पक्षी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पक्षी, [न्] पुं, (पक्षाः कङ्कादीनां पत्राणि सन्त्यस्य । “अत इनिठनौ” । ५ । २ । ११५ । इति इनिः ।) वाणः । इति धरणिः ॥
पक्षी, [न्] पुं स्त्री, पक्षौ विद्येते यस्य । (पक्ष + इनिः ।) विहङ्गमः ॥ पाखी इति चिडिया इति च भाषा ॥ तत्पर्य्यायः । खगः २ विहङ्गः ३ विहगः ४ विहङ्गमः ५ विहायाः ६ शकुन्तिः ७ शकुनिः ८ शकुन्तः ९ शकुनः १० द्विजः ११ पतत्री १२ पत्री १३ पतगः १४ पतन् १५ पत्र- रथः १६ अण्डजः १७ नगौकाः १८ वाजी १९ विकिरः २० विः २१ विष्किरः २२ पतित्रिः २३ नीडोद्भवः २४ गरुत्मान् २५ पिच्छन् २६ नभ- सङ्गमः २७ । इत्यमरः । २ । ५ । ३४ ॥ नाडीचरणः २८ कण्डाग्निः २९ पतङ्गः ३० अगौकाः ३१ चञ्चु- भृत् ३२ छुरण्डः ३३ सरण्डः ३४ । इति शब्द- रत्नावली ॥ पिपतिषुः ३५ पत्रवाहः ३६ द्युगः ३७ । इति राजनिर्घण्टः ॥ * ॥ गुरुभक्षबहुभक्ष- स्थूलकायपक्षिणां पूर्ब्बार्द्धस्य श्रेष्ठत्वं यथा, -- “गुरुभक्षा बहुभुजो ये चोपचितमेदसः । एकदेहेऽपि पूर्ब्बार्द्धं मृगाणां पक्षिणां परम्” ॥ * ॥ पक्षिणामङ्गादीनामुत्तरोत्तरं गुरुत्वं यथा, -- “सर्व्वेषाञ्च शिरःस्कन्धप्लीहचर्म्मयकृद्गुदम् । पादपुच्छान्त्रमस्तिष्कमुष्कक्रोडाः समेहनाः । धातवः शोणिताद्याश्च गुरवःस्युः परस्परम्” ॥ अस्याण्डगुणाः । “मत्स्यकूर्म्मखगाण्डानि स्वादुवाजीकराणि च । कटुपाकानि रुच्यानि वातश्लेष्महराणि च” ॥ इति राजवल्लभः ॥ * ॥ तेषामुत्पत्तिर्यथा, -- “अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महाबलौ । सम्पातिश्च जटायुश्च प्रसूतौ पक्षिसत्तमौ ॥ सम्पातिर्जनयन् गृध्रान् काकाः पुत्त्रा जटायुषः । भार्य्या गरुत्मतश्चापि भासी क्रौञ्ची शुनी शुकी ॥ धृतराष्ट्री गरुत्मांस्तु शुन्यां जज्ञे च षट् सुतान । त्रिशिखञ्च सुनेत्रञ्च सुमुखं सुनसन्तथा ॥ सुरूपन्तु सुपर्व्वाणं तेषां पुत्त्रा अनन्तकाः । चतुर्द्दशसहस्राणि क्रूराणां पन्नगाशिनाम् ॥ सप्तद्वीपेष्विमे सन्ति गारुडास्ते महाबलाः । भासीपुत्त्रास्तथा भासा उलूकाः काककुक्कुटाः ॥ मयूराः कलविङ्काश्च कपोती चैव तित्तिरी । क्रौञ्च्यां वाध्रीणसा आसन् कुरराः सारसा वकाः ॥ धृतराष्ट्री कलहंसान् धार्त्तराष्ट्रांश्च भामिनी । चक्रवाकांश्च विहगान् सश्येनानौदकान् द्बिजान् ॥ अन्यानपि द्विजान् जज्ञे पुत्त्रपौत्त्राननन्तकान” ॥ इत्यग्निपुराणे काश्यपीयवंशः ॥ (महादेवः । यथा, महाभारते १३ । शिवनामकीर्त्तने । १७ । ६९ । “पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः” ॥)