परिषत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिषत्, [द्] स्त्री, (पारतः सीदन्त्यस्याम् । पार- + सद् + अधिकरणे क्विप् । “सदिरप्रतेः ।” ८ । ३ । ६६ । इति षत्वम् ।) सभा । इत्य- मरः । २ । ७ । १५ ॥ (यथा, गोः रामा- यणे । २ । १३ । १६ । “यादृशी परिषत् सीते ! दूतश्चायं तथाविधः । ध्रुवमद्यैव राजा मां यौवराज्येऽभिषेक्ष्यति ॥” परियच्च खलु द्बिविधा, ज्ञानवती मूढपरिषच्च, सैव द्विविधा सती त्रिविधा पुनरनेन कारण- विभागेन सुहृत्परिषत्, उदासीनपरिषत, प्रति- निविष्टपरिषच्चेति । तत्र प्रतिनिविष्टायां परि- षदि ज्ञानविज्ञानवचनप्रतिवचनशत्ति सम्पन्नायां मूढायां वा न कथञ्चित् केनचित् सह जल्पो विधीयते । मूढायान्तु सुहृत्परिषदि उदा- सीनायां वा ज्ञानविज्ञानमन्तरेणाप्यदीप्तयशसा महाजनद्बिष्टेन सह जल्पो विधीयते । तद्बिधेन च सह कथयता आविद्धदीर्घसूत्रसङ्कलैर्वाक्य- दण्डकैः कथयितव्यम् । अतिहृष्टं मुहुर्मुहुरुप- हसता परं रूपयता च परिषदमाकारैब्रुव- तश्चास्य वाक्यावकाशो न देयः । कष्टशब्दञ्च ब्रुवन् वक्तव्यो नोच्यत इति । अथवा पुनर्हीना ते प्रतिज्ञेति पुनश्चाह्वयमानः प्रतिवक्तव्यः । परि- संवत्सरोभव शिक्षस्व तावत् । पर्य्याप्तमेतावत्ते । सकृदपि हि पारिक्षेपिकं निहतं निहतमाहु- रिति । नास्य योगः कर्त्तव्यः कथञ्चिदप्येवं श्रेयसा सह विगृह्य वक्तव्यमित्याहुरित्येके । नत्वेवं ज्यायसा सह विग्रहं प्रशंसन्ति कुशलाः । प्रत्य- वरेण तु सह समानाभिमतेन वा विगृह्य जल्पता सुहृत्परिषदि कथयितव्यम् । अथवाप्यु- दासीनपरिषदि अनवधानश्रवणज्ञानविज्ञानोप- धारणवचनशक्तिसम्पन्नायां कथयता चाव- हितेन परस्य साद्गुण्यदोषबलमवेक्षितव्यम् । समवेक्ष्य च यत्रैनं श्रेष्ठं मन्येत नास्य तत्र जल्पं योजयेत् अनाविकृतमयोगं कुर्व्वन् । यत्र त्वेनमवरं मन्येत तत्रैवैनमाशु निगृह्णीयात् ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥) परिषत्त्वं यथा, प्रायश्चित्तविवेके । “एकविंशतिसंख्याकैर्मीमांसान्यायपारगैः । वेदाङ्गकुशलैश्चैव परिषत्त्वं प्रकल्पयेत् ॥”

"https://sa.wiktionary.org/w/index.php?title=परिषत्&oldid=147307" इत्यस्माद् प्रतिप्राप्तम्