पटोल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोलम्, क्ली, (पट गतौ + “कपिगडिगण्डीति ।” उणां । १ । ६७ । इति ओलच् ।) वस्त्रभेदः । इति मेदिनी ॥ तत्तु गुज्जरदेशीयविचित्रपट्टवस्त्रम् ॥

पटोलः, पुं, (पटति बहुगुणान् प्राप्नोतीति । पट- गतौ + “कपिगडिगण्डीति ।” उणां १ । ६७ । इति ओलच् ।) स्वनामप्रसिद्धलतिकाफलम् । पलवल् इति हिन्दी भाषा ॥ (यथा, पञ्चतन्त्रे १ । ४०९ । “साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति कोऽथः पटोलेन ॥”) तत्पर्य्यायः । कुलकम् २ तिक्तकः ३ पटुः ४ । इत्यमरः । २ । ४ । १५५ ॥ कर्कशदलः ५ कुलजः ६ वाजिमान् ७ लताफलः ८ राजफलः ९ वर- तिक्तः १० अमृताफलः ११ । इति रत्नमाला ॥ कटुफलः १२ कटुकः १३ कर्कशच्छदः १४ राज- नामा १५ अमृतफलः १६ पाण्डुः १७ पाण्डु- फलः १८ बीजगर्भः १९ नागफलः २० कुष्ठारिः २१ कासमर्द्दनः २२ पञ्जरः २३ आजीफलः २४ ज्योत्स्नी २५ कच्छुघ्नी २६ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । सारकत्वम् । पित्तवलाशकफकण्डूतिकुष्ठासृग्ज्वरदाहार्त्ति- नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । पाचनत्वम् । हृद्यत्वम् । वृष्यत्वम् । लघुत्वम् । अग्निदीपनत्वम् । स्निग्धत्वम् । कासदोषत्रय- क्रिमिनाशित्वञ्च । तस्य मूलादिगुणाः । “पटोलस्य भवेन्मूलं विरेचनकरं सुखात् । नालं श्लेष्महरं पत्रं पित्तहारि फलं पुनः ॥ दोषत्रयहरं प्रोक्तं तद्वत्तिक्ता पटोलिका ॥” इति भावप्रकाशः ॥ अपि च राजवल्लभः । “पटोलं कफपित्तासृग्ज्वरकुष्ठव्रणापहम् । विसर्पनयनव्याधित्रिदोषगरनाशिनौ । पटोलफलकञ्चेति किञ्चिद्गुणान्तरावुभौ ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोल पुं।

पटोलः

समानार्थक:कुलक,पटोल,तिक्तक,पटु

2।4।155।1।3

सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः। कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोल¦ पु॰ पट--ओलच्। स्वनामख्याते

१ लताभेदे

३ वस्त्रभेदेन॰ मेदि॰। तल्लताया मूलादिगुणाः
“पटोलस्य भवेन्मूलंविरेचनकरं सुखात्। नालं श्लेष्महरं, पत्रं पित्तहारिफलं पुनः। दोषत्रयहरं प्रोक्तं तद्वत्तिक्ता पटोलिकाभावप्र॰ उक्ताः।
“पटोलपत्रं पित्तघ्नं दीपनं पाचनं लघु। स्निग्धं वृष्यं तथोष्णञ्च ज्वरकासकृमिप्रणुत्। पटोलंकफपित्तासृग्ज्वरकुष्ठव्रणापहम्। विसर्पनयनव्याधित्रि-दोषगरनाशनम्। पटोलफलकञ्चेति किञ्चिद्गुणान्तरावुभौ” राजवल्लभः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोल¦ m. (-लः) A kind of cucumber, commonly Parwor, (Trichosanthes diœca.) n. (-लं) A sort of cloth, a kind of chintz. f. (-ली) A small cucumber, either the same as above, (Trichosanthes diœca,) or another kind, (Luffa acutangula.) E. पट् to go, in the causal form, aff. ओलच्; removing malady.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोलः [paṭōlḥ], A species of cucumber (Mar. प़डवळ); साम- साध्येषु कार्येषु यो दण्डं योजयेद् बुधः । स पित्ते शर्कराशाम्ये पटोलं कटुकं पिबेत् ॥ Pt.3.132; also पटुक. -लम् A kind of cloth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पटोल m. (See. पटु, पटुक)Trichosanthes Dioeca

पटोल n. its fruit Sus3r. Pan5c.

पटोल n. a kind of cloth L.

"https://sa.wiktionary.org/w/index.php?title=पटोल&oldid=410083" इत्यस्माद् प्रतिप्राप्तम्