परिदेवना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदेवना, स्त्री, (परिदेवयतीति । परि + दिवि + “ण्यासश्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् । ततष्टाप् ।) शोकनिमित्तो विलापः । यथा, -- “अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ! । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥” इति श्रीभगवद्गीताद्वितीयाध्यायश्लोकव्याख्याने श्रीधरस्वामी ॥ अपि च । “न मन्त्रबलवीर्य्येण प्रज्ञया पौरुषेण च । अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि शौनक ! । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ अयाचितो मया लब्धस्त्वत्प्रेषितः पुनः कुतः । यत्रागतस्तत्र गतस्तत्र का परिदेवना ॥ एकवृक्षे यदा रात्रौ नानापक्षिसमागमः । प्रभाते दश दिशो यान्ति तत्र का परिदेवना ॥ एकसार्थप्रयातानां सर्व्वेषान्तत्र गामिनाम् । यद्येकस्त्वरितो याति का तत्र परिदेवना ॥” इति गरुडपुराणे १११ अध्यायः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिदेवना/ परि-देवना f. id. Ya1jn5. MBh. Hit.

"https://sa.wiktionary.org/w/index.php?title=परिदेवना&oldid=416691" इत्यस्माद् प्रतिप्राप्तम्