पञ्चमी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमी, स्त्री, (पञ्चानां पाण्डवानां इयम् । अथवा पञ्च पतीन् मिनोति सेवास्नेहादिभिर्बध्नाति या । पञ्च + मी + क्विप् । मीधातुरत्र बन्धार्थः ।) पाण्डवपत्नी । द्रौपदी । इति मेदिनी ॥ (पञ्चानां पूरणी डट् ततो मट् स्त्रियां ङीप् ।) शारि- शृङ्खला । पाशार छक् इति भाषा । इति भूरि- प्रयोगः ॥ * ॥ तिथिविशेषः । सा च चन्द्रस्य पञ्चमकलाक्रियारूपा तदुपलक्षितकालश्च । पञ्जिकाकारसङ्केतेन शुक्लपक्षे ५ कृष्णपक्षे २० एतदङ्कबोधिता ॥ * ॥ अथ पञ्चमीव्यवस्था । सा च चतुर्थीयुता ग्राह्या युग्मात् । “पञ्चमी च प्रकर्त्तव्या चतुर्थीसहिता विभो ! ॥” इति स्कन्दपुराणाच्च ॥ * ॥ एषा चतुर्द्धा वाग्भवकूटमेदात् । एतयोः काम- राजस्य तृतीयकूटन्तु तत्रैव ॥ * ॥ “कामबीजं महेशानि ! शिवबीजं ततः परम् । तदधो हंसबीजन्तु इन्द्रबीजं विचिन्तयेत् ॥ महामायां ततः पश्चात् कूटं परमदुर्लभम् ॥” एषा पूर्ब्बवदष्टधा । अन्या चतुर्द्धा ॥ * ॥ तथा तत्त्वबोधे । “कामाकाशपरा शक्र संस्थानकृतरूपिणी ॥” परा सकारः । संस्थानकृतरूपिणी महामाया ॥ * ॥ तथा च तन्त्रे । “कामबीजं महेशानि ! शम्भुबीजं ततः परम् । तदधश्चन्द्रबीजन्तु पृथ्वीबीजं ततो लिखेत् । तदन्ते च महामाया कूटं परमदुर्लभम् ॥” एषा पूर्ब्बवदष्टधा । अन्या चतुर्द्धा । तेन षट्- त्रिंशद्रूपिणी पञ्चमी ॥ * ॥ हंसमाहेश्वरे । “वामकेश्वरविद्यायाः कूटं वाग्भवमुत्तमम् । एकारादि वागभवन्तु कूटं वाग्भवमुत्तमम् ॥ एकारादि वाग्भवन्तु सौभाग्यायाश्च वाग्भवम् । एषा च पञ्चमी विद्या त्रैलोक्यवशकारिणी ॥” * ॥ श्रीक्रमे । “एतासां चैव विद्यानां प्राणं शृणु वरानने ! । रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् ॥ शक्त्यन्ते तु महादेवि ! हंसं मायां रमां तथा । एभिर्युक्तेन देवेशि ! विद्याजपनमाचरेत् ॥” जपश्च सप्तवारमेव दीपन्यां तथा दर्शनात् । एतासां पूर्ब्बोक्तश्रीक्रमोक्तविद्यानाम् ॥ * ॥ पञ्चम्यान्तु विशेषो यथा । “रमां मायां हंसबीजं वाग्भवाद्ये नियोजयेत् । शक्त्यन्ते तु महेशानि ! हंसं मायां रमां तथा ॥ कामराजत्रये देवि ! ककारं शक्रसंयुतम् । मायाबिन्द्वीश्वरयुतं सूर्य्यकोटिसमप्रभम ॥ प्रथमं कामकूटस्य चाद्ये नियोजयेदिदम् ॥ वान्तं वह्निंसमायुक्तं वामनेत्रविभूषितम् ॥ नादबिन्दुसमायुक्तं श्रियो बीजमुदाहृतम् । द्वितीयं कामबीजन्तु जपेदुक्त्वा च सुन्दरि ! ॥ गगनं वह्निसंयुक्तं वामनेत्रविभूषितम् । नादबिन्दुसमायुक्तं मायाबीजं प्रकीर्त्तितम् ॥ मधुमतीं जपेच्चापि सर्व्वकामफलप्रदाम् ॥” इति तन्त्रसारः ॥ * ॥ * ॥ रागिणीविशेषः । सा च वसन्तरागस्य प्रिया । यथा, -- “वसन्ती पञ्चमी दौली वहारी रूपमञ्जरी । रागिण्य ऋतुराजस्य वसन्तस्य प्रिया इमाः ॥” अस्या ध्यानं यथा, -- “सङ्गीतगोष्ठीषु गरिष्ठभावं समाश्रिता गायनसम्प्रदायैः । खर्व्वाङ्गिणी नूपुरपादपद्मा सा पञ्चमी पञ्चमवेदवेत्त्री ॥” इति सङ्गीतदर्पणः ॥ (नदीविशेशः । यथा, महाभारते । ६ । ९ । २६ । “वरां वीरकराञ्चापि पञ्चमीञ्चमहानदीम् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमी¦ स्त्री पञ्च पतीन् मिनोति वध्नाति प्रेम्णा मी--वन्धेपिक्व्। पञ्चपाण्डवपतिकायां
