परिणाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणामः, पुं, (परिणमनम् । परि + नम् + घञ् ।) विकारः । प्रकृतेरन्यथाभावः । यथा । मुखस्य विकारः क्रोधरक्तता । केचित्तु । प्रकृति- ध्वंसजन्यविकारः । यथा काष्ठस्य विकारो भस्म । मृत्पिण्डस्य घटः । इत्यमरभरतौ ॥ चरमः । शेषः । यथा, -- “परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि क्षतौजसाम् । अतिवीर्य्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥” इति भारवौ । २ । ४ ॥ (निदानभेदेन यथा, -- “असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणाम- भेदात्त्रिविधो वा ॥” “परिणामोऽयोगादियुक्ता ऋतुस्वभावजा शीतादयः । अधर्म्मस्य च रोग- हेतोरत्रैवान्तर्भाव इति भट्टारहरिश्चन्द्रः ॥” इति माधवकरकृतरुग्विनिश्चयस्य पञ्चनिदान- व्याख्याने विजयेनोक्तम् ॥ “कालस्य परिणामेन जरामृत्यनिमित्तजाः । रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः ॥” इति चरके शरीरस्थाने प्रथमेऽध्याये ॥ अर्थालङ्कारभेदः । तल्लक्षणं यथा, -- “परिणामः क्रियार्थश्चेद्विषयी विषयात्मना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणाम पुं।

प्रकृतेरन्यथाभावः

समानार्थक:परिणाम,विकार,विकृति,विक्रिया

3।2।15।2।1

निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्. परिणामो विकारे द्वे समे विकृतिविक्रिये॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणाम¦ पु॰ परि + नम घञ्।

१ प्रकृतेरन्यथाभावे विकारे

२ शेषे
“परिणामेऽतृतोपसम्” गीता।

३ {??}ङ्कारभेदेच। अन्यथाभावश्च प्रकृत्युच्छेदेन प्रकृतेर्युणान्तराधानेनवा यया नृदादेर्षटादिरूपेण, काष्ठादेर्भस्यादिना।
“प-[Page4247-b+ 38] रिणामतापतापसंस्कारदुःखैः” पात॰ सू॰
“परिणामतःसलिलवत्” सां॰ का॰
“यथा हि वारिदविमुक्तमुदक-मेकरसमपि तत्तद्भूमिविकारानासाद्य नारिकेलतालीवि-ल्वचिरविल्वतिन्दुकामलकप्राचीनामलककपित्थफलरसतयापरिणामान्मधुराम्लतिक्तकटुकषायतया विकल्प्यते एव-मेकैकगुणसमुद्भवात् प्रधानं गुणमाश्रित्याप्रधानगुणाःपरिणामभेदान् प्रवर्त्तयन्ति” सांत॰ कौ॰।

४ परिपाके
“भुक्तस्य परिणामहेतुरोदर्य्यः (वह्निः) तर्कसंग्रहः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिणाम/ परि-णाम m. change , alteration , transformation into( instr. ) , development , evolution Sa1m2khyak. Yogas. Pur. Sus3r.

परिणाम/ परि-णाम m. ripeness , maturity Kir. Uttarar. Ma1lati1m.

परिणाम/ परि-णाम m. alteration of food , digestion Sus3r. Tarkas.

परिणाम/ परि-णाम m. withering , fading S3a1rn3gP.

परिणाम/ परि-णाम m. lapse (of time) MBh. R.

परिणाम/ परि-णाम m. decline (of age) , growing old ib. Sus3r.

परिणाम/ परि-णाम m. result , consequence , issue , end( ibc. and 617554 मेind. finally , at last , in the end) Ka1v.

परिणाम/ परि-णाम m. (in rhet. )a figure of speech by which the properties of any object are transferred to that with which it is compared Kuval.

परिणाम/ परि-णाम m. N. of a holy man RTL. 269

"https://sa.wiktionary.org/w/index.php?title=परिणाम&oldid=500813" इत्यस्माद् प्रतिप्राप्तम्