पञ्जर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्जरम्, क्ली, (पञ्ज्यते रुध्यते उदरयन्त्रमनेन । पजि- रोधे + अरन् ।) कायास्थिवृन्दम् । शरीरास्थि- पञ्जरम् । (यथा, पञ्चदशी । ६ । १७३ । “देहादिपञ्जरं यन्त्रं तदारोहोऽभिमानिता । विहितप्रतिषिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् ॥” पञ्ज्यते रुध्यते पक्ष्यादिरत्र ।) पक्ष्यादिबन्धगृहम् । इत्यमरभरतौ । पि~ज्रा इति भाषा । तत्- पर्य्यायः । शालारम् २ । इति जटाधरः ॥ (यथा, हेः रामायणे । २ । ६५ । ५ । “तेन शब्देन विहगाः प्रतिबुद्धाश्च सस्वनुः । शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥”)

पञ्जरः, पुं, (पञ्ज्यते रुध्यते आत्मा यस्मिन् । पजि- रोधे + अरन् ।) शरीरम् । इति त्रिकाण्ड- शेषः ॥ (यथा, हठयोगदीपिकायाम् । ४ । १८ । “द्वासप्ततिसहस्राणि नाडीद्बाराणि पञ्जरे । सुषुम्ना शाम्भवी शक्तिः शेषास्त्वेव निरर्थकाः ॥” “पञ्जरे पञ्जरवच्छिरास्थिभिर्बद्धे शरीरे ।” इति तट्टीका ॥) देहास्थिसमूहः । तत्पर्य्यायः । कङ्कालः २ देहबन्धास्थि ३ । इति जटाधरः ॥ कलियुगम् । गवां नीराजनाविधिः । इति सार- स्वताभिधानम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प(पि)ञ्जर¦ पु॰ न॰ पजि (पिजि) वा अरन्।

१ शरीरास्थिवृन्देकङ्काले

२ विहङ्गमादिबन्धनस्थाने न॰ अमरः।

३ कलियुगे

४ गवां नीराजनाविधौ च सारकौमुदी। ततः चतुरय्यों सङ्काशा॰ ण्य। पाञ्जर्य्य तत्सन्निकृष्टदेशादौ त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्जरम् [pañjaram], A cage, an aviary; पञ्जरशुकः, भुजपञ्जरः &c.

रः, रम् Ribs.

A skeleton.

रः The body.

The Kaliyuga.

A purificatory ceremony performed on cows. -Comp. -आखेटः a sort of basket or trap for catching fish. -शुकः a parrot in a cage, caged parrot; क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते V.2.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्जर n. a cage , aviary , dove-cot , net MBh. Ka1v. etc.

पञ्जर n. a skeleton , the ribs Prab. Can2d2. (also m. L. )

पञ्जर n. N. of partic. prayers and formularies Va1mP.

पञ्जर m. (L.) the body. Udbh.

पञ्जर m. the कलि-युगL.

पञ्जर m. a purificatory ceremony performed on cows L.

पञ्जर m. a kind of bulbous plant( v.l. पञ्जल).

"https://sa.wiktionary.org/w/index.php?title=पञ्जर&oldid=409586" इत्यस्माद् प्रतिप्राप्तम्