१ द्रौपद्र्याम्
२ शारिशृङ्ख-लायाञ्च (पाशारछक) पञ्चन् + पूरणे मट्। पञ्चानां पूरण्यांस्त्री ङीप्। अस्य बहु॰ समासे समासवाच्यत्वे अच्समा॰। कल्याणी पञ्चमी यासु रात्रिषु कल्याणपञ्चमारात्रयः। मुख्यत्वाभावे कप्। कल्याणी पञ्चमी यत्रपक्षे कल्याणपञ्चमीकः पक्षः अत्र पूरण्या मुख्यत्वा-भावात् न समासवाच्यत्वम्। चन्द्रमण्डलस्य प्रवेश-निर्गमाभ्यां सूर्य्यकिरणप्रतिविम्बयोग्यत्वयोग्यत्वाभाव-युक्तायां चन्द्रस्य
४ पञ्चम्यां कलायां
५ तदुपलक्षिततिथौ च स्त्री। विहितकर्भविषयविशेषे तस्याःकथं ग्राह्यतेति कालमा॰ निर्णीतं यथा
“युग्मशास्त्रेण पञ्चमी पूर्वविद्धा ग्राह्या। ननु
“प्रायःप्रातरुपोष्या हि तिथिर्दैवे फलेप्सुभिरिति” शिवरहस्यसौ-रपुराणयोस्तिथ्यग्रभागस्योपवामाङ्गत्वाभिधानात् पञ्च-म्युपवामः परेद्युः प्राप्नीति, तन्न हारीतेन परविद्धायाःप्रतिषिद्धत्वात्।
“चतुर्थीसंयुता कार्या पञ्चमी षरयान तु। दैवे कर्मणि पित्र्ये च शुक्लपक्षे तथाऽसिते” इति। नचैतावता प्रायः प्रातरिति वचनस्य निर्विपयत्वंश{??}नीयम्। निर्णीतासु निर्णेष्यमाणासु च तिथिषु[Page4190-b+ 38] यत्र यत्र परविद्धोपवासः शास्त्रान्तरेण प्राप्तस्तस्य स-र्वस्य तद्विषयोपपत्तेः। न च तेनैव शास्त्रेण तदुपवा-ससिद्धेः कृतमनेन वचनेनेति शङ्कनीयम्। सामान्य-विशेषरूपेण शास्त्रद्वयस्यापि चरितार्थत्वात्। तस्य सा-मान्यशास्त्ररूपस्य प्राप्तोपवासवचनस्य विरोधिना षष्ठीयुक्तपञ्चमीनिषेधकेन विशेषशास्त्ररूपेण हारीतबचनेनबाधो युज्यते। एतादृश बाधमभिलक्ष्यैव प्रायः व्रात-रुपोष्येति प्रायःशब्दः प्रयुक्तः। प्रतिपन्न्यायेन पौर्वा-ह्णिकी इति वचनबलात्। पञ्चम्यामपि दानव्रतयोःपरदिनानुष्ठानप्राप्तौ तद्व्यावृत्तये हारीतवचने दैवे कर्म-णीत्युच्यते। न च दैवकर्मणि पूर्वाह्णस्य कर्मकालशास्त्रप्राबल्यस्य च वर्णितत्वात् तद्वाधो न युक्त इति शङ्क-नीयम्। विधेर्निषेधस्य वा प्रतिपदोक्तस्य प्रबलतरत्वात्। न च पूर्वदिनपूर्वाह्णस्यात्यन्तकर्मकालत्वं, साकल्यवचना-पादितकर्मकालत्वस्य सद्भावात्। ईदृशमेव विपयमभि-लक्ष्य साकल्यवचनस्य प्रवृत्तत्वात्। स्वाभाविकतिथि-व्याप्तियुक्ते विषये साकल्यवचनस्य निरर्थकत्वात्। तस्मा-द्दैव कर्मणि परविद्धायाः पञ्चम्याः निषेधो न विरुध्यते। नन्वेवमपि पित्र्ये निषेधो निरर्थकः। पित्र्यस्य स्वतएव परविद्धायामप्राप्तत्वात्। मैवं दृष्टान्ततयापि चतदुपन्यासोपपत्तेः। यथा पित्र्यकर्मणि उत्तरविद्धा नग्राह्या तथा दैवेऽपीति विवक्षया दैवपित्र्ययोः सहो-पन्यासः। ननु व्यासनिगममतयुग्मशास्त्रमुदाहृत्य प-ञ्चम्याः पूर्वविद्धत्वमभिधीयते। आपस्तम्बादयस्तु तद्विप-र्य्ययेण युग्मान्युदाजह्नुः।
