परिक्षित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिक्षित्, पुं, (परि सर्व्वतोभावेन क्षीयते हन्यते दुरितं येन । परि + क्षि + क्विप् । कलिशासन- कर्त्तृत्वादस्य तथात्वम् । यद्वा, परिक्षीणेषु कुरुषु क्षियति ईष्टे इति । तथा चोक्तं महा- भारते । १० । १६ । २ -- ३ ॥ “विराटस्य सुतां पूर्ब्बं स्नुषां गाण्डीवधन्वनः । उपप्लव्य गतां दृष्ट्वा व्रतवान् ब्राह्मणोऽब्रवीत् ॥ परिक्षीणेषु कुरुषु पुत्त्रस्तव भविष्यति । एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ॥”) अभिमन्युपुत्त्रः । तत्पर्य्यायः । परीक्षित् २ पारि- क्षीतः ३ परिक्षितः ४ । इति शब्दरत्नावली ॥ (अयं पुनर्युधिष्ठिरादनन्तरं कलियुगस्यारम्भे राजचक्रवर्त्ती आसीत् । कुरुक्षेत्रयुद्धे परि- क्षीणे कुरुकुले अभिमन्युपत्न्या उत्तराया गर्भा- ज्जातः । अयमेव गर्भस्थः क्रुद्धाश्वत्थामप्रयुक्तेन ब्रह्मास्त्रेण निहतोऽपि पुनर्भगवतः कृष्णस्य प्रभावात् जीवितं लब्धवान् । अयमेव वृषरूपिणं धर्म्मं निगृह्णन्तं कलिं प्रशशास । ततो गच्छति काले एकदाऽसौ मृगयां विहरन् क्षुधातृट- पीडितः मौनव्रतावलम्बिनः शमीकस्य मुने- राश्रमं गत्वा प्रत्युत्तरदानपराङ्मुखस्य तस्य स्कन्धे धनुष्कोट्या मृतं सर्पमासञ्जयामास । अनेना- पराधेनेमं राजनं शमीकस्य पुत्त्रः शृङ्गी नामा तपस्वी इतः सप्तमेऽहनि तक्षकदष्टोऽयं मृतो भविष्यतीत्यभिशप्तवान् । एतदाकर्ण्यायं गङ्गातीरे मुनिप्रभृतिभिरीश्वरनामकीर्त्तनादिकमालोचयन् प्रायोपवेशने स्थितस्तक्षकदष्टो मृतश्च । इत्ये- तत्कथा महाभारते विस्तरतो द्रष्टव्या ॥ (कुरुपुत्त्रविशेषः । यथा, हरिवंशे । ३२ । ९० । “कुरोस्तु पुत्त्राश्चत्वारः सुधन्वा सुधनुस्तथा । परिक्षित्तु महाबाहुः प्रवरश्चारिमेजयः ॥ अविक्षित्-पुत्त्रः । यथा, महामारते । १ । ९४ । ५० । “अविक्षितः परिक्षिच्च शवलाश्वश्च बीर्य्यवान् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिक्षित्¦ पु॰ परिक्षीणे क्षयति वर्द्धते क्षि--क्विप्।

१ अभिम-न्युपुत्रे नृपभेदे तन्नामनिरुक्तिः भा॰ सी॰

१६ अ॰
“विराटस्यसुनां पूर्वं स्नुषां गाण्डीवधन्वनः। उपप्लवगतां दृद्धा[Page4245-b+ 38] सत्यवाक् ब्राह्मणोऽब्रवीत्। परिक्षीणेषु करुषु पुत्रस्तवभविष्यति। एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति। तस्य तद्ववचनं साधोः सत्यमेतद् भविष्यति। परिक्षिद्भयिता ह्येषां पुनर्वंशकरः सुतः”। क्विपि उपसर्गदीर्थेपरीक्षित् अप्यत्र। कर्त्तरि क्त परिक्षितोऽप्यत्र पब्दर॰।

२ कुवेरपुत्रभेदे पु॰ हरिवं॰



२ अ॰।
“द्वावृक्षौ तव वंश्ये-ऽस्मिन् द्वावेव च परिक्षितौ” तत्रैवाध्याये।

३ अविचतःपुत्रे नृपभेदे च
“अविक्षितः परिक्षित्तु शबलाश्वश्चवीर्य्यवान्” भा॰ आ॰

९४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिक्षित्¦ m. (-क्षित्) The name of a king, the son of ABHIMANYU, and grand-son of ARJUNA; see परीक्षित्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिक्षित् [parikṣit], m.

N. of a king, son of Abhimanyu and father of Janamejaya.

An epithet of Agni.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिक्षित्/ परि-क्षित् mfn. dwelling or spreading around , surrounding , extending (as अग्नि, heaven and earth etc. ) RV. AV. AitBr.

परिक्षित्/ परि-क्षित् m. N. of an ancient king (son of अभिमन्युand father of जनम्-एजय) MBh. Hariv.

परिक्षित्/ परि-क्षित् m. of a son of कुरुand father of another -JanJanam Hariv.

परिक्षित्/ परि-क्षित् m. of a son of अ-विक्षित्and brother of -Jan जनम्-एजयMBh.

परिक्षित्/ परि-क्षित् m. of a king of अ-योध्याib. (See. परी-क्षित्under 1. परी, p. 605 , col. 1).

"https://sa.wiktionary.org/w/index.php?title=परिक्षित्&oldid=416056" इत्यस्माद् प्रतिप्राप्तम्