पतित
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतितः, त्रि, (पतति भ्रष्टो भवति स्वधर्म्मात् शास्त्र- विहितकर्म्मणः सदाचारादिभ्यो वा यः । पत् + कर्त्तरि क्तः चलितः । गलितः । पतनाश्रयः । पडा इति भाषा । तत्पर्य्यायः । प्रस्कन्नः २ । इति हेमचन्द्रः ॥ पातित्यविशिष्टः । स्वधर्म्मच्युतः । तस्य लक्षणं यथा, मार्कण्डेयपुराणे । “स्वधर्म्मं यः समुच्छिद्य परधर्म्मं समाश्रयेत् । अनापदि स विद्बद्भिः पतितः परिकीर्त्तितः ॥” कृतेन प्रायश्चित्तेन पितुः पापनाशे मानाभावः । आत्मघाते तु वचनादस्तु । महापातके तु कथं स्यादिति । स स्वयमेव आत्मवधप्रायश्चित्तस्य जातिवधनिमित्तेन समुच्चयं वदन् हृदयशून्य एव । नहि जातिवधनिमित्तं पुत्त्रैः कार्य्यमिति वचनमस्ति पुत्त्रकर्त्तृकसर्व्वप्रायश्चित्तादिविप्लवा- पत्तेः । प्रागुक्तवौधायनवचनाच्चेति दिक् । इदं प्रायश्चित्तार्हाणामेव । प्रायश्चित्तानर्हाणान्तु पति- तौदकमात्रं कार्य्यमिति केचित् । मदनपारि- जातादिस्वरसोऽप्येवम् । वस्तुतस्तु तदर्हानर्हयो- र्व्वचनेऽनुपांदानात् अविशेषात् तत्रापि नारा- यणवलिर्गयाश्राद्धञ्चेति युक्तम् ॥ * ॥ पतितोदक- विधिस्तु मित्राद्यतिरिक्तविषय इत्यपरे । स यथा । हेमाद्रौ ब्राह्मे । “पतितस्य तु कारुण्यात् यस्तृप्तिं कर्त्तुमिच्छति । स हि दासीं समाहूय सर्व्वगां दत्तवेतनाम् ॥ अशुद्धघटहस्तान्तां यथावृत्तं ब्रवीत्यपि । हे दासि ! गच्छ मूल्येन तिलानानय सत्वरम् ॥ तोयपूर्णं घटञ्चेमं सतिलं दक्षिणामुखी । उपविष्टा तु वामेन चरणेन ततः क्षिप ॥ कीर्त्तयेः पातकिसंज्ञां त्वं पिबेति मुहुर्व्वद । निशम्य तस्य वाक्यं सा लब्धमूल्या करोति तत् ॥ एवं कृते भवेत्तृप्तिः पतितानां न चान्यथा ॥” इति । इदञ्च मृताहे कार्य्यम् । पतितस्य दासी मृताह्नि पदा घटमपवर्जयेदेतावतायमुपचरितो भव- तीति मदनरत्ने विष्णूक्तेः । इदञ्चात्मत्यागि- विषयम् । आत्मत्थागिनः पतितास्तेनाशौचोदक- भाजः स्युरित्युपक्रम्य विष्णुना एतस्याभिधाना- दिति गौडाः । उपलक्षणत्वात् सर्व्वेषामिति तु युक्तम् । इति निर्णयसिन्धौ ५ परिच्छेदः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतित¦ त्रि॰ पत--गत्यर्थत्वात् कर्त्तरि क्त सनि वेट्कत्वे-ऽपि पतेः पृथग्ग्रहणात् इट् प्रतधातौ पित्सती-त्येकरूपलिखनं प्रमादात् पणे पिपतिषतीति रूपा-न्तरं भवतीति बोध्यम्।
१ पतनकर्त्तरि
२ नरकगमन-सूचककर्मविशेषकारके स च कर्मविशेषः पतितलक्ष-णविघया प्रा॰ वि॰ निर्णीतो यथागोतमः
“व्रह्महा सुरापः गुरुतल्पगः मातृपितृयोनि-सम्बद्धागस्तेननास्तिकनिन्दितकर्माभ्यासी पतितात्याम्य-पतितत्यागिनश्च पतिताः पातकसंयोजकाश्च तैश्चाव्दंसमाचरन्निति”। पातकसंयोजकाः सुरापानादौ परान्प्तयोजयन्ति। इत्युपक्रमे सामान्यशक्तस्यापि विशेषशक्तिर्भ्रविष्यति मृपादिपदस्येव पशौ, हारीतेन विशेषगणनेपाठात्। तथा च्यवनः
