परस्परम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परस्परम्, त्रि, (“सर्व्वनाम्ने द्बे वाच्ये समासवच्च बहुलम् ।” वार्त्तिं असमासवद्भावे पूर्ब्बपदस्य सुपः सुर्व्वक्तव्यः । कस्कादित्वात् विसर्जनीयस्य सः ।) अन्योन्यम् । इतरेतरम् । यथा, -- “वनानि तोयानि च नेत्रकल्पैः पुष्पैः सरोजैश्च निलीनभृङ्गैः । परस्परां विस्मयवन्ति लक्ष्मी- मालोकयाञ्चक्रुरिवादरेण ॥” इति भट्टिः । २ । ५ ॥

"https://sa.wiktionary.org/w/index.php?title=परस्परम्&oldid=146928" इत्यस्माद् प्रतिप्राप्तम्