पताकिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकी, [न्] त्रि, (पताका विद्यतेऽस्य । पताका + इनिः ।) वैजयन्तिकः । पताकाधारी । इत्य- मरः । २ । ८ । ७१ ॥ (यथा, महाभारते । ६ । १७ । २० । “स तु गोवासनः शैव्यः सहितः सर्व्वराजभिः । ययौ मातङ्गराजेन राजार्हेण पताकिना ॥”) रिष्टारिष्टबोधकचक्रविशेषः । तस्य लिखनक्रमो यथा, -- “तिर्य्यगूर्द्धगता रेखास्तिस्रो देयाः पताकया । युताः कार्य्या वेधविदा सर्व्वसङ्गतरेखया ॥ दक्षस्थोद्गतरेखातो वामं मेषाद्यराशयः । पञ्चाष्टयुग्मविंशाश्च शड्दशेन्द्राग्निसागराः । कर्क्कटान्मीनपर्य्यन्तमङ्का देया यथाक्रमम् ॥ ५ -- ४ ८ -- ३ २ -- १४ २० ६ १० बालस्य जन्मकालीनग्रहलग्नमजादिष । विन्यस्य चिन्तयेत् प्राज्ञः शुभाशुभं यथाग्रहात् ॥” तत्र शुभाशुभज्ञानं यथा, -- “शुभदण्डयोगवेधैर्लग्नाद्बालस्य शोभनम् । पापदण्डयोगवेधैराश्यङ्काद्रिष्टिकालवित् । बलेऽधिके दिनं मध्ये मासो हीने च हायनम् ॥” पलपताकी यथा, -- “प्रतिदण्डं पलान्येषां ज्ञात्वा वाच्यं क्वचिच्छभम् ॥ रवौ च वेदा वसवः सुधांशौ कुजे च वाणाः शशिजे तथाङ्काः । शनावृतुर्दिक् च बृहस्पतौ स्या- द्राहौ तुरङ्गा भृगुजे च रुद्राः ॥” बालस्य शुभाशुभफलं यथा, -- “अशुभे दण्डसंयोगे सर्व्वत्र पुण्यवर्जिते । बालस्य मरणं शीघ्रं यदि पापैः समन्वितम् ॥ अशुभग्रहदण्डे तु सर्व्वत्र पापवर्ज्जिते । बालस्य कुशलं सर्व्वं शुभैर्यदि समन्वितम् ॥ अशुभो दण्डनाथो हि वेधश्चेत्तेन लभ्यते । मरणं तत्र वक्तव्यं बालस्य नान्यथा भवेत् ॥ पापस्य दण्डमात्रे तु तद्योगवेधवर्जिते । बालस्य कुशलं तत्र शुभैर्यदि समन्वितम् ॥” इति ज्योतिषतत्त्वे पताकीवेधः ॥ (स्त्रियां ङीप् । सेना । यथा, रघुः । ४ । ८२ । “न प्रसेहे स रुद्धार्कमधारावर्षदुर्द्दिनम् । रथवर्त्म रजोऽप्यस्य कुत एव पताकिनीम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकिन् पुं।

ध्वजधारिः

समानार्थक:पताकिन्,वैजयन्तिक

2।8।71।1।3

चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः। अनुप्लवः सहायश्चानुचरोऽभिचरः समाः॥

