पद्मासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मासनम्, क्ली, (पद्ममिव पद्माकारेण बद्धमित्यर्थः । आसनम् ।) योगासनविशेषः । यथा, -- “वामोरूपरि दक्षिणं नियमतः संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्या कराभ्यां धृतम् । अङ्गुष्ठं हृदये निधाय चिवुकं नासाग्रमालोकये- देतद्व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते ॥” अन्यदत्रापि । “वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा- प्यन्योरूपरि तस्य बन्धनविधौ धृत्वा कराभ्यां दृढम् । अङ्गुष्ठं हृदये निधाय चिवुंकं नासाग्रमालोकये- देतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥” इति गोरक्षसंहिता ॥ (मत्स्येन्द्रनाथाभिमतं पद्मासनं यथा, हठयोग- दीपिकायाम् । १ । ४४-४७ । “वामोरूपरिदक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन् विधिना धृत्वा कराम्यां दृढं । अङ्गुष्ठौ हृदये निघाय चिवुकं नासाग्र- मालोकयेदेतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥ उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततोदृशौ ॥ नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया । उत्तम्भ्य चिवुकं वक्षस्युत्थाप्य पवनं शनैः ॥ इदं पद्मासनं प्रोक्तं सर्व्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥”) पूजार्थं धातुमयपद्माकारासनञ्च । (रतिविषयकपद्मासनम् यथा, रतिमञ्जर्य्याम् ४० “पद्मासनो नागपादो लतावेष्टोऽर्द्धसंपुटः ॥” तल्लक्षणं यथा, तत्रैव ४२ । “हस्ताभ्याञ्च समालिङ्ग्य नारीं पद्मासनोपरि । रमेद्गाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः ॥”)

पद्मासनः, पुं, (पद्मं विष्णुनाभिकमलं आसनं यस्य ।) ब्रह्मा । कमलासनः । इत्यमरदर्शनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मासन¦
“ऊरुमूले वामपादं पुनस्तु दक्षिणं पदम्। वामोरौ स्थापयित्वा तु पद्मासनमिति स्मृतम्” जाम-लोक्ते आसनमेदे अस्यैव प्रकारभेदः तन्त्रसारे योगा-ङ्गतया उक्तः तच्च

८८

६ पृ॰ दर्शितम् एवमन्यदपि तल्ल-क्षणं योगाङ्गतया ध्येयं बद्बपद्मासनमहापद्मसनेतिच तस्यैव प्रकारभेदः। देवपूजार्थे पद्माकारे

३ आसनभेदेपद्ममासनं यस्य।

३ कमलासने ब्रह्मणि पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मासन¦ n. (-नं) A posture in religious meditation, sitting with the thighs crossed, one hand resting on the left thigh, the other held up with the thumb upon the heart; the eyes directed to the tip of the nose.
2. A seat or throne made in the shape of a lotus, one especially on which idols are placed. m. (-नः)
1. A name of BRAMHA
4.
2. The sun. E. पद्म a lotus, and आसन sitting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मासन/ पद्मा n. a -llotus as seat ( esp. of an idol) Hariv. Kum.

पद्मासन/ पद्मा n. a partic. posture in religious meditation Bhartr2. (See. MWB. 240 )

पद्मासन/ पद्मा n. a kind of coitus L.

पद्मासन/ पद्मा mf( आ)n. sitting in a -llotus or in the position called पद्मासन(615769 -ताf. Cat. )

पद्मासन/ पद्मा m. N. of ब्रह्माVP.

पद्मासन/ पद्मा m. of शिवS3ivag.

पद्मासन/ पद्मा m. the sun L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a kind of आसन in yoga, once practised by परशुराम; of Kapila. Br. III. २४. १६; ५३. १७.

"https://sa.wiktionary.org/w/index.php?title=पद्मासन&oldid=432255" इत्यस्माद् प्रतिप्राप्तम्