पद्मिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मिनी, स्त्री, (पद्मानि सन्त्यस्याम् । पुष्करा- दित्वादिनिः ।) पद्मयुक्तदेशः । पद्मसमूहः । पद्मलता । इति भरतः ॥ तत्पर्य्यायः । नलिनी २ विसिनी ३ । इत्यमरः । १ । १० । ३९ ॥ मृणालिनी ४ कमलिनी ५ पुटकिनी ६ पङ्क- जिनी ७ सरोजिनी ८ । इति माधवः ॥ नालिकिंनी ९ नालीकिनी १० अरबिन्दिनी ११ । इति कोषान्तरम् ॥ अम्भोजिनी १२ पुष्क- रिणी १३ जम्बालिनी १४ । इति शब्दरत्ना- वली ॥ अब्जिनी १५ । तस्या लक्षणं यथा, -- “मूलनालदलोत्फुल्लफलैः समुदिता पुनः । पद्मिनी प्रोच्यते प्राज्ञैर्विसिन्यादिश्च सा स्मृता ॥” तस्या गुणाः । “पद्मिनी मधुरा तिक्ता कषाया शिशिरा परा । पित्तक्रिमिशोषवान्तिभ्रान्तिसन्तापदोषहृत् ॥” इति राजनिर्घण्टः ॥ * ॥ (पद्मं पद्मगन्धोऽस्त्यस्याः पद्मस्य गन्ध इव गन्धो विद्यते शरीरे यस्या इति तात्पर्य्यार्थः अत्रतु पद्म- गन्धयोस्तादात्म्यमङ्गीकृत्यैव समासः कल्पितः ।) चतुर्व्विधस्त्रीमध्ये स्त्रीविशेषः । तस्या लक्षणं यथा, -- “भवति कमलनेत्रा नासिकाक्षुद्ररन्ध्रा अविरलकुचयुग्मा दीर्घकेशी कृशाङ्गी । मृदुवचनसुशीला नृत्यगीतानुरक्ता सकलतनुसुवेशा पद्मिनी पद्मगन्धा ॥” इति रतिमञ्जरी । ४ ॥ * ॥ (अस्या रतिप्रकारः यदुक्तः तत्रैव । २८ । “कुचं करेण संमर्द्य पीडयेदधरं दृढम् । रमणं पद्मबन्धेन पद्मिनीरतिमादिशेत् ॥”) सरोवरम् । पद्मम् । इति विश्वः ॥ (यथा, कुमारे । ३ । ७६ । “सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां प्रतिपथगतिरासीद् वेगदीर्घीकृताङ्गः ॥”) मृणालम् । इति शब्दमाला ॥ हस्तिनी । इति धरणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मिनी¦ स्त्री पद्मं विद्यतेऽस्याः पुष्करा॰ इनि अभिधानात्स्त्रीत्वम्।

१ पद्मयुक्तदेशे

२ पद्मधारिणि विष्णौ पु॰
“पद्मीपद्मनिभेक्षणः” विष्णुसं॰ तस्य शङ्खचक्रगदापद्मधारित्वात्तथात्वम्।

३ पद्मधारिमात्रे त्रि॰ स्त्रियां ङीप्।

४ हस्तिनिपु॰ अमरः पद्मानां समूहः इनि।

६ पद्मसमूहे

७ पद्म-लतायाञ्च अमरः
“सूननालदलोत्फुल्लफलैः सा लतिकापुनः। पद्मिनीत्युच्यते प्राज्ञैर्विसिन्यादिश्च सा स्मृता। पद्मिनी मधुरा तिक्ता कषाया शिशिरा सरा। पित्त-कृमिशोषवान्तिभ्रान्तिसन्तापदोषहृत्” राजनि॰
“भवतिकमलनेत्रा नासिकाक्षुद्ररन्ध्रा अविरलकुचयुग्मा दीर्घ-केशी कृशाङ्गी। मृदुचरणसुशीला गीतनृत्यानुरक्ता सक-लतनुसुवेशा पद्मिनी पद्मगन्धा” रतिमञ्जर्य्युक्तलक्षणयुक्ते

९ स्त्रीभेदे
“पद्मिती शशके तुष्टा” इति च तन्त्रोक्तम्।

१० सरोवरे

११ पद्मे च विश्वः

१२ मृणाले शब्द माला।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मिनी [padminī], 1 The lotus plant; पद्मिनी नक्तमुन्निद्रा Kāv.4.45; सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नाम् Ku.3.76; R.16.68; Me.83; M.2.13; निरास भृङ्गं कुपितेव पद्मिनी Bk.2.6.

An assemblage of lotus flowers.

A pond or lake abounding in lotuses; पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया Rām.3.1.6; क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी । बभूव पाण्डवी सेना तव पुत्रस्य तेजसा ॥ Mb.7.153.2.

The fibrous stalk of a lotus.

A female elephant.

A woman of the first of the four classes into which writers on erotical science divide women; the रतिमञ्जरी thus defines her: भवति कमलनेत्रा नासिकाक्षुद्ररन्ध्रा अविरलकुच- युग्मा चारुकेशी कृशाङ्गी । मृदुवचनसुशीला गीतवाद्यानुरक्ता सकलतनु- सुवेशा पद्मिनी पद्मगन्धा ॥ -Comp. -ईशः, -कान्तः, -वल्लभः the sun. -कण्टकः a. kind of leprosy. -खण्डम्, -षण्डम् a multitude of lotuses; a place abounding in lotuses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पद्मिनी f. See. next.

पद्मिनी f. (of prec.) Nelumbium Speciosum , a lotus (the whole plant ifc. ( नीक) mfn. ; See. अब्जिनी, नलिनीetc. )

पद्मिनी f. a multitude of lotuses or a lotus-pond MBh. Ka1v. etc. (See. g. पुष्करा-दि)

पद्मिनी f. a -llotus-stalk L.

पद्मिनी f. a female elephant L.

पद्मिनी f. a partic. magical art Ma1rkP.

पद्मिनी f. an excellent woman , a woman belonging to the first of the 4 classes into which the sex is divided RTL. 389

पद्मिनी f. N. of sev. women Sin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=पद्मिनी&oldid=500790" इत्यस्माद् प्रतिप्राप्तम्