स्वामी : सैन्याधिपतिः

वैशिष्ट्यवत् : पताका

वृत्ति : पताका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकिन्¦ त्रि॰ पताका + अस्त्यर्थे ब्रीह्यानं वा इनि। पता-कायुक्ते जन्मलग्ने ग्रहविशेषवेथवशात् तदीयदण्डप-लादिजन्मतः फलविशेषसूचके चक्रभेदे तत्स्वरूपादिकंज्यो॰ त॰ उक्तं यथा(
“तिर्य्यगूर्द्ध्वगता रेखास्तिस्रोदेयाः पताकया। युताःकार्य्या वेधविदा सर्वसङ्गतरेखया। दक्षस्थोद्गतरेखातोवामं मेषादिराशयः। पञ्चाष्टयुग्मविंशाश्च षड्दशेन्द्राग्नि-सागराः। कर्कटान्नीनपर्य्यन्तमङ्का देया यथाक्रमम्। वाकस्य जन्मकासीनग्रहलग्नमजादिषु। विन्यस्य चिन्तयेत्[Page4215-b+ 38] प्राज्ञः शुभाशुभं यथाक्रभम्। शुभदण्डयोगवेधैर्लग्नाद्-यालस्य शोभनम्। पापदण्डयोगवेधैराश्यङ्काद्रिष्टिकाल-वित्। बलाधिके दिनं, मध्ये मासो, हीने च हाय-नम्। कर्कोमीनधनुर्भ्याञ्च हरिः कीटघटेन च। स्त्रियास्तौलिमृगाभ्याञ्च घटे मीनेन कन्थया। धनुषोमृगकर्किभ्यां मकरे धनुषा स्त्रिया। मीने कर्कितुला-मृद्भ्यां मीनस्त्रीधनुधा त्वजे। तुलाकर्किमृगैर्द्वन्द्वे कीट-कुम्भवृषेषु च। सिंहवद्बेध एतेषु वामदक्षिणसम्मुखे। राहुकेत्वर्कसौरारैः पापैर्बिद्धो युतोऽशुभः। तदन्यै-र्युतविद्धस्तु लग्नराशिः शुभप्रदः। एकोनविंशतिः कर्केसिंहे सप्तदशैव तु। षट् त्रिंशदबलायाञ्च षड्विंशति-स्तुलाधरे। वृश्चिके सिंहवज्ज्ञेयमूनत्रिंशच्छरासने। षड्विंशं मकरे ज्ञेयं, कुम्भे सप्तदश स्मृताः। नवयुन्मेतथा मीने मेषे षड्दशभिस्तथा। वृषभे च यथा सिंहेयुम्मेऽङ्कहरलोचने। त्रिनयाङ्कादियं संख्या दिन-मासाव्दनिर्णये। एकाङ्कात् द्विगृहाङ्काद्वा क्वचि-द्रिष्टेश्च सम्मवः। वारेशादर्द्धयामेषु रात्र्यह्नोः पञ्च-षट्क्रमात्। अधिपाः स्युर्ग्रहास्तत्र यथार्काहे भवन्तिहि। रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि। रवि-शुक्रज्ञरात्रीशशनीज्यकुजभास्कराः। दिने, तूह्याःपरेष्वेवं तथा रात्रावपि ग्रहाः। पापदण्डे भवेदिष्टिःशुभदण्डे शुभं मवेत्। शुभग्रहस्य दण्डे तु कर्मारम्भा-च्छुभं भवेत्। आरम्भात् पापदण्डे तु कर्म निष्कलतांव्रर्जत्। यस्यार्द्धयामस्तस्यैव प्राग्दण्डः समुदाहृतः। षट्षटपरीत्य दण्डाश्च त्रयो रात्रौ मतास्तथा। आदित्येमृगुजो बुधोऽपि च शशी, सोमे शनीज्यौ कुजो, भौमे-ऽर्कः सितसोमभजौ, च शशिज्रे सोमः शनिर्वाक्पतिः। जीवेऽङ्गाररवी भृगुर्भृगुसुते सौम्येन्दुमार्त्तण्डजाः। काले जीवमहीजतिग्मकिरणा रात्रौ च दण्डाधिपाः। यामार्द्धाघिपसंख्यातो द्वितीयस्तु तदर्द्धतः। तदर्द्धात् तुतृतीयः स्यात्तदर्द्धात् तु तुरीयकः। अङ्काभावे तु राहुःस्यात्तदङ्को वसुसंख्यकः। भग्नाङ्कस्य परित्यागाद्दिवादण्डाधिपा यथा। रविदनुजबुधग्लौश्चन्द्रसूरासुरज्ञाःकुजरविदनुजज्ञाः ज्ञेन्दुसूराञ्चुराश्च। गुरुशशिरविदैत्याःशुक्रभौमार्कदैत्याः शनिकुजरविदैत्या दण्डपाह्यर्द्धयामे”। दनुजो राहुः। अर्द्धयामे दिनार्द्धप्रहरे। शुभ-दण्डमाह।
“शेषावर्कस्य दण्डौ सततशुभकरावादिशेषौतथेन्दोः, शेषो दण्डः कुजस्याप्यथ गुरुबुधयोराद्यमाद्यं[Page4216-a+ 38] प्रशस्तम्। आदिर्दण्डस्तथैको भृगुकुलनृपतेः सर्वकार्य्येहि शस्तो दण्डाश्चत्वार एव क्वचिदपि समये नैव सौरेःप्रशस्ताः। प्रतिदण्डं पलान्येषां ज्ञात्वा वाच्यं क्वचि-च्छुभम्। रवौ च वेदा, वसवः सुधांशौ, कुजे च बाणाःशशिजे तथाङ्काः। शनावृतु, र्दिक् च वृहस्पतौ स्या-द्राहौ तुरङ्गा भृगुजे च रुद्राः। अशुभे दण्डसंयोगेसर्वत्र पुण्यवर्जिते। बालस्य मरणं शीघ्रं यदि पापैःसमन्वितम्। अशुभग्रहदण्डे तु सर्वत्र पापवर्जिते। बालस्य कुशलं सर्वं शुभैर्यदि समन्वितम्। अशुभोदण्डनाथो हि वेधश्चेत्तेन लभ्यते। मरणं तत्र वक्तव्यंवालस्य नान्यथा भवेत्। पापस्य दण्डमात्रे तु तद्योग-वेधवर्जिते। वालस्य कशलं तत्र शुभैर्यदि समन्वितम्”। वर्षपताकी तु केतुपताकाशब्दे

२२

३६ पृ॰ उक्तः तत्र दृश्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकिन्¦ m. (-की)
1. An ensign, a standard bearer.
2. A scheme for casting a nativity. f. (-नी) An army. E. पताका a flag, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकिन् [patākin], a. Having or carrying a banner, adorned with flags. -m.

An ensign, standard-bearer.

A flag.

A scheme or figure for casting a nativity.

A chariot; क्षितिरेणुकेतुवसनाः पताकिनः Śi.13.4. -नी An army; (न प्रसेहे) रथवर्त्मरजो$प्यस्य कुत एव पताकिनीम् R.4.82; Ki.14.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकिन् mfn. having or bearing a flag , adorned with flags MBh. R. etc.

पताकिन् mfn. (with नौ)furnished with sails (?) MBh.

पताकिन् m. an ensign or standard-bearer ib.

पताकिन् m. a flag Hariv.

पताकिन् m. a chariot S3is3. xiii , 4

पताकिन् m. a figure used in divination L.

पताकिन् m. N. of a warrior on the side of the कुरुs MBh.

पताकिन् m. N. of a partic. divinity BrahmaP.

"https://sa.wiktionary.org/w/index.php?title=पताकिन्&oldid=411470" इत्यस्माद् प्रतिप्राप्तम्