“अथ पातकोपपातकमहापा-तकानि व्याख्यास्यामः इति। तथा च पठन्ति
“महापा-तकतुल्यानि पापान्युक्तानि यानि च। तानि पातक-संज्ञानि तदूनमुपपातकम्”। अतो महापातकतुल्यपाप-विशेषेऽप्यस्य शक्तिः। पतनशब्दार्थमाह गोतमः
“द्वि-जातिकर्मभ्यो हानिः पतनं परत्र चासिद्धिस्तमेके नर-[Page4217-a+ 38] कम्”। द्विजातिकर्म श्रौतमग्निहोत्रादि स्मार्त्तमष्टकादिप्रायश्चित्ततदङ्गजपादिव्यतिरिक्तं तेभ्यो हानिरनधि-कारः इति द्विजातिग्रहणं प्राधान्यार्थं शूद्रस्यापिवाक्यान्तरेण पातित्याभिधानात्। इह लोके तावत्पातित्यलक्षणमनिष्टं परलोके चासिद्धिः पातककर्म-पतिबन्धात् उपात्तसुकृतफलानिष्पत्तिः नरकं वासूतकादिव्यावृत्त्यर्थमिदम्। द्विजातिकर्मानधिकारश्च म-हापातके श्रूयते यथा देवलः
“पञ्चैतानि महापात-कानि कृत्वा ब्राह्मणः सद्भिर्नानुभाष्यो नानुग्राह्योऽ-भिशस्तः सर्वकर्मवर्जितः पतिततमो भवति”। महा-पाबक्यधिकारे मनुः
“असम्भाष्याह्यसंभोज्या अवि-वाह्या ह्यपाठिनः। धरेयुः पृथिवीं दीनाः सर्वधर्म-वहिष्कृताः”। अतो महापातकेषु द्विजातिकर्मान-धिकारः तद्विहितद्वादशवार्षिकप्रायश्चित्तापनेयत्वादति-पातकानुषातकयीरपि। अतो द्वादशवार्षिकप्रायश्चित्ता-पनेयार्हं ग्रापं पतनम्। अर्हता च सामान्यबोधितत्वंतच्च स्त्रीत्वा दिनाऽसम्पूर्णानुष्ठानेऽप्यस्त्येव कृष्णलेइवावघातस्य। अथ वा द्विजातिकर्मानधिकारापादकंपाग्रं पतनम् अनधिकारश्च महापातके श्रुतएव अनुपा-तकेऽपि तत्समत्वात् उपपातकादौ च क्वचित् पततीतिश्रुतेः अतिपातके ततो गुरुत्वात् लभ्यते। यद्वा महापा-तकानपकृष्टं पापं पतनम् अनुपातकस्य तत्समत्वात्उपपातकादेः कचित् पततीत्यभिधानात् अनपकर्षएव,अस्वजनब्राह्मणीगमने पतनपाताद्युत्पत्तिश्रवणादनप-कर्षएव। अतएव
“सद्यः पतति मांसेनेति” शूद्रावेदीपतत्यत्रे” रित्यादिमनुवचनं निन्दार्थम्।
३ स्वधर्मच्युते
“स्वधर्मं यः परित्यज्य परधर्मं समाश्रयेत्। अनापदि स विद्वद्भिः पतितः परिकीर्त्तितः” मार्क॰ पु॰चाण्डालान्त्यादिस्त्रीगमनादिकमभ्यासकृतं पातित्य-कारणम्
“चाण्डालान्त्यस्त्रियो गत्वा भक्त्वा च प्रतिगृह्यच। पतत्यज्ञानतो विंप्रो ज्ञानात्साम्यं तु गच्छति” मत्स्यपु॰। अन्यान्यपि कतिचित् कर्माणि पतितानामिवदाहनिषेधप्रयीजकान्युक्तानि शु॰ त॰ ब्रह्मपु॰
“गरा-ग्निविषदात्तैव पाषण्डाः क्रूरबुद्धयः। क्रोधात् प्रायंविषं वह्निं शस्त्रमुद्बन्धनं जलम्। गिरिवृक्षप्रपातञ्च ये कुर्वन्ति नराधमाः कुशिल्पजीविनश्चैवसूनालङ्कारकारिणः” तथा
“ब्रह्मदण्डहता ये च ये चवै ब्राह्मणैर्हताः। महापातकिनो ये च पतितास्ते प्रकी[Page4217-b+ 38] र्त्तिताः। पतितानां न दाहः। स्यान्नान्त्येष्टिर्नास्थिस॰ञ्चयः। न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकंन्नचित्” शु॰ त॰ ब्रह्मपु॰। तेषां संसर्गनिषेधो यथा
“आसनाच्छशयनाच्चैकभोजनात् कथनादिषु। संवत्सरेणपतति पतितेन सहाचरन्” वराहपु॰
