सामग्री पर जाएँ

परार्द्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परार्द्धम् क्ली, (परार्द्ध्यति सर्व्वोत्कृष्टतया वर्द्ध्वते इति । ऋध्यैर वृद्धौ + अच् ।) दशमध्यसंख्या । लक्ष- लक्षकोटिः । १००,०००,०००,०००,०००,००० इदं चरमसंख्या अष्टादशाङ्कपर्य्यन्तम् । इति हेमचन्द्रः ज्योतिषश्च ॥ (यथा, नैषधे । ३ । ४० । “यदि त्रिलोकीगणनापरा स्यात् तस्याः समाप्तिर्यदि नायुषः स्यात् । पारे परार्द्धं गणितं यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात् ॥”) ब्रह्मण आयुषोऽर्द्धम् । यथा, -- “निजेन तस्य मानेन चायुर्व्वर्षशतं स्मृतम् । तत् पराख्यं तदर्द्धञ्च परार्द्धमभिधीयते ॥” इति कौर्म्मे ५ अध्यायः ॥ (तथा, मार्कण्डेये । ४६ । ४२ -- ४३ । “शतं हि तस्य (ब्रह्मणः) वर्षाणां परमित्यभि- धीयते । पञ्चाशद्भिस्तथावर्षैः परार्द्धमिति कीर्त्त्यते ॥ एवमस्य परार्द्धन्तु व्यतीतं द्बिजसत्तम् ! । यस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परार्द्ध¦ न॰ ऋध--अच कर्म॰।

१ चरमसंख्यायां
“पारे परार्द्धंगणितं यदि स्यात्” नैषधम्।
“जलधिश्चान्त्यं मध्यंपरार्द्धमिति दशगुणोत्तराः संख्याः” लीला॰ तस्य सर्व-शेषतया उक्तेस्तथात्वम्। परस्य ब्रह्मणः आयुषोर्द्धंविग्रहे। ब्राह्मण आयुषो

२ द्वितीयार्द्धे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परार्द्ध¦ n. (-र्द्धं)
1. A great number, a lack of lacks of crores, or a number equal to half the term of BRAMHA4'S life, or as many mortal days as are equal to fifty of his years.
2. The other part, the latter half. E. पर, and अर्द्ध half.

"https://sa.wiktionary.org/w/index.php?title=परार्द्ध&oldid=415795" इत्यस्माद् प्रतिप्राप्तम्