पञ्चाङ्गम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चाङ्गम्, क्ली, पञ्चानां अङ्गानां एकवृक्षस्य त्वक्- पत्रपुष्पमूलफलानां समाहारः । यथा, -- “त्वक्पत्रकुसुमं मूलं फलमेकस्य शाखिनः । एकत्र मिलितञ्चैतत् पञ्चाङ्गमिति संज्ञितम् ॥” इति राजनिर्घण्टः ॥ पुरश्चरणविशेषः । यथा, -- “जपहोमौ तर्पणञ्चाभिषेको विप्रभाजनम् । पञ्चाङ्गोपासनं लोके पुरश्चरणमिष्यते ॥” इति तन्त्रसारः ॥ वारतिथिनक्षत्रयोगकरणात्मकपञ्जिका । यथा, -- “तिथिर्वारश्च नक्षत्रं योगः करणमेव च । पञ्चाङ्गस्य फलं श्रुत्वा गङ्गास्नानफलं लभेत्” ॥ इति ज्योतिषम् ॥

"https://sa.wiktionary.org/w/index.php?title=पञ्चाङ्गम्&oldid=146171" इत्यस्माद् प्रतिप्राप्तम्