पताकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पताकी, [न्] त्रि, (पताका विद्यतेऽस्य । पताका + इनिः ।) वैजयन्तिकः । पताकाधारी । इत्य- मरः । २ । ८ । ७१ ॥ (यथा, महाभारते । ६ । १७ । २० । “स तु गोवासनः शैव्यः सहितः सर्व्वराजभिः । ययौ मातङ्गराजेन राजार्हेण पताकिना ॥”) रिष्टारिष्टबोधकचक्रविशेषः । तस्य लिखनक्रमो यथा, -- “तिर्य्यगूर्द्धगता रेखास्तिस्रो देयाः पताकया । युताः कार्य्या वेधविदा सर्व्वसङ्गतरेखया ॥ दक्षस्थोद्गतरेखातो वामं मेषाद्यराशयः । पञ्चाष्टयुग्मविंशाश्च शड्दशेन्द्राग्निसागराः । कर्क्कटान्मीनपर्य्यन्तमङ्का देया यथाक्रमम् ॥ ५ -- ४ ८ -- ३ २ -- १४ २० ६ १० बालस्य जन्मकालीनग्रहलग्नमजादिष । विन्यस्य चिन्तयेत् प्राज्ञः शुभाशुभं यथाग्रहात् ॥” तत्र शुभाशुभज्ञानं यथा, -- “शुभदण्डयोगवेधैर्लग्नाद्बालस्य शोभनम् । पापदण्डयोगवेधैराश्यङ्काद्रिष्टिकालवित् । बलेऽधिके दिनं मध्ये मासो हीने च हायनम् ॥” पलपताकी यथा, -- “प्रतिदण्डं पलान्येषां ज्ञात्वा वाच्यं क्वचिच्छभम् ॥ रवौ च वेदा वसवः सुधांशौ कुजे च वाणाः शशिजे तथाङ्काः । शनावृतुर्दिक् च बृहस्पतौ स्या- द्राहौ तुरङ्गा भृगुजे च रुद्राः ॥” बालस्य शुभाशुभफलं यथा, -- “अशुभे दण्डसंयोगे सर्व्वत्र पुण्यवर्जिते । बालस्य मरणं शीघ्रं यदि पापैः समन्वितम् ॥ अशुभग्रहदण्डे तु सर्व्वत्र पापवर्ज्जिते । बालस्य कुशलं सर्व्वं शुभैर्यदि समन्वितम् ॥ अशुभो दण्डनाथो हि वेधश्चेत्तेन लभ्यते । मरणं तत्र वक्तव्यं बालस्य नान्यथा भवेत् ॥ पापस्य दण्डमात्रे तु तद्योगवेधवर्जिते । बालस्य कुशलं तत्र शुभैर्यदि समन्वितम् ॥” इति ज्योतिषतत्त्वे पताकीवेधः ॥ (स्त्रियां ङीप् । सेना । यथा, रघुः । ४ । ८२ । “न प्रसेहे स रुद्धार्कमधारावर्षदुर्द्दिनम् । रथवर्त्म रजोऽप्यस्य कुत एव पताकिनीम् ॥”)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PATĀKĪ : A soldier of the Kaurava army. Duryodhana gave instructions to Śakuni to attack Arjuna taking Patākī along with him for help. (Chapter 156, Droṇa Parva).


_______________________________
*3rd word in right half of page 580 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पताकी&oldid=432210" इत्यस्माद् प्रतिप्राप्तम्