“पतितैः संप्र-युक्तानामिमां शृणुत निष्कृतिम्। संवत्सरेण पततिपतितेन सहाचरन्। याजनाध्यापनाद्यौनाद्यानपानाशनासनात। यो येन पतितेनैव संसर्गं यातिमानवः। स तस्यैव व्रतं कुर्य्यात् संसर्गस्य विशु{??}ये” तत्र पादोनं प्रायश्चित्तमिति तत्र स्थितम्।
“पतितस्योदकंकार्य्यं सपिण्डैर्ब्राह्मणैः सह। निन्दितेऽहनि सायाह्नेज्ञातिभिर्गुरुसन्निधौ। दासी घटमपां पूर्णं पर्य्यस्येत्प्रेतवत् सदा। अहोरात्रमुपासीनं नाशौचं ब्राह्मणैःसह। निवर्त्तयेरंस्तस्मात्तु सम्भाषणसहासनम्” मात्स्ये
२०
१ अ॰।
“पतिता गुरवस्ताज्या न तु माता कदाचन। गर्भधारणपोषाभ्यां तेन माता गरीयसी” मत्स्यपु॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतित¦ mfn. (-तः-ता-तं)
1. Fallen, alighted.
2. Fallen from virtue, wicked, abandoned.
3. Fallen in war, defeated, overthrown.
4. Degraded, outcaste.
5. Gone. E. पत् to go, aff. कर्त्तरि क्त।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतित [patita], p. p.
Fallen, descended, alighted.
Dropped.
Fallen (in a moral sense), abandoned, wicked; नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
Apostate.
Degraded, outcast.
Fallen in battle, defeated or overthrown.
Being in, fallen into; as in अवंशपतित.
Placed, kept; निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम् Pt. I.14.
(with पादयोः or पाद-) Having thrown oneself at (a person's feet). -तम् Flying. -Comp. -उत्पन्न a. sprung from an outcast. -गर्भा a woman who miscarries. -मूर्धज a. one whose hair has fallen out.-वृत्त a. one leading a life of an out-cast. -सावित्रीकः a man of the first three classes whose thread-ceremony has been improperly performed, or not performed at all. -स्थित a. lying on the ground.
पतित [patita], See under पत्.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पतित mfn. fallen , dropped , descended , alighted AV. etc.
पतित mfn. ( ifc. )fallen upon or from( Pa1n2. 2-1 , 24 and 38 Sch. )
पतित mfn. (with पादयोस्or पाद-)having thrown one's self at a person's feet Ka1v.
पतित mfn. fallen (morally) , wicked , degraded , out-caste(614826 -त्वn. ) ChUp. Mn. MBh. etc.
पतित mfn. fallen into , being in( loc. or comp. ) Katha1s.
पतित mfn. happened , occurred Pan5c. S3ukas.
पतित n. flying MBh.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a fallen person from the path of righteousness, पिण्ड to be given in the evening and no pollution; whoever he be, even the guru, he must be abandoned; but the fallen mother must not be abandoned. M. २२७. ५९, १५०.