परमहंस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमहंसः, पुं, (परमः श्रेष्ठः हंसः सोऽहं आत्मा यस्य ।) सन्न्यासिविशेषः । अस्य लक्षणं यथा । जातरूपवेरो निर्द्वन्द्वो निराग्रहस्तत्त्वब्रह्ममार्गे सम्यक् सम्पन्नः शुद्धमानसः प्राणसंधारणार्थं यथोक्तकाले भैक्षमाचरन् लाभालाभौ समौ कृत्वा शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूल- कुलालशालाग्निहोत्रनदीपुलिनगिरिकुहरकन्दर- कोटरनिकरस्थण्डिलेष्वनिकेतवासी निष्प्रयत्नो निर्म्ममः शुक्लध्यानपरायणः अध्यात्मनिष्ठः शुभा- शुभकर्म्मनिर्मूलनाय सन्न्यासेन देहत्यागं करोति यः सएव परमहंसो नामेति जीवन्मुक्तिविवेकः ॥ (अयं हि चतुर्व्विधाबधूतेषु श्रेष्ठः । यदुक्तं महानिर्व्वाणतन्त्रे । “चतुर्णामबधूतानां तुरीयो हंस उच्यते । त्रयोऽत्ये भोगयोगाढ्यामुक्ताः सर्व्वे शिवोपमाः ॥” परमहंसेन हि यज्ञोपवीतादिचिह्नानि परि- त्यज्य कौपीनादिकं धारणीयम् । यदुक्तं सूत- संहितायां ज्ञानयोगे । “परमहंसस्त्रिदण्डञ्च रज्जुं गोबालमिश्रितम् । शिक्यं जलपवित्रञ्च पवित्रञ्च कमण्डलुम् ॥ पक्षिणीमजिनं सूचीं मृत् खनिर्त्री कृपाणिकाम् । शिखां यज्ञोपवीतञ्च नित्यकर्म्म परित्यजेत् ॥ कौपीनं छादनं वस्त्रं कन्थां शीतनिवारिकाम् । योगपट्टं वहिर्वस्त्रं पादुकां छत्रमद्भुतम् ॥ अक्षमालाञ्च गृह्णीयात् वैणवं दण्डमव्रणम् । अग्निरित्यादिभिर्मन्त्रैः कुर्य्यादुद्धूमनं मुदा ॥ आमिति च त्रिमिः प्रोच्य परमहंसस्त्रिपुण्ड्रकम् ॥” अविदुषा परमहंसेन एकदण्डन भाव्यम् । विदुषा तु दण्डादिकं किमपि न धारणीयम् ॥ यदुक्तं निर्णयसिन्धौ । “परमहंसस्यैकदण्ड एव सोऽप्यविदुवः । विदुषान्तु सोऽपि नास्ति । न दण्डं न शिखां नाच्छादनं धरति परमहंसः ॥” परमहंसास्तु केवलं प्रणवजपतत्परा एव भवन्ति । यदुक्तं सूतसंहितायाम् । “प्रणवाद्यास्त्रयोवेदाः प्रणवे पर्य्यवस्थिताः । तस्मात् प्रणवमेवैकं परमहंसः सदा जपेत् ॥ विविक्तदेशमाश्रित्य सुखासीनः समाहितः । यथाशक्ति समाधिस्थो भवेत् सन्न्यासिनां वरः ॥” परमहंसास्तु “तत्त्वमसि” इत्यादि महावाक्याव- लम्बनेन आत्मज्ञानानुशीलिनो भवन्ति “सोऽहं” शिवोऽहं” इत्यादि वदन्तस्तत्त्वज्ञानावलम्बनस्य परिचयं प्रयच्छन्ति च । एषामध्यक्षो हि स्वामीत्याख्यया प्रसिद्धः । एते हि तीर्थभ्रमण- निपुणास्तीर्थस्थानस्थाश्च । मतस्य परमहंसस्य शरीरं भूमौ निखातत्वम् । यदुक्तं वायु- संहितायाम् । “मृते न दहनं कार्य्यं परमहंसस्य सर्व्वदा । कर्त्तव्यं खननं तस्य नाशौचं नोदकक्रिया ॥” परमहंसस्तु दण्डिपरमहंसावधूतपरमहंसभेदेन द्विविघः । ये तु दण्डं परित्यज्य पारमहंस्य- व्रतावलम्बनं कुर्व्वन्ति ते दण्डिपरमहंसाः । ये चावधूतवृत्त्यनुष्ठानेन परमहंसास्ते एवा- वधूतपरमहंसाः । परं सर्व्वे एव प्रणवोपासकाः इति ॥ * ॥ शुक्लयजुर्व्वेदगत उपनिषद्विशेषः । इति मुक्ति कोपनिषत् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमहंस¦ परमः हंस आत्मा यस्य सन्न्यासिभेदे
“कुटीचकोबहूदकः हेसश्चैव तृत्रीवकः। चतर्थः परमो हंसो योयपश्चात् स उत्तमः” हारीतः। परहंसोऽप्यत्र
“परहंसस्त्रिदण्डं च रज्वुं, गोबालनिर्मिताम। शिखां यज्ञोप-वीतं च नित्यं कर्मं परित्यजेत्” स्कन्दपु॰।
“सशिखं[Page4237-b+ 38] वपनं कुर्य्यात् हंसश्च परहंसकः। पौर्णमास्यामृतुष्वेषांवपनं परिकीर्त्तितम्” पुराणसमुच्चये तद्धर्माः स्थिताः। दण्डधारणञ्चाविदुष एव विदूषस्तु तन्नास्ति
“न दण्डंन शिखां नाच्छादनं न भैक्षं चरति परमहंसः” महोप-निषदुक्तेः
“ज्ञानमेवास्य दण्डः” इति तत्रत्यवाक्यशेषाच्च। अन्येऽपि तद्धर्मा मिता॰ नि॰ सि॰ च उक्ता दृश्याः। कर्म॰।
२ परमात्मनि
३ तत्प्रतिपादके उपनिषद्भेदे।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमहंस¦ m. (-सः) An ascetic, a religious man who has subdued all his senses by abstract meditation. E. परम best or first, हंस devotee.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परमहंस/ परम--हंस m. an ascetic of the highest order , a religious man who has subdued all his senses by abstract meditation MBh. Pur. etc. (See. RTL. 87 )