पञ्चमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चमः, त्रि, पञ्चानां पूरणः । (पूरणे डट ततः नान्तादिति मट् ।) पा~च इत्यादि भाषा । इति मेदिनी ॥ (यथा, मनुः । ८ । १२५ । “उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥”) रुचिरः । दक्षः । इति हेमचन्द्रः ॥

पञ्चमः, पुं, पञ्चानां स्वराणां पूरणः । तन्त्री- कण्ठोत्थितस्वरविशेषः । इत्यमरः ॥ स तु षड्- जादिसप्तस्वराणां पञ्चमः स्वरः । तस्योत्- पत्तिर्यथा, -- “वायुः समुद्गतो नाभेरुरोहृत्कण्ठमूर्द्धसु । विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते ॥” इति तट्टीकायां भरतः ॥ अपि च । “प्राणोऽपानः समानश्च उदानो व्यान एव च । एतेषां समवायेन जायते पञ्चमः स्वरः ॥” इति सङ्गीतदामोदरः ॥ अस्य जातिः औडवः । पञ्चस्वरमिलित इति यावत् । अस्य कूटतानाः विंशत्यधिकशतम् १२० प्रत्येकताने चत्वारिंशत् ४० । समुदायेन चतुःसहस्राष्टशतानि ४८०० ताना भवन्ति । अस्योच्चारणजातिः पिकः । उच्चारणस्थानं उरः गलः शिरश्च । व्याकरण- मते अधरः । अयं विप्रवर्णः । इति शुद्ध- तानविवेकलक्षणम् ॥ अस्य रूपं इन्द्ररूप- तुल्यम् । वर्णः श्यामः । स्थानं क्रौञ्चद्वीपम् । देवता महादेवः । वारो बृहस्पतेः । समय- श्चतुस्त्रिंशत्पलाधिकाष्टौ घटिकाः । श्रुतय- श्चत्वारः क्षितिः रक्ता सन्दीपनी आलापिनी च । मूर्च्छनास्तिस्रः यमली निर्म्मली कोमली च । इति नादपुराणम् ॥ * ॥ रागभेदः । इति मेदिनी ॥ अयं कल्लिनाथमते सोमेश्वरमते च षड्रागाणां मध्ये तृतीयरागः । सोमेश्वरमते अस्य गानसमयः शरदृतुः प्रातःकालश्च । कल्लि- नाथमते अस्य रागिण्यः षट् । यथा, त्रिवेणी १ स्तम्भतीर्था २ आभीरी ३ कुकभ् ४ वरारी ५ सावीरी ६ । सोमेश्वरमते तु विभासा १ भूपाली २ कार्णाटी ३ वडहंसिका ४ मालश्रीः ५ पटमञ्जरी ६ । अस्मिन्रागे गान्धार- स्वरस्तीव्रः । ॠषभपञ्चमौ स्वरौ लुप्तौ । षड्ज- स्वरः गृहांशन्यासाः । स च हनूमन्मते भरत- मते च भैरवरागस्याष्टमपुत्त्रः । इति सङ्गीत- शास्त्रम् ॥

"https://sa.wiktionary.org/w/index.php?title=पञ्चमः&oldid=500754" इत्यस्माद् प्रतिप्राप्तम्