पञ्चक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चकम्, त्रि, (पञ्चैव इति स्वार्थे कन् ।) पञ्च । यथा, भाषापरिच्छेदे । ३३ । “संख्यादि- पञ्चकं कालदिशोः शब्दश्च ते च खे ।” इति ॥ (पञ्च संख्यापरिमाणमस्य । “तदस्य परि- माणम् ।” ५ । १ । ५७ । इत्यनुवृत्तौ “संख्यायाः संज्ञा संङ्घसूत्राध्ययनेषु ।” ५ । १ । ५८ । इति पञ्चसङ्ख्यापरिमिति संघार्थे कन् प्रत्ययः । धनि- ष्ठादि पञ्चनक्षत्रम् । यथाह चिन्तामणिः । “अग्निचौरभयं रोगो राजपीडा धनक्षतिः । संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके ॥” पञ्चभिः क्रीतम् । “संख्याया अतिशदन्तायाः कन् ।” ५ । १ । १२ । इति कन् । पञ्चभिः क्रीते द्रव्यविशेषे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चक¦ त्रि॰ पञ्चभिः क्रीतः कन्।

१ प्रञ्चभिः क्रीते। पञ्चैवस्वार्थेक।

२ पञ्चसंख्यान्विते

१ शकुनि पञ्चकाधिकृते शास्त्रे सि॰कौ॰। पञ्च अंशो भागो वेतनं मूल्यं वाऽस्य(सोऽंशवस्न भृतयः)पा॰ कन्।

३ पञ्चांशयुक्ते

४ पञ्चभृतियुक्ते

५ पञ्चमूल्यान्विते चत्रि॰। पञ्चास्मिन् वृद्ध्यादिरूपेण दीयन्ते
“तदस्मिन् वृद्ध्या-यलाभशुल्कोपदा दीयते” पा॰ कन्। वृद्ध्यादित्वेन दीयमानपञ्चसंख्यायुक्ते

६ शतादौ। वृद्धिर्दीयत इत्यादिक्रमेणप्रत्येकं सम्बन्धादेकवचनम्। पञ्चास्मिन् वृद्धिः आयःलाभः शुल्कसुपदा वा दीयते। पञ्चकः शतिकः शत्थः[Page4182-b+ 38] साहस्रः। उत्तमर्णेन मूलातिरिक्तम् ग्राह्यं वृद्धिः। ग्रामादिषु स्वामिग्राह्यो भागः आयः विक्रेता मूल्या-दधिकग्राह्योः लाभः। रक्षानिर्वेशो राजभागः शुल्कः” सि॰ कौ॰
“वर्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा” याज्ञ॰
“चतुर्थ्यर्थ उपसंख्यानम्” वार्त्ति॰ पञ्च वृद्ध्यादिना दीयन्तेऽस्मै।

७ वृद्ध्यादिना दीयमानपञ्चसंख्यान्वितद्रव्यसम्प्र-दाने त्रि॰। पञ्चमेन रूपेण ग्रहणम्
“तावतिथंग्रहणमिति लुग्वा” पा॰ कन्। पूरणार्थस्य वा लुक्। पञ्चमेन रूपेण कस्यचित्

८ ग्रहणे।
“तावतिथेनगृह्णातीति कन् वक्तव्यः नित्यञ्च लुक्” वार्त्ति॰उक्तः कन् पूरणार्थस्य वा लुक्। पञ्चमेन रूपेण

९ ग्रा-हके त्रि॰। पञ्चानामवयवम् कन् अर्द्धचा॰ पु॰ न॰।

१० पञ्चसंख्यायाम्
“एकं द्विकं त्रिकं चैव चतुष्कं पञ्चकंतथा” हरिका॰।

११ धनिष्ठान्त्यार्द्धादिपञ्चतारके ज्योतिषम्।

१२ रोगाग्निराजचौरमृत्युसंज्ञके वाणपञ्चके च
“भौमा-करिक्तामाद्यूते चरोनेऽङ्गे विपञ्चके” मुहू॰ व्याख्यानेपी॰ धारायां पक्षान्तरे विपञ्चक इत्यस्य बाणपञ्चकार्थक-त्वस्योक्तेः बाणाश्च उपयमशब्दे