“प्रतिपत् सद्वितीया स्याद्द्वितीया प्रतिपद्युता। चतुर्थीसहिता या च सा तृतीयाफलप्रदा। पञ्चमी च प्रकर्त्तव्या षष्ट्या युक्ता च नारद!” इति। अतएवैतद्युग्मशास्त्रपर्य्यालोचने पञ्चम्याः पर-विद्धत्वं प्राप्नोति। बाढम् अतएवात्र शुक्लकृष्णशास्त्रेणव्यवस्था प्रमक्ता तां निषेद्धुं हारीतेन शुक्लपक्षे तथाऽसिते इत्युक्तम्। न च सा व्यवस्था वचनेन निषेद्धुमश-क्या, किं हि वचनं न कुर्यान्नास्ति वचनस्यातिभार इतिग्यायात्। तस्माद्धारीतवचनेन पञ्चमी पूर्वविद्धा ग्राह्या। स्कन्दपुराणेऽपि
“पञ्चमी च तथा कार्य्या चतुर्थ्या संयुताविभो!” तथा पद्मपुराणभविष्यत्पुराणयोः पूर्वोत्तरविद्धाविषयौ विधिनिषेधौ खर्य्येते।
“पञ्चमी घ च-तुर्थ्या तु कार्या षष्ट्या न मयुता” इति। यत्तु ब्रह्मषैवर्त्ते-ऽभिहितम्
“पञ्चमी च प्रकर्त्तिव्या मष्ट्या युक्ता सु नारद![Page4191-a+ 38] इति तद्वचनं स्कन्दोपवासविषयतया सङ्कोचनीयम्। बाक्यशेषे तथाभिधानात्
“स्कन्दोपवासे स्वीकार्यां पञ्चमीपरसंयुता” इति वाक्यशेषः। न चासञ्जातविरोधिनोवाक्योपक्रमस्य सञ्जातविरोधिना वाक्यशेषेण कथं स-ङ्कोच इति शङ्कनीयम्। असन्दिग्धोपक्रमस्य प्राबल्ये-ऽपि सन्दिग्धोपक्रमस्य वाक्यशेषेण निर्णेतव्यत्वात्। अतएव जैमिनिनापि सूत्रितम्।
“सन्दिग्धे तु वाक्यस्यशेषादिति”। अतः स्कन्दोपवासे पञ्चमी परविद्धा। अ-न्यत्र पूर्वविद्धेति स्थितम्”।
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पञ्चमी f. See. below
पञ्चमी f. (of मSee. )the fifth day of the half month (sc. तिथि) , S3rGr2S. MBh. etc.
पञ्चमी f. the 5th or ablative case (or its terminations) , a word in the ablative Pa1n2. 2-1 , 12 etc.
पञ्चमी f. a termination of the imperative Ka1t.
पञ्चमी f. (in music) a partic. रागिणीor मूर्छना
पञ्चमी f. a brick having the length of 1/5 (of a पुरुष), S3ulb.
पञ्चमी f. = पञ्चनीL.
पञ्चमी f. N. of द्रौपदी(who was the wife of 5 ; See. पाञ्चालि) L.
पञ्चमी f. of a river MBh. VP.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a name of ललिता; a शक्ती. Br. IV. १७. १८; ३६. २५.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
PAÑCAMĪ : , An ancient river of Uttara Bhārata. People used to drink water from this river. Chapter 9, Bhīṣma Parva).
_______________________________
*3rd word in right half of page 552 (+offset) in original book.