पञ्चाङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाङ्गम्, क्ली, पञ्चानां अङ्गानां एकवृक्षस्य त्वक्- पत्रपुष्पमूलफलानां समाहारः । यथा, -- “त्वक्पत्रकुसुमं मूलं फलमेकस्य शाखिनः । एकत्र मिलितञ्चैतत् पञ्चाङ्गमिति संज्ञितम् ॥” इति राजनिर्घण्टः ॥ पुरश्चरणविशेषः । यथा, -- “जपहोमौ तर्पणञ्चाभिषेको विप्रभाजनम् । पञ्चाङ्गोपासनं लोके पुरश्चरणमिष्यते ॥” इति तन्त्रसारः ॥ वारतिथिनक्षत्रयोगकरणात्मकपञ्जिका । यथा, -- “तिथिर्वारश्च नक्षत्रं योगः करणमेव च । पञ्चाङ्गस्य फलं श्रुत्वा गङ्गास्नानफलं लभेत्” ॥ इति ज्योतिषम् ॥

पञ्चाङ्गः, पुं, (पञ्चाङ्गाणि यस्य ।) कमठः । इति शब्दमाला ॥ अश्वविशेषः । तत्पर्य्यायः । पञ्च- भद्रः २ पुष्पिततुरङ्गमः ३ । इति शब्दरत्नावली ॥ प्रणामविशेषः । यथा, -- “बाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा । पञ्चाङ्गोऽयंप्रणामः स्यात् पूजासु प्रवराविमौ ॥” इति तन्त्रसारः ॥ (राजनयः । यदुक्तम् । “सहायाः साधनोपाया विभागो देशकालयोः । विनिपातप्रतीकारः सिद्धिः पञ्चाङ्ग इष्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाङ्ग¦ पुंस्त्री॰ पञ्चाङ्गानि यस्य।

१ कमठे शब्दमाला। पञ्च-भद्राख्ये

२ अश्वभेदे शब्दमा॰
“बाहुभ्यां चैव जानुभ्यांशिरसा वक्षसा दृशा”। पञ्चाङ्गोऽयं प्रणामः स्यात्” इतितन्त्रसारोक्ते

३ प्रणामभेदे
“त्वक्पत्रकुसुमं मूलं फल-मेकस्य शाखिनः। एकत्र मिलितं चैतत् पञ्चाङ्गमितिसंज्ञितम्” राजनि॰ उक्तेषु

४ एकवृक्षत्वगादिषु पञ्चसु
“जपहोमौ तर्पणञ्चाभिषेको विप्रभोजनम्। पञ्चाङ्गो-पासनं लोके पुरश्चरणमिष्यते” तन्त्रसारोक्ते

५ महापुर-श्चरणे न॰।
“तिथिर्वारश्च नक्षत्रं योगः करणमेव च। पञ्चाङ्गमेतदुद्दिष्टम्” ज्यो॰ उक्तेषु

६ तिथ्यादिषु।
“सागमोदीर्घकालश्च निश्छिद्रोऽन्थरवोज्झितः। प्रत्यर्थिसन्नि-धानञ्च पञ्चाङ्गो भोग इष्यते” कात्या॰ उक्ते आगमादि-पञ्चकयुक्ते

७ भोगे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाङ्ग¦ mfn. (-ङ्गः-ङ्गी-ङ्गं) Having five limbs or members, five parts or subdivisions, consisting of five things, &c. n. (-ङ्गं)
1. Any aggregate of five parts or five things.
2. Five modes of dovo- tion; viz:--silent prayer, burnt offering, libations, bathing idols, [Page414-a+ 60] and feeding Bra4hmans.
3. An almanack describing solar days, lunar days, and the periods of asterisms, Yogas and Karanas. m. (-ङ्गः)
1. A tortoise.
2. A species of horse with five spots on his body: see पञ्चभद्र।
3. Reverence by extending the hands, bending the knees and head, and in speech and look. E. पञ्च five, अङ्ग body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाङ्ग/ पञ्चा n. (mostly ibc. )5 members or parts of the body Kir. ; 5 parts of a tree (viz. root , bark , leaf , flower , and fruit) L. ; 5 modes of devotion (viz. silent prayer , oblations , libations , bathing idols , and feeding Brahmans) W.

पञ्चाङ्ग/ पञ्चा n. any aggregate of 5 parts ib.

पञ्चाङ्ग/ पञ्चा mf( ई)n. 5-limbed , 5-membered (with प्रणामm. obeisance made with the arms , knees , head , voice , and look Tantras. )

पञ्चाङ्ग/ पञ्चा mf( ई)n. having 5 parts or subdivisions Ka1v. (also गिकSus3r. )

पञ्चाङ्ग/ पञ्चा m. a tortoise or turtle L. (See. पञ्चा-ङ्ग-गुप्त) ; a horse with 5 spots in various parts of his body L. (See. पञ्च-भद्र)

पञ्चाङ्ग/ पञ्चा n. a calendar or almanac (treating of 5 things , viz. solar days , lunar days , नक्षत्रs Yogas. and करणs) L.

"https://sa.wiktionary.org/w/index.php?title=पञ्चाङ्ग&oldid=408934" इत्यस्माद् प्रतिप्राप्तम्