हिङ्गुसैन्धवसंयुक्तं पक्षाघातं विनाशयेत् । माषिके हिङ्गुसिन्धूत्थे जरणाद्यास्तु शाणिकाः” ॥ इति माषादिक्वाथः ॥ १ ॥ “ग्रन्थिकाग्निकणाशुण्ठीरास्नासैन्धवकल्कितम् । माषक्वाथशृतं तैलं पक्षाघातं व्यपोहति” ॥ इति ग्रन्थिकादितैलम् ॥ २ ॥ “माषात्मगुप्तातिविषारुवूक- रास्नाशताह्वालवणैः सुपिष्टैः । चतुर्गुणे माषवलाकषाये तैलं शृतं हन्ति हि पक्षघातम्” ॥ इति माषादितैलम् ॥ ३ ॥ इति भावप्रकाशः ॥ * ॥ पक्षाघातस्तु जन्मान्तरीयमहापातकशेषपाप- चिह्नविशेषः । यथा, -- “पूर्ब्बजन्मकृतं पापं नरकस्य परिक्षये । बाधते व्याधिरूपेण तस्य कृच्छ्रादिभिः शमः ॥ कुष्ठञ्च राजयक्ष्मा च प्रमेहो ग्रहणी तथा । मूत्रकृच्छ्राश्मरीकाशा अतिसारभगन्दरौ ॥ दुष्टव्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम् । इत्येवमादयो रोगा महापापोद्भवा गदाः” ॥ * ॥ तत्प्रायश्चित्तं यथा, -- “लक्षमुच्चावचं पुष्पं प्रदद्यात् केशवार्च्चने । दद्यात् द्विजसहस्राय मिष्टान्नं द्बिजभोजने” ॥ इति मलमासतत्त्वम् ॥ किञ्च । “कुनखी श्यावदन्तश्चद्वादशरात्रं कृच्छ्रं चरित्वा उद्धरेयातां तद्दन्तनखाविति । अत्र द्वादशरात्रं पराकरूपम् । तत्र पञ्च धेनवः । न तु प्राजापत्यं तद्दाहकर्त्तुर्यतिचान्द्रायणेन विषमशिष्टत्वात् । अत्र बहूनामेकधर्म्माणामिति वचनादाकाङ्क्षि- तत्वात् कुष्ठ्यादीनामपि प्रायश्चित्तम् । अत- एव प्रायश्चित्तविवेकेऽप्युक्तम् । एवं दुश्चर्म्मादिष्व- प्यूह्यम्” । इति शुद्धितत्त्वम् ॥
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पक्षाघात¦ m. (-तः)
1. Refutation. containing.
2. Palsy, hemiplegia. E. पक्ष, and आघात a blow.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पक्षाघात/ पक्षा m. = क्ष-वधCar. Sus3r.
पक्षाघात/ पक्षा m. refutation of an argument or view W.