१२

६९ पृ॰ दर्शिताः। पञ्च-भागेनानीतत्वा तेषां तथात्वम्। पञ्चके निषिद्धानि यथावसिष्ठः
“वस्वपरार्द्धात्पञ्चकधिष्णये कार्यं गेहस्य गोपनंनैव। दक्षिणादिङ्मुखगमनं दाहं प्रेतस्य काष्ठसंग्रहण-मिर्तिनारदः
“वस्वन्त्यार्द्धादिपञ्चर्क्षे संग्रहं तृणकाष्ठयोः। याम्यदिग्गमनं शय्या न कार्थं गृहगोपनम्” इतिश्रीपतिरपि
“वासवोत्तरदलादिपञ्चके याम्यदिग्गमन-गेहगोपनम्। प्रेतदाहतृणकाष्ठसंग्रहं शय्यकाविततनं चवर्जयेत्” त्रिविक्रमोऽपि
“शय्यावितानं प्रेतादिक्रियां का-ष्ठतृणार्जनम्। याम्यदिग्गमनं कुर्य्यान्न चन्द्रे कुम्भमीनगे” इति ननु प्रेतदाहे किं नक्षत्रान्तरे मृतस्य धनिष्ठोत्तरा-र्द्धादिके दाहो न कार्य इति उत पञ्चकएव मृतस्य प-ञ्चके दाहो न कार्य इति आहोस्विद्यस्मिन् कस्मिंश्चि-न्नक्षत्रे पञ्चकातिरिक्ते पञ्चके बा मृतस्य पञ्चके दाहोन कार्य इति त्रयः पक्षाः सम्भवन्ति तत्र यदि विज्ञा-यते नक्षत्रान्तरे मृतस्य पञ्चके दाहो न कार्य इतितत्र पञ्चके मरणस्य दोषवत्ता न प्राप्नोति तच्चायुक्तं यस्पा-दुक्तं ब्रह्मपुराणे
“कुम्भमीनस्थिते चन्द्रे मरणं यस्यजायते। न तस्योर्ध्वगतिर्दृष्टा सन्ततौ न शुभं भवेत्” इति। अथ विज्ञायते पञ्चकएव मृतस्य पञ्चके दाहो नकार्य इति तदपि न, श्रवणे, धनिष्ठापूर्वार्द्धे च मृतस्य[Page4183-a+ 38] षञ्चके दाहनिषेधो न प्राप्नोति किन्तुदाहः कर्तव्य इत्येवप्राप्नोति। अस्त्वेवमिति चेन्न प्राप्तस्य दाहं त्यजेदितिदाहस्यैव क्रियाकारकसम्बन्धेन प्राधान्यतो निषेधात्,किञ्च
“त्रिगुणफलदोवृद्धौ नष्टे हृते च मृतेऽपि वेति” त्रिपुष्करयोगफलवत् पञ्चकमरणनिषेध एव वक्तव्ये दाह-निषेधस्य पृथगुपादानात् कर्त्तव्यतापत्तिः। तस्माद्यस्मिन्कस्मिंश्चिन्नक्षत्रे मृतस्य पञ्चके दाहो न कार्य इति तृतीयःपक्षः साधीयान्। प्राधान्याद्दाहस्यैव निषेध इत्युक्तं प्राक्अतः पञ्चकात् प्राक् मरणदोषो नास्ति तथा तत्रैवदाहोऽपि न दोषाय। यदि क्रियाकरणवशात् कालाति-क्रमे सति पञ्चकप्रवृत्तिस्तदा शान्तिं विधाय दाहः कार्यःपञ्चके तु द्वयमपि निषिद्धं मरणं दाहश्चेति। उक्तं चब्रह्मपुराणे
“कुम्भमीनस्थिते चन्द्रे मरणं यस्य जायते। न तस्योर्ध्वगतिर्दृष्टा सन्ततौ न शुभं भवेत्। न तस्यदाहः कर्त्तष्यो विनाशः स्वेषु जन्तुषु। पञ्चकानन्तरंकार्यं कार्यं दाहादिकं खलु। अथ वा तद्दिने कार्य्योदाहस्तु विधिपूर्वकम्”। रेवतीप्रान्ते मृतस्य रेवतीमप-हाय दाहः कार्य इत्यर्थः धनिष्ठोत्तरार्द्धादिमृतस्य दा-हस्तु सद्यएव पञ्चकस्य बहुकालव्यापित्वात्पर्युषितदाह-निषेधाच्च। स च दाहः शान्तिविधिपूर्वकः कार्यः। स चविधिरुक्तो ब्रह्मपुराणे
“दाहदेशे शवं नीत्वा स्नापयेच्चप्रयत्नतः। दर्भाणां प्रतिमाः कार्याः पञ्चोर्णासूत्रवे-ष्टिताः। यवपिष्टेनानुलिप्तास्ताभिः सह शवं दहेत्। प्रेतवाहः प्रेतसखः प्रेतपः प्रेतभूमिपः। प्रेतहर्त्तापञ्चमश्च नामान्येतानि च क्रमात्” इति। विशेषस्त्वन्त्ये-ष्टिपद्धत्यादौ द्रष्टव्यः। नन्वत्र
“त्रिगुणफलदो वृद्धौ नष्टेहृते च मृतेऽपि वेति” मरणनिपेधएव वक्तव्यो किं पुन-र्दाहनिषेधेन। उच्यते दोषाधिक्यसूचनार्थं हि पुन-र्दाहनिषेधः अतएव पञ्चके मृतस्य पुत्तलकविधानं कृत्वादाहः कार्यः ततः सूतकान्ते पुत्रादिभिः शान्तिकं चविधेयम्। उक्तं च गरुडपुराणे
“ततो दाहः प्रकर्त्तव्य-स्तैश्च पुत्तलकैः सह। सूतकान्ते तदा पुत्रैः कार्यं शा-न्तिकपौष्टिकम्। पञ्चके तु मृतो योऽसौ न गतिं लभतेनरः। तिलांश्चैव हिरण्यं च तमुदिश्य घृतं ददेत्” इति। अतो नक्षत्रान्तरे मृतस्य पञ्चके दाहप्राप्तौ पु-तनकविधिरेव भवति ततः सूतकान्त शान्तिकं च। एवंपञ्चकान्ते मृतस्याश्विन्यां दाहप्रापौ पुत्तलकविधिर्न किनु{??}तूतकान्ते शान्विकमेव विधेयम्” पी॰ धा॰। [Page4183-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चक¦ mfn. (-कः-का-कं) Five or relating to five, made of five, bought with five, &c. m. (-कः) Any collection or aggregate of five, a five. n. (-कं) A field of battle. E. पञ्च five, and कन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चक [pañcaka], a.

