परामर्श
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परामर्शः, पुं, (परामृश्यते इति । परामर्शन- मित्यर्थः । परा + मृश् + भावे घञ् ।) युक्तिः । विवेचनम् । तत्पर्य्यायः । वितर्कः २ उन्नय- नम् ३ विमर्षणम् ४ अध्याहारः ५ तर्कः ६ ऊहः ७ । इति हेमचन्द्रः ॥ तर्कशास्त्रे तु व्याप्ति- विशिष्टपक्षधर्म्मताज्ञानम् । यथा, -- “व्याप्यस्य पक्षधर्म्मत्वधीः परामर्श उच्यते ॥” इति भाषापरिच्छेदः ॥ अस्यार्थः “व्याप्तिविशिष्टस्य पक्षेणसह वैशिष्ठ्या वगाहिज्ञानमनुमितिजनकम् । तच्च व्याप्यः पक्षे इति ज्ञानं पक्षो व्याप्यवान् इति ज्ञानं वा ।” इति सिद्धान्तमुक्तावली ॥ स चानुमित- व्यापारः । यथा, -- “व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत् ॥” इति भाषापरिच्छेदः ॥ अस्यार्थः । “अनुमायामनुमितौ व्याप्तिज्ञानं कारणं परामर्शो व्यापारः । तथा हि । येन पुरुषेण महानसादौ धूमे वह्नेर्व्याप्तिर्गृहीता पश्चाच्च स एव पुरुषः क्वचित् पर्व्वतादौ अवि- च्छिन्नमूलां धूमरेखां पश्यति तदनन्तरं धूमो वह्निव्याप्य इत्येवं रूपं व्याप्तिस्मरणं तस्य पुरु- षस्य भवति पश्चाच्च वह्निव्याप्यधूमवान् पर्व्वत इति ज्ञानं भवति स एव परामर्श इत्युच्यते ।” इति सिद्धान्तमुक्तावली ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परामर्श¦ पु॰ परा + मृश--भावे घञ्।
१ युक्तौ
२ विवेचने
३ न्यायोक्ते अनुमितिकारणे ज्ञानभेदे यथोक्तं
“व्याप्तस्यपक्षधर्मत्वधीः परामर्श उच्यते” भाषा॰
“व्याप्तस्य पक्ष-घर्मत्वधीरिति। व्याप्तिविशिष्टस्य पक्षेण सह वैशिष्ट्या-वगाहिज्ञानमनुमितिजनकम्। तच्च व्याप्यः पक्षे इतिज्ञानम्। पक्षो व्याप्यवानिति वा। अनुमितिस्तु पक्षेव्याप्य इति ज्ञानात् पक्षे साध्यम् इत्याकारिका। पक्षोव्याप्यवानिति ज्ञानात् पक्षः साध्यवानित्याकारिका। द्विविधादपि परामर्शात् पक्षः साध्यवानित्येवानुमिति-रित्यन्ये। ननु वह्निव्याप्यधूमवान् पर्वत इति ज्ञानंविनापि यत्र पर्वतो धूमवानिति प्रत्यक्षं ततो धूमोवह्निव्याप्य इति स्मरणं भवति तत्र ज्ञानद्वयादनुमिति-दर्शनात् व्याप्तिविशिष्टविशिष्ट्याबगाहिज्ञान सर्वत्र नकारणं किन्तु व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेनकारणत्वम् आवश्यकत्वात्। विशिष्टवैशिष्ट्यज्ञानकल्पनेगौरवाच्चेति चेन्न व्याप्यतावच्छेदकाज्ञानेऽपि वह्नि-व्याप्यवानिति ज्ञानादनुमित्युत्पत्तेः। लाघवाच्च व्या-प्तिप्रकारकपक्षधर्मताज्ञानत्वेनैव कारणत्वम्। किञ्च ध्म-वान् पर्वत इति ज्ञानादनुमित्यापत्तिः व्याप्यतावच्छे-[Page4242-b+ 38] दकीभूतधूमत्वप्रकारकधर्मताज्ञानस्य सत्त्वात्। न चतदानीं गृह्यमाणव्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञा-नस्य हतुत्वमिति वाच्यम्। चैत्रस्य व्याप्तिग्रहे मैत्र{??}पक्षधर्मताज्ञानादनुमितिः स्यादिति। यदि तु तत्पुरुषी-यगृह्यमाणव्याप्यतावच्छेदकप्रकारकतत्पुरुषीयपक्षधर्मता-ज्ञानं तत्पुरुषीयानुमितौ हेतुरुच्यते तदा अनन्तकार्य-कारणभावः। मन्मते तु समवायेन व्याप्तिप्रकारकपक्ष-धर्मताज्ञानं समवायेनानुमितिं जनयतीत्यतो नानन्त-कार्य्यकारणभावः। यदि तु व्याप्तिप्रकारकं ज्ञानं पक्ष-धर्मताज्ञानञ्च स्वतन्त्रं कारणमित्युच्यते तदा कार्य्य-कारणभावद्वयं वह्निव्याप्यो धूम आलोकवान् पर्वतइति ज्ञानादप्यनुमितिः स्यादिति। इत्थञ्च यत्र ज्ञान-द्वयं तत्रापि विशिष्टज्ञानं कल्पनीयम् फलमुखगौरवस्या-दोषत्वात्” सि॰ मुक्ता॰। परामर्शस्तु अनुमितौ करणंव्याप्तिज्ञानरूपकरणजन्यत्वात् अनुमितिहेतुत्वाच्च यथोक्तं
