परिमल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमलः, पुं, (परिमलते सुगन्धिपार्थिवकणां धरतीति । मल ङ् धारणे + अच् । “क्षितावेव गन्धः ।” इति न्यायादस्य तथात्वम् ।) विमर्द्दनम् । कुङ्कमादिमर्द्दनम् । विमद्दत्थिजनमनोहरगन्धः । सुरतादिविमद्वंत्थिविलेपनकुङ्कमादिगन्धः । इत्य- मरभरतौ ॥ सुरभिमाल्यगन्धादिधारणेनोत्पन्नो हृद्यो गन्धः । इति स्वामी ॥ (यथा, कलावि- लासे । १ । ५ । “रतिलुलितललितललनाक्लमजललववाहिनो मुहुर्यत्र । श्लथकेशकुसुमपरिमलवासितदेहा वहन्त्य- निलाः ॥”) तत्पर्य्यायः । आमोदः २ गन्धः ३ सौरभ्यम् ४ सौरभम् ५ । इति राजनिर्घण्टः ॥ पण्डित- समूहः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमल पुं।

जनमनोहरगन्धः

समानार्थक:परिमल

1।5।10।1।1

विमर्दोत्थे परिमलो गन्धे जनमनोहरे। आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्.।

पदार्थ-विभागः : , गुणः, गन्धः

परिमल पुं।

कुङ्कुमादिमर्दनम्

समानार्थक:विमर्दन,परिमल

3।2।13।1।2

विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः। निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमल¦ पु॰ परि + मल--अच्।

१ कुङ्कुमचन्दनादिमर्दने मर्द-नोद्भूते

२ सुगन्धौ अमरः।

३ परितः सम्बन्धे च
“सतांपरिमप्रोद्भूतबद्धोत्सबः” इत्युदयनः

४ पण्डितसमूहे शब्दर॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमलः [parimalḥ], Fragrance, perfume, scent; परिमलो गीर्वाण- चेतोहरः Bv.1.63,66,7,71; यः पण्यस्त्रीरतिपरिमलोद्गारिभि- र्नागराणामुद्दामानि प्रथयति शिलावेश्मभिर्योवनानि Me.25.

Pounding or trituration of fragrant substances.

A fragrant substance.

Copulation; 'संभोगः स्यात् परिमले' इति वैजयन्ती; अथ परिमलजामवाप्य लक्ष्मीम् Ki.1.1.

A meeting of learned men.

A stain, spot, dirt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिमल/ परि-मल m. (Prakrit fr. मृद्?)fragrance , or a fragrant substance , perfume ( esp. arising from the trituration of fragrant substances) Ka1v. Pan5c. etc.

परिमल/ परि-मल m. copulation , connubial pleasure Kir. (See. below)

परिमल/ परि-मल m. a meeting of learned men L.

परिमल/ परि-मल m. soil , stain , dirt L.

परिमल/ परि-मल m. N. of a poet (also called पद्मगुप्त) Cat.

परिमल/ परि-मल m. N. of sev. works. and Comms.

"https://sa.wiktionary.org/w/index.php?title=परिमल&oldid=500819" इत्यस्माद् प्रतिप्राप्तम्