परीक्षा

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षा, स्त्री, (परित ईक्ष्यतेऽनया । परि + ईक्ष + “गुरोश्च हलः ।” ३ । ३ । १०२ । इति अः । ततष्टाप् ।) दिव्यम् । अथ दिव्यानि । तत्र बृहस्पतिः । “धटोऽग्निरुदकञ्चैव विषं कोषश्च पञ्चमम् । षष्ठञ्च तण्डुलाः प्रोक्तं सप्तमं तप्तमाषकम् ॥ अष्टमं फालमित्युक्तं नवमं धर्म्मजं स्मृतम् । दिव्यान्येतानि सर्व्वाणि निर्द्दिष्टानि स्वयम्भुवा ॥” अथ किन्तद्दिव्यम् । तत्र मानुषप्रमाणानिर्णयस्यापि निर्णायकं यत्त- द्दिव्यमिति लोकप्रसिद्धम् । एतद्यद्यपि शपथा- नामस्ति तथापि कालान्तरनिर्णायकत्वेन तेषां भेदात् । अपिना मानुषप्रमाणसत्त्वेऽपि यत्र धटादीनामङ्गीकारस्तत्रापि तद्भवति इति सूचि- तम् । अतएव लिखितसाक्षिभुक्तिलक्षणत्रिविध- मानुषप्रमाणभिन्नप्रमाणं यत्तद्दिव्यं प्रमाणं तत प्रमाणं न भावैकगोचरं किन्तु भावाभावा- विशेषेण गोचरयतीति । तत्र महाभियोगेषु दिव्यान्याह याज्ञवल्क्यः । “तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥” विशुद्धये सन्दिग्धार्थस्य सन्देहनिवृत्तये । महाभियोगेषु महापातकादिगुरुतराभियोगेषु । शीर्षकस्थ इति शीर्षकं प्रधानं व्यवहारस्य चतुर्थपादो जयपराजयलक्षणः । तेन दण्डो लक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्ड- भागीत्यर्थः । महाभियोगान् स्पष्टयति कालिका- पुराणम् । “परदाराभिशापे च चौर्य्यागम्यागमेषु च । महापातकशस्तेषु स्याद्दिव्यं नृपसाहसे ॥ प्रतिपत्तौ विवादे च पणस्य स्थापने कृते । तत्रैव स्थापयेद्दिव्यं शिरःपूर्ब्बं महीपतिः ॥” परदाराभिशापे च बहवो यत्र वादिनः । शिरोहीणं भवेद्दिव्यमात्मनः शुद्धिकारणात् ॥” पितामहः । “शिरःस्थायिविहीनानि दिव्यानि परिवर्ज्जयेत् । चत्वारि तु धटादीनि कोषश्चैवाशिराः स्मृतः ॥” महाभियोगेतरेऽपि कोषमाह स्मृतिः । कोष- मल्पे च दापयेत् । याज्ञवल्क्येनाभियोक्तुर्वादिनः शिरोवर्त्तित्वाभिधानादभियोज्यस्य दिव्यकर्त्तृत्वं प्रतिपादितम् । व्यक्तमाह कात्यायनः । “न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् । अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥” प्रत्यर्थिस्वीकारेणार्थिनोऽपि दिव्यमाह याज्ञ- वल्क्यः । “रुच्या वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः । विनापि शीर्षकान् कुर्य्यान्नृपद्रोहेऽथ पातके ॥” इतरोऽभियुक्तः शिरः शारीरदण्डमर्थदण्डं वा वर्त्तयेत् स्वीकुर्य्यात् । बृहस्पतिः । वमनादीनां प्रवृत्तिः क्व च निवृत्तिः प्रवृत्ति- निवृत्तिलक्षण-संयोगे च किं नैष्ठिकं कानि च वमनादीनां भेषजद्रव्याणि उपयोगं गच्छ- न्तीति । स एवं पृष्टो यदि मोहयितुमिच्छेत् ब्रूयादेनं बहुविधा परीक्षा तथा परीक्ष्यविधि- भेदः कतमेन विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्या भिन्नभेदाग्रं भवान् पृच्छत्याख्यायमानं नेदानीं भवतोऽन्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्याभिलषितमर्थं श्रोतुमहमन्येन परीक्षा विधिभेदप्रकृत्यन्तरेण परीक्ष्यं भित्त्वार्थमाच- क्षाण इच्छां पूरयेयमिति । द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षमनुमानञ्च एतत्तु द्वयमुपदेशश्च परीक्षात्रयमेवमेषा द्विविधा परीक्षा त्रिविधा वा सहोपदेशेन । दशविधं परीक्ष्यं कारणादि यदुक्तमग्रे तदिह भिषगादिषु संसार्य्य सन्दर्शयिष्यामः इह कार्य्य- प्राप्तेः कारणं भिषक्करणं पुनर्भेषजं कार्य्य- योनिर्धातुवैषम्यं कायं धातुसाम्यं कार्य्यफलं सुखावाप्तिः अनुबन्ध आयुः देशो भूमिरा- तुरश्च कालः संवत्सरश्चातुरावस्था च प्रवृत्तिः प्रतिकर्म्मासमारम्भः उपायो भिषगादीनां सौष्ठवमभिविधानञ्च सम्यगिहाप्यस्योपायस्यं विषयः पूर्ब्बेणैवोपायविशेषेण व्याख्यात इति कारणादीनि दश दशसु भिषगादिषु संसार्य्य- सन्दर्शितानि तथैवानुपूर्ब्ब्या एतद्दशविधपरीक्ष्य- मुक्तम् । तस्य यो यो विशेषो यथा यथा च परीक्षितव्यः स स तथा तथा व्याख्यास्यते कारणं भिषगि- त्युक्तमग्रे तस्य परीक्षा भिषङ्नाम यो भिषज्यति यः सूत्रार्थप्रयोगकुशलः यस्य चायुः सर्व्वथा- विदितम् । यथावत् सर्व्वधातुसाम्यं चिकीर्षन्ना- त्मानमेवादितः परीक्षेत गुणेषु गुणतः कार्य्याभि- निर्वृत्तिं पश्यन् कच्चिदहमस्य कार्य्यस्याभिनिर्व- र्त्तने समर्थो नवेति ।” इति चरके विमानस्थाने- ऽष्टमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षा¦ स्वी परि + ईक्ष--भावे अ। दिव्यशब्दे

२५

८९ पृ-ष्ठादौ दर्शिते

१ दिव्यशब्दार्थे तर्कप्रमाणादिना

२ वस्तुत-त्त्वावधारणे च।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षा¦ f. (-क्षा)
1. Discrimination, investigation, examination, test, trial, experiment.
2. Trial by ordeal of various kinds: see दिव्य। E. परि intensitive prefix, before, ईक्ष् to see, affs. अङ् and टाप्; looking into any thing or person closely and minutely.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षा [parīkṣā], 1 Examination, test, trial; पत्तने विद्यमाने$पि ग्रामे रत्नपरीक्षा M.1; Ms.9.19.

Trial by various kinds of ordeals (in law).

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परीक्षा/ परी f. inspection , investigation , examination , test , trial by ordeal of various kinds(See. 2. दिव्य) Mn. MBh. etc.

परीक्षा/ परी f. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=परीक्षा&oldid=280596" इत्यस्माद् पुनः प्राप्तिः