पर्कटी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्कटी, स्त्री, (पृच् धी च् सम्पर्के + बाहु- लकादटिः । “बह्वादिभ्यश्च ।” ४ । १ । ४५ इति वाङीष् ।) प्लक्षवृक्षः । इत्यमरटीकायां भरतः ॥ पाकुड इति भाषा ॥ (यथा, हितोप देशे । “अस्ति तत्र महान् पर्कटीवृक्षः ॥”) तस्य गुणाः भावप्रकाशे । “प्लक्षः कषायः शिशिरो व्रणयोनिगदापहः । दाहपित्तकफास्रघ्नः शोथहा रक्तपित्तहृत् ॥”

पर्कटी, [न्] पुं, वृक्षविशेषः । पाकुड इति भाषा ॥ तत्पर्य्यायः । प्लक्षः २ जटी ३ । इत्य- मरः । २ । ४ । ३२ ॥ कमण्डलुतरुः ४ । इति रत्नमाला ॥ कपीतनः ५ क्षीरी ६ सुपार्श्वः ७ कमण्डलुः ८ शृङ्गी ९ अवरोहः १० शाखी ११ गर्द्दभाण्डः १२ पीतनः १३ दृढप्ररोहः १४ प्लक्षकः १५ प्लवङ्गः १६ महाबलः १७ । अस्य गुणाः कटुत्वम् । कषायत्वम् । शिशिरत्वम् । रक्तदोषमूर्च्छाभ्रमप्रलापनाशित्वञ्च । विशेषतो ह्रस्वप्लक्षस्यैते गुणाः । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर्कटी f. Ficus Infectoria( -वृक्ष). Hit. (also टीL. )

पर्कटी f. a fresh betel-nut L.

"https://sa.wiktionary.org/w/index.php?title=पर्कटी&oldid=500834" इत्यस्माद् प्रतिप्राप्तम्