पदार्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदार्थः, पुं, पदानां घटपटादीनां अर्थोऽभिधेयः । तत्पर्य्यायः । भावः २ धर्म्मः ३ तत्त्वम् ४ सत्त्वम् ५ वस्तु ६ । इति जटाधरः ॥ * ॥ (पदार्था हि दर्शनमतभेदेन नानाविधाः । तत्र वैशेषिकाणां मते ।) सप्त पदार्थाः । यथा, -- “द्रव्यं गुणास्तथा कर्म्म सामान्यं सविशेषकम् । समवायस्तथाभावः पदार्थाः सप्त कीर्त्तिताः ॥” “सप्तानामपि साधर्म्म्यं ज्ञेयत्वादिकमिष्यते । द्रव्यादयः पञ्च भावा अनेके समवायिनः ॥ सत्तावन्तस्त्रयस्त्वाद्या गुणादिर्निर्गुणक्रियः ॥” इति भाषापरिच्छेदे । २, १४ ॥ “एते पदार्था वैशेषिकप्रसिद्धाः । नैयायिकाना- मप्यविरुद्धाः ।” इति सिद्धान्तमुक्तावली ॥ गोत- मोक्तषोडशपदार्थास्तु न्यायशब्दे द्रष्टव्याः ॥ (कपिलमते प्रकृत्यादयः पञ्चविंशतिः । पातञ्जल- मते तु ईश्वरेण सह षड्विंशतिः । वेदान्तमते आत्मानात्मभेदात् द्विविधः । तत्र आत्मापि द्विविधः ईश्वरजीवाद्युपाधिभेदात् । एतावपि विद्याविद्याभेदेन द्विविधौ । केवलमविद्योप- हितत्वाद्भेदव्यवहारः । अनात्मापि कारण- सूक्ष्मस्थूलभेदात् त्रिविधः इति ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदार्थ¦ पु॰

६ त॰। शब्दाभिधेये द्रव्यादौ। पदार्थाश्च दर्शन-भेदेन नानाविधाः तत्तद्दर्शनमतप्रदर्शने उक्ता यथावैशेषिकाणां द्रव्यादयः षट्, सप्त वा, नैयायिकमते प्रमा-णादयः षोडश, सांख्यानां प्रकृत्यादयः पञ्चविंशतिः,पातञ्जलानां सेश्वराः प्रकृत्यादयः षडविंशतिः। वेदा-न्तिनाम् चिदचिटात्मकौ द्वावित्येवं वोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदार्थ¦ m. (-र्थः)
1. Thing, substantial or material form of being.
2. A category of predicament in Logic, of which seven are enumerated; viz:--substance, quality, action, identity, variety, relation and non-existence or annihilation. They are sixteen according to Nyaya Philosophy six according to the Vaiseshika, twenty-five according to Sa4nkhya, twenty six according to Pa4tanjala, and two according to Vaidantica.
3. The meaning of a word or sentence.
4. A head, a topic. E. पद word, thing, and अर्थ meaning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदार्थ/ पदा m. the meaning of a word VPra1t. Prab. BhP. etc. ( ifc. also -कPat. )

पदार्थ/ पदा m. that which corresponds to the -mmeaning of a -wword , a thing , material object , man , person Var. Ka1v. Pur.

पदार्थ/ पदा m. a head , subject (16 with नैयायिकs)

पदार्थ/ पदा m. a category , predicament (7 with वैशेषिकs , 25 with सांख्यs , 7 with वेदान्तिन्s)

पदार्थ/ पदा m. a principle(615390 -त्रितयn. a triad of principles RTL. 119 )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PADĀRTHA : See under Pañcabhūta.


_______________________________
*3rd word in right half of page 544 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पदार्थ&oldid=500786" इत्यस्माद् प्रतिप्राप्तम्