पद्धती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्धती, स्त्री, (पद्भ्यां हन्ति गच्छतीति । हन गतौ + क्तिन् । “हिमकाषिहतिषु च ।” ६ । ३ । ५४ । इति पद्भावः । “बह्वादिभ्यश्च ।” ४ । १ । ४५ । इति वा ङीष् ।) वर्त्म । (यथा, रघुः ३ । ४६ । “पथः श्रुतेर्दर्शयितार ईश्वराः मलीमसामाददते न पद्धतिम् ॥”) पंक्तिः । इति मेदिनी ॥ ग्रन्थार्थबोधकग्रन्थः । इति हेमचन्द्रः ॥ पदवी । सा च घोषवसु- मित्रादिरूपा । यथा । “षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले इति मनुवचनात् चूडाकार्य्या यथाकुलमिति याज्ञवल्क्यवचनात् देशानु- शिष्टं कुलधर्म्ममुख्यं सगोत्रधर्म्मं नहि संत्यजेच्च इति वामनपुराणाच्च संस्कारमात्रे कुलधर्म्मानु- रोधेन कालान्तरे मङ्गलविशेषाचरणवत् शूद्राणां नामकरणे वसुघोषादिरूपपद्धतियुक्त- नामत्वञ्च बोध्यम् । एवमेव कुल्लूकभट्टः ।” इत्यु- द्वाहतत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=पद्धती&oldid=146609" इत्यस्माद् प्रतिप्राप्तम्