“व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत्” भाषा॰
“अनुमायाम् अनुमितौ व्याप्तिज्ञानं करणम् परामर्शोव्यापारः। तथा हि येन पुरुषेण महानसादौ धूमेवह्नेर्व्याप्तिर्गृहीता पश्चात् स एव पुरुषः क्वचित् पर्व-तादौ अविच्छिन्नमूलां धूमलेखां पश्यति तदनन्तरं धूमोवह्निव्याप्य इत्येवं रूपं व्याप्तिस्मरणं भवति। तस्माच्चवह्निव्याप्यधूमवानयमिति ज्ञानं मवति स एव परामर्शइत्यच्यते। तदनन्तरं पर्वतोऽयं वह्निमानिति ज्ञानंजायते। तदेवानुमितिः” सि॰ मुक्ता॰। तत्र विवेचनंच युक्त्या श्रुतार्थावधारणम्
“नोपदेशश्रवणेपि कृत-कृत्यता परामर्शादृते विरोचनवत्” सा॰ सू॰
“परामर्शोगुरुवाक्यतात्पर्य्यनिर्णायको विचारः” भा॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परामर्श¦ m. (-र्शः)
1. Discrimination, discriminating, distinguishing, judgment.
2. (In Logic,) Drawing conclusions from analogy or experience: knowledge of the existence of hetu in the Paksha.
3. Seizing, pulling.
4. Violence, assault, attack.
5. Hindrance.
6. Reflection, consideration, investigation. E. परा implying supre macy, &c. मृश् to deliberate, भावे घञ् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परामर्शः [parāmarśḥ], 1 Seizing, pulling; as in केशपरामर्शः.
Bending or drawing (as a bow).
Violence, attack, assault; याज्ञसेन्याः परामर्शः Mb.
Disturbance, hindrance; तपःपरामर्शविवृद्धमन्योः Ku.3.71.
Calling to mind, recollection.
Consideration, reflection, thought.
Judgment.
(In logic) Deduction, ascertaining that the पक्ष or subject possesses the हेतु; व्याप्तिविशिष्टपक्ष- धर्मताज्ञानं परामर्शः T. S; or व्याप्तस्य पक्षधर्मत्वधीः परामर्श उच्यते Bhāṣā P.66.
Touching, striking gently.
Affection (by disease).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परामर्श/ परा-मर्श m. seizing , pulling( केश-, by the hair) MBh.
परामर्श/ परा-मर्श m. bending or drawing (of a bow) R.
परामर्श/ परा-मर्श m. violation , injury , assault , attack MBh. R. Ka1d.
परामर्श/ परा-मर्श m. affection (by disease etc. ) Ma1rkP.
परामर्श/ परा-मर्श m. remembrance , recollection Veda7ntas.
परामर्श/ परा-मर्श m. referring or pointing -ttouched Sa1h.
परामर्श/ परा-मर्श m. reflection , consideration , judgement MBh. Bha1sha1p.
परामर्श/ परा-मर्श m. (in logic) inference , conclusion , drawing conclusions from analogy or experience , knowledge of the minor premiss in its connection with the major
परामर्श/ परा-मर्श m. N. of wk.