सामग्री पर जाएँ

पञ्चाङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चाङ्गम्, क्ली, पञ्चानां अङ्गानां एकवृक्षस्य त्वक्- पत्रपुष्पमूलफलानां समाहारः । यथा, -- “त्वक्पत्रकुसुमं मूलं फलमेकस्य शाखिनः । एकत्र मिलितञ्चैतत् पञ्चाङ्गमिति संज्ञितम् ॥” इति राजनिर्घण्टः ॥ पुरश्चरणविशेषः । यथा, -- “जपहोमौ तर्पणञ्चाभिषेको विप्रभाजनम् । पञ्चाङ्गोपासनं लोके पुरश्चरणमिष्यते ॥” इति तन्त्रसारः ॥ वारतिथिनक्षत्रयोगकरणात्मकपञ्जिका । यथा, -- “तिथिर्वारश्च नक्षत्रं योगः करणमेव च । पञ्चाङ्गस्य फलं श्रुत्वा गङ्गास्नानफलं लभेत्” ॥ इति ज्योतिषम् ॥

पञ्चाङ्गः, पुं, (पञ्चाङ्गाणि यस्य ।) कमठः । इति शब्दमाला ॥ अश्वविशेषः । तत्पर्य्यायः । पञ्च- भद्रः २ पुष्पिततुरङ्गमः ३ । इति शब्दरत्नावली ॥ प्रणामविशेषः । यथा, -- “बाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा । पञ्चाङ्गोऽयंप्रणामः स्यात् पूजासु प्रवराविमौ ॥” इति तन्त्रसारः ॥ (राजनयः । यदुक्तम् । “सहायाः साधनोपाया विभागो देशकालयोः । विनिपातप्रतीकारः सिद्धिः पञ्चाङ्ग इष्यते ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चाङ्ग¦ पुंस्त्री॰ पञ्चाङ्गानि यस्य।

१ कमठे शब्दमाला। पञ्च-भद्राख्ये

२ अश्वभेदे शब्दमा॰
“बाहुभ्यां चैव जानुभ्यांशिरसा वक्षसा दृशा”। पञ्चाङ्गोऽयं प्रणामः स्यात्” इतितन्त्रसारोक्ते

३ प्रणामभेदे
“त्वक्पत्रकुसुमं मूलं फल-मेकस्य शाखिनः। एकत्र मिलितं चैतत् पञ्चाङ्गमितिसंज्ञितम्” राजनि॰ उक्तेषु

४ एकवृक्षत्वगादिषु पञ्चसु
“जपहोमौ तर्पणञ्चाभिषेको विप्रभोजनम्। पञ्चाङ्गो-पासनं लोके पुरश्चरणमिष्यते” तन्त्रसारोक्ते

५ महापुर-श्चरणे न॰।
“तिथिर्वारश्च नक्षत्रं योगः करणमेव च। पञ्चाङ्गमेतदुद्दिष्टम्” ज्यो॰ उक्तेषु

६ तिथ्यादिषु।
“सागमोदीर्घकालश्च निश्छिद्रोऽन्थरवोज्झितः। प्रत्यर्थिसन्नि-धानञ्च पञ्चाङ्गो भोग इष्यते” कात्या॰ उक्ते आगमादि-पञ्चकयुक्ते

७ भोगे च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चाङ्ग¦ mfn. (-ङ्गः-ङ्गी-ङ्गं) Having five limbs or members, five parts or subdivisions, consisting of five things, &c. n. (-ङ्गं)
1. Any aggregate of five parts or five things.
2. Five modes of dovo- tion; viz:--silent prayer, burnt offering, libations, bathing idols, [Page414-a+ 60] and feeding Bra4hmans.
3. An almanack describing solar days, lunar days, and the periods of asterisms, Yogas and Karanas. m. (-ङ्गः)
1. A tortoise.
2. A species of horse with five spots on his body: see पञ्चभद्र।
3. Reverence by extending the hands, bending the knees and head, and in speech and look. E. पञ्च five, अङ्ग body.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पञ्चाङ्ग/ पञ्चा n. (mostly ibc. )5 members or parts of the body Kir. ; 5 parts of a tree (viz. root , bark , leaf , flower , and fruit) L. ; 5 modes of devotion (viz. silent prayer , oblations , libations , bathing idols , and feeding Brahmans) W.

पञ्चाङ्ग/ पञ्चा n. any aggregate of 5 parts ib.

पञ्चाङ्ग/ पञ्चा mf( ई)n. 5-limbed , 5-membered (with प्रणामm. obeisance made with the arms , knees , head , voice , and look Tantras. )

पञ्चाङ्ग/ पञ्चा mf( ई)n. having 5 parts or subdivisions Ka1v. (also गिकSus3r. )

पञ्चाङ्ग/ पञ्चा m. a tortoise or turtle L. (See. पञ्चा-ङ्ग-गुप्त) ; a horse with 5 spots in various parts of his body L. (See. पञ्च-भद्र)

पञ्चाङ्ग/ पञ्चा n. a calendar or almanac (treating of 5 things , viz. solar days , lunar days , नक्षत्रs Yogas. and करणs) L.

"https://sa.wiktionary.org/w/index.php?title=पञ्चाङ्ग&oldid=408934" इत्यस्माद् प्रतिप्राप्तम्