परम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम्, क्ली, (पॄ + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।) केवलम् । इति मेदिनी ॥ मोक्षः । यथा । कैवल्यममृतं परम् । इति मुक्तिपर्य्याये रत्नावली ॥ (ब्रह्म ब्रह्मा च । यदुक्तं श्रुतौ । “द्वे ब्रह्मणी वेदितव्ये परञ्चापरमेव च ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । २० । “प्रभूतस्त्रिककुद्धाम पवित्रं मङ्गलं परम् ॥” ब्रह्मण आयुः । यथा, मार्कण्डेये । ४६ । ४२ । “एवन्तु ब्रह्मणो वर्षमेकं वर्षशतन्तु तत् । शतं हि तस्य वर्षाणां परमित्यभिधीयते । पञ्चाशद्भिस्तथावर्षैः परार्द्धमिति कीर्त्त्यते ॥”)

परम्, [म्] व्य, नियोगः । क्षेपः । इति मेदिनी ॥

परम्, व्य, (पॄ पूर्त्तौ + अम् ।) नियोगः । क्षेपः । इति मेदिनी ॥ पश्चात् ॥ (किन्त्वर्थे । यथा, पञ्चतन्त्रे । “तेषां सर्व्वे शास्त्रपारगाः परं बुद्धिरहिताः ॥” अधिकम् । यथा, रघुः । १ । १७ । “रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम् ॥” अनन्तरम् । यथा, तत्रैव । १ । ६६ । “नूनं मत्तःपरं वंश्याः पिण्डविच्छेददर्शिनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम्¦ अव्य॰ पृ--अमि।

१ नियोगे

२ क्षेपे

३ केबले च मेदि॰।

४ पश्चादर्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम्¦ ind. A particle of command.
2. Of dismissal or refusal.
3. Here- after, afterwards.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--ब्रह्मा. वा. १०१. १०५-7.
"https://sa.wiktionary.org/w/index.php?title=परम्&oldid=432305" इत्यस्माद् प्रतिप्राप्तम्