Consisting of five.

Relating to five.

Made of five.

Bought with five.

Taking five percent.

कः, कम् A collection or aggregate of five; अम्लपञ्चकम्.

the pentad of five नक्षत्रs beginning from धनिष्ठा and ending in रेवती. -कम् A field of battle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चक mfn. consisting of 5 , relating to 5 , made of 5 etc. Mn. MBh. Sus3r. Pur. ; 5 days old(See. below)

पञ्चक mfn. bought with 5 Pa1n2. 5-1 , 22 Sch.

पञ्चक n. (with शतn. )5 percent Mn. Ya1jn5.

पञ्चक mfn. taking 5 per cent Pa1n2. 5-1 , 47 Va1rtt. 1 Pat.

पञ्चक m. any collection or aggregate of 5 W. (also n. ; See. g. अर्धर्चा-दि)

पञ्चक m. a partic. caste VP.

पञ्चक m. N. of one of the attendants of स्कन्दMBh.

पञ्चक m. of a son of नहुषVP.

पञ्चक m. pl. the 5 first disciples of गौतमबुद्धJa1takam.

पञ्चक n. an aggregate of 5 , a pentad Hariv. Var. etc.

पञ्चक n. a field of battle L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PAÑCAKA : One of the two soldiers presented to Subrahmaṇya by Indra for the battle between the devas and asuras. The other was named Utkrośa. (Śloka 35, Chapter 45, Śalya Parva).


_______________________________
*2nd word in right half of page 548 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पञ्चक&oldid=500750" इत्यस्माद् प्रतिप